26 जनवरी (गणतंत्र-दिवस) 
26 January Republic Day


अस्माकं देशः १९४७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के स्वतन्त्रः अभवत्, परन्तु अस्माकं देशे १९५० तमस्य वर्षस्य जनवरी-मासस्य २६ दिनाङ्के अस्माकं स्वकीयं संविधानं कार्यान्वितम् । अस्मिन् दिने अस्माकं देशः गणराज्यराष्ट्रत्वेन घोषितः अभवत् । ततः परं प्रतिवर्षं २६ जनवरी दिनाङ्के वयं गणतन्त्रदिवसः इति आचरामः।

२६ जनवरी अवकाशः अस्ति । प्रातःकाले ध्वजपूजायाः कार्यक्रमाः भवन्ति । 'जन-गण-मन' इति राष्ट्रगीतं गाय्यते । विद्यालयेषु महाविद्यालयेषु च बहवः कार्यक्रमाः सन्ति।

अस्मिन् दिने राजधानी दिल्लीनगरे भारतीयसेनायाः एकः अद्भुतः परेडः भवति । परेड-मध्ये अनेकानां प्रान्तानां सुन्दराणि चित्राणि दर्शितानि सन्ति । भारतस्य राष्ट्रपतिः परेडस्य नमस्कारं गृह्णाति।

सत्यमेव, जनवरी २६ दिनाङ्कः अस्माकं राष्ट्रियपर्व अस्ति।