Sanskrit Essay on Current Topics, Current Issues, Social Issues, Sanskrit Language Essay, Nibandh on Latest Topics, Latest Issues, Social Topics for Class 8, 9, 10, 11, 12 Kids and Students.

Total Essays:- 112


श्री गणेश
Shri Ganesh


गणेशः प्रसिद्धा हिन्दुदेवता । शिवपार्वत्योः प्रथमः पुत्रः भवति। गणः नाम समूहः, गणानाम् ईशः गणेशः इति। सः विनायकः इति नाम्नि अपि प्रसिद्धः। सः गजवक्त्रः वर्तते। स एव विघ्ननाशकः। अतः एव सः कार्यारम्भे पूज्यते । सः भक्तप्रियदेवः। तस्य भक्ताः गाणपतेः इति ख्याताः। गणेशोपनिषद् गणेशपुराणं मुद्गलपुराणं च तस्य स्तुतिं कुर्वन्ति। सः न केवलं हैन्दवैः किन्तु बौद्धैः जैनैः अपि पूजितः।गणेशः पौराणिकशास्त्रानुसारेण गजशिरधारिदेवतारूपेण पूजिता अस्ति। तस्य एकः दन्तः अर्धः वर्तते। बृहदाकारोदरम् अस्य अवयवे विलक्षणतया दृश्यते। गणेशस्य चरणदेशे विविधभक्ष्याणि भवन्ति। तत्पुरतः मूषिकः स्थितः वर्तते।आध्यात्मिकशिक्षायाः प्रथमसोपानं भवति 'श्रवणम्', तन्नाम वेदान्ते विद्यमानानां परमसत्यानां श्रवणम् । द्वितीयसोपानं 'मननं' तत्सत्यस्य स्वातन्त्रप्रतिच्छाया एव। श्रवणमननमाध्यमेन सर्वज्ञताम् अर्जयितुं शक्यते। गजाननस्य बृहदाकारकं कर्णं मस्तकञ्च तदेव द्योतयति।गणेशस्य हस्तचतुष्टयं मन- बुद्धि-अहंकार-चित्तं च द्योतयति। गणेशः स्वयं सच्चिदानन्दस्वरूपः भूत्वा आत्मोपलब्धेः चत्वारि उपादानानि प्रदर्शयति।शुण्डं गजाननस्य अवयवे लाक्षणिकतया तिष्ठति। स्थूलसूक्ष्मकार्ययोः सम्पादनं गजशुण्डस्य अत्याश्चर्यगुणं भवति। यथा शुण्डेन वृक्षोत्पाटनं कर्तुं शक्यते तथैव शुण्डेन भूमौ पतितां सूचीं अपि स्वीकर्तुं शक्यते। वक्रतुण्डस्य बुद्धिमत्ता स्थूल(वस्तुनिष्ठजगत्)-सूक्ष्म(पारमार्थिकजगत्)जगतोः मध्ये सेतुबन्धं करोति। परमात्मनः प्राप्त्यर्थं तन्मार्गेण (स्थूलात् सूक्ष्मं प्रति) एव गमनीयेति जनान् सूचयति ।महत् उदरं सूचयति यत् खादितानि सर्वाणि खाद्यानि जीर्णीकर्तुं समर्थं वर्तते इति । तथैव आदर्शः पुरुषः स्वस्य जीवने घट्यमानाः सर्वविधघटनाः अपि निश्चलमनसा जीर्णीकुर्याद् इति ।गणेशः सर्वदा एकस्य उपरि अपरं पादं संस्थाप्य उपविशति। एकः पादः भूमौ स्थितः भवति । तस्य व्यक्तित्वस्य कश्चन अंशः पार्थिवलोके भवति अपरः तु सर्वदा परमसत्ये एकनिष्ठतया स्थितः भवति। तथा मनुष्योऽपि पार्थिवलोके स्थित्वा योगबलेन मूलभूतात्मोपलब्धिं कर्तुं शक्नोति।तस्य मूर्तयः मन्दिरेषु गृहेषु च प्राचुर्येण दृश्यन्ते। तस्य एकदन्तकं गजवक्त्रम् अस्ति। तस्य उदरं भाण्डाकारम्। सः नागयज्ञोपवितम् धरति। तस्य चत्वारः बाहवः सन्ति। सः पाशम् अङ्कुशं मोदकं च धरति। सः एकहस्तेन आशिषं ददाति।गाणपत्यसम्प्रदायस्य प्रधानग्रन्थौ द्वौ स्तः । गणेशविषयके द्वे उपपुराणे (गणेशमुद्गलश्च) पृथग्पृथकतया गणेशस्य क्रमशः चत्वारः एवं अष्ट अवताराः सन्ति इति कथयति ।


श्री कृष्ण 
Shri Krishna


कृष्णः भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः।। कृष्णस्तु स्वयं भगवान् इति कथ्यते। कर्षति आकर्षति इति कृष्णः, मेघश्यामवर्णीयः इति तस्य नामस्य अर्थः। मृत्युलोके इह श्रीकृष्णः द्वापरयुगे पाश्चैमिकवर्षे ३१०२ ईसापूर्वे मथुरानगरस्य कारागृहे ऽवतृतः। तस्य माता देवकी पिता वसुदेवश्च ।तदा कंसः देवक्या: भ्राता मथुरानरेश: आसीत् । कंसपितोग्रसेनः कृष्णस्य मातामहः। दुष्टेन कंसेन भगिनी देवकी आवुत्त: वसुदेव: च स्वकारागृहे बद्धौ।। कंसमतिबलवन्तं कश्चित् ऋषिः देवकीवसुदेवविवाहावसरे तयोरष्टमपुत्रः कंसमर्दनकारणं भविष्यतीति कथितवान्। तस्मात्तौ कंसेनातिचिन्तितेन कारागृहे बद्धौ आस्ताम्। वसुदेवदेवक्योः सप्तपुत्रान् क्रूर:कंसः हतवान्।अष्टमपुत्रः कृष्णः जनितः इति विदित्वा आगच्छति |किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। एतद्विषयं तत्स्त्रीकन्यया विदितः कंसः श्रीकृष्णस्य अन्वेषणे सर्वत्र स्वसैन्यं प्रेषितवान्। तद्व्याजया आगतान् शकटासुर तृणावर्तादीन् संहरति। अर्जुनवृक्षछेदव्याजया धुनि,चमु इति असुरौ संहरति। एवं लोकपालः कृष्णः गोकुलं त्यक्त्वा वृंदावनं प्रति आगत्य तत्र बक-उग्र-वत्सासुरादीन् संहरति। तत्रैव कालीयमर्धनं कृत्वा लोकरक्षणार्थं कालीयं मारयति। तत्सप्तवयसि एव कालनेमिपुत्रान् वेषभस्वरूपान् सप्तदैत्यान् मारितस्य कृष्णस्य नीला इति कन्यया साकं विवाहं भवति। एकदा एषः वृन्दावने इन्द्रयज्ञं न्यवारयति। तदा कृद्धः इन्द्रः बृहद्वर्षधारां निरंतरं वर्षति। तदा कृष्णः गोवर्धनगिरिं धृत्वा वृन्दावनजनान् रक्षति।तद्दृष्ट्वा इन्द्रोपि कृष्णस्य समीपे शरणागतिं प्राप्नोति। एतद्गोवर्धनगिरिप्रसंगेन सर्वे जनाः श्रीकृष्णं स्वयं भगवान् इति जानन्ति। एवं शंखचूड-अरिष्टासुर-रजक- पूतनी-कुवलयापीड-चाणूर-मुष्टिकासीन् हत्वा स्वमातुलं कंसं च मारितः श्रीकृष्णः देवकी वसुदेवयोः बन्धनं निस्सारितवान्। १६१०८ पत्नीन् प्राप्तः कृष्णः नरकासुरसंहारानंतरं स्त्रीसंरक्षणार्थं १६००० कन्यान् उद्वहति। यतः नरकासुरः तान् कन्यान् स्वबंधने वनिहितव्वन्। यदा कृष्णः नरकासुरं हत्वा तान् कन्यान् विमोचति। तदा ते प्रार्थयंति। नरकासुरात् बन्धितान् अस्मान् कोपि नेछति। अतः अस्माकं तावत् त्वमेव गतिः पतिः इति। तेषां प्रार्थनानुसारेण कृष्णः तान् उद्वहति।अन्ये लक्ष्मीस्वरूपाःअष्टमहिष्स्तावत् सन्दर्भानुसारेण कृष्णं प्राप्नुवन्ति। कृष्ण: यादवकुलस्य राजा आसीत्। तेन भगवद्गीता संवाद: प्रदत्तः। गीतायाम् अष्टादश अध्यायाः सन्ति। दशमे अध्याये श्रीकृष्णः स्वदिव्यस्वरूपं वर्णयति। एकादशे अध्याये सः अर्जुनाय स्वस्य विश्वरूपं दर्शयति। द्वादशे अध्याये भक्तस्य दिव्यगुणाः वर्णिताः। कृष्णः इति नामं तावत् भगवद्मूलरूपेषु चतुर्विंशतिरूपेषु अंतिमः। महाभारतस्य विष्णुसहस्रनामे ५७ & ५५० तमे नामे प्रसिद्धः। कृष्णस्य इतिहासस्तु महाभारतॆ,भागवतमहापुराणे, विष्णुपुराणे, हरिवंशे गीयते। एषः कृष्णः एव ओडिशा मध्ये जगन्नाथ, महाराष्ट्रे विठोभ, राजस्थानमध्ये श्रीनाथ इति प्रसिद्धः। उत्तरप्रदेश, बिहार्, हरियाण, गुजरात्, डेल्ली मध्येषु कृष्णस्य संचलनमासीत् इति प्रथा।


दुर्गा 
Durga 


दुर्गा देव्याः पार्वत्याः अपरं रूपम् । भारते देशे सनातनधर्मस्य अनुयानिनः शक्तसम्प्रदाये भगवतीं दुर्गां जगतः पराशक्तिः इति विश्वसन्ति । शाक्तसाम्प्रदायस्य जनाः भगवन्तं देवीरूपेण पश्यन्ति । उपनिषत्सु उमा हैमवती इति दुर्गायाः वर्णनम् अस्ति । पुराणेषु दुर्गाम् आदिशक्तिः इति उक्तम् । वास्तवे दुर्गा शिवस्य पत्न्याः पार्वत्याः किञ्चित् रूपम् एव यस्याः उत्पतिः राक्षसानां नाशार्थम् अभवत् । सर्वासां देवतानां प्रार्थनाम् श्रुत्वा पार्वती त्रिदेवानां सहकारेण दुर्गारूपम् अवाप्नोत् । अतः दुर्गा युद्धदेवी भवति । दुर्गायाः पुनः स्वयः अनेकरूपाणि भवन्ति । अस्याः सुन्दरं शान्तं शुक्लरूपं भवति गौरी । एवमेव अस्याः भयङ्करं रूपं भाति काली । विभिन्नरूपेषु दुर्गा भारते, नेपाले च पूजयन्ति । अस्याः दुर्गायाः वाहनं शार्दूलः भवति ।

दुर्गापूजा 
Durgapuja 


पश्चिमवङ्गराज्ये आश्वयुजमासः (सप्टम्बर्-अक्टोबरमासयोः वर्तमानः) वर्षस्य् प्रमुखभागायते । यतः अस्मिन्नेव मासे महोत्साह दायकं नवरात्रोत्सवम् आचरन्ति तत्रत्याः । दुर्गापूजायाः आचरणस्य परम्परा बह्वीभ्यः शताद्वीभ्यः पूर्वम् एव आरब्धा । द्वादशशताब्द्ययाः पूर्वात् एव आरभ्य आचर्यते स्म दुर्गापूजा इति ज्ञायते भारतीयस्य साहित्यस्य अध्ययनेन । एतस्मात् स्पष्टं यत् आ बहोः कालात् अविच्छिन्नतया उत्सवोऽयम् आचर्यमाणः अस्ति तत्र इति । पूर्वं भूस्वामिनः वाणिज्यकाराः च स्वगृहेषु पूजाम् आयोजयन्ति स्म । तत्सम्बद्धं व्ययं स्वयं वहन्ति स्म च । जातिभेदं, धनिकारिद्रभेदं च विना सर्वेऽपि प्रतिवेशिनः पूजास्थाने उपस्थिताः भवन्ति स्म । सर्वेषां स्वागतं, पूर्णोदरं भोजनं च भवति स्म । किन्तु अद्यत्वे सा पूजा जातितरिधाउ एव आचर्यते जनैः स्वयम् एव । एतदर्थं घटितेषु सङ्घेषु, समितिषु, समूहेषु च पूजामाध्यमेन क्र्मशः शीलविकासः जायते स्म पूर्वम् । सामाजिकधार्मिकप्रतिकभूतः एष उत्सवः अत्युन्नतां प्रगतिं प्राप्नोति स्म अपि । किन्तु इदानीम् एतत् परिस्थितिवशात्, वैभवाडम्बरादि प्रदर्शनकारणं जातम् अस्ति । पूर्वं दुर्गा एका एव पूज्यते स्म । किन्तु इदानीं सा परिवारसहिता द्दस्यते । पत्युः शिवस्य, पुत्रयोः गणेशकर्त्तिकेययोः समक्षे दुर्गायाः मूर्तिः प्रमुखतया यथा भासेत् तथा कृत्वा दिव्यसन्निधिं चित्रयन्ति । पूजा दिनत्रयं यावत् भवति ।

विष्णु
Vishnu


विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। आदिशेषस्य उपरि तस्य शयनम्। सः सर्वेषां जगताम् एकएव स्वामी। विष्णुः एव परमात्मारूपेण सर्वेषु भूतेषु तिष्ठति। विष्णोः उपासकः वैष्णवः नाम्ना ज्ञायते। वैष्णवेषु शिवः इव कोऽपि नास्ति "वैष्णवानां यथा शम्भुः"। विष्णुः सवेषां जीवानां परमः सुहृत्। भगवान् विष्णुः क्षीरसागरे निवसति। तस्य धाम वैकुण्ठः इति नाम्ना ज्ञ‌ायते। विष्णोः नाभेः कमलः जातः यत्र ब्रह्मा स्थितः अस्ति। इदं कृत्स्नं जगत् तस्य एव शक्त्या सञ्चालितम् अस्ति। सः निर्गुणः सगुणश्च अस्ति। पद्मपुराणस्य उत्तरखण्डे वर्णितम् अस्ति यत् भगवान् श्रीविष्णुः एव हि परमार्थं तत्त्वं वर्तते। सः अत्यन्तः दयालुः अस्ति। ध्रुवः प्रह्लादः अजामिलः द्रौपदी गणिका आदीनाम् अनेकेषां भक्तानाम् उद्धारः अस्य विष्णोः कृपया जातः। सः खलु भक्तवत्सलः विद्यते।निरुक्ते "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। आदिशङ्करः विष्णोः अर्थः सर्वत्रगतः इति अवदत्।विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।


श्री राम
Shri Ram 



श्रीरामचन्द्रः भगवतः नारायणस्य दशसु अवतारेषु सप्तमः । सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः । भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् । रामायणकथानायकः श्रीरामः । सः अवतारपुरुषः इति रामायणे चित्रितः श्रीरामः अयोध्याधिपस्य दशरथस्य अत्यन्तं प्रीतिपात्रः ज्येष्ठ्पुत्रः । अयोध्याप्रजाभ्यः अपि अत्यन्तं प्रीतिपात्रः श्रीरामः । एषः सद्गुणानां साकाररुपः (मूर्तरुपः)आसीत्। दशरथस्य तिसृषु पत्नीषु अन्यतमा कैकेयी दशरथेन दत्तेन वरद्वारा रामं वनं प्रेषयति । रामोऽपि राज्याभिषेकं विहाय वनगमनाय सिद्धः भवति । यदा वनवासे भवति तदैव राक्षसं रावणं मारयति ।अयोध्यायाः चक्रवर्ती सम्राट् दशरथः आसीत् । तस्य तिस्रः पत्न्यः आसन् । परं सः दशरथः निपुत्रिकॊ आसीत् ।अतः पुत्रप्राप्त्यर्थं दशरथः पुत्रकामेष्टि यजनं कृतवान् । तत्फलत्वेन श्रीरामचन्द्रः कौसल्यायाः गर्भाम्बुधौ चैत्रशुक्लनवम्यां पुनर्वसुनक्षत्रे जन्म प्राप्तवान् । सुमित्रायाः द्वौ पुत्रौ लक्ष्मणः शत्रुघ्नः च तथैव कैकेय्याः भरतः जन्म लब्धवन्तः। चत्वारः बालकाः अतीव बुद्धिमन्तः आसन् । रामः बाल्यादेव शान्तः वीरश्चासीत् । सः सदैव जीवनॆ मर्यादायाः कृतॆ सर्वोच्चस्थानं दत्तवान् अत एव स मर्यादा पुरुषोत्तमः श्रीरामः नाम्ना प्रसिद्धः। तस्य राज्यं न्यायपूर्णं प्रजायाः सदैव हितचिन्तकः आसीत्। अतः सर्वे अद्यापि भारते सुराज्यस्य परिकल्पनां ये कुर्वन्ति तदा रामराज्यस्य विषये वदन्ति । सदैव धर्ममनुचारिणः त्रयः भ्रातरः अपि वसिष्ठ ऋषेः समीपे अधीताः।श्रीराम: बाल्यकाले एव महतीं साधनामकरोत् । यागकरणसमये सुबाहु-ताटकादीनां पीडां सोढुम् अशक्तः विश्वामित्रः एकवारम् अयोध्यां प्रति आगत्य दशरथस्य समीपे यागरक्षणार्थं रामलक्ष्मणयोः साहाय्यम् अयाचत । परं बालयोः रामलक्ष्मणयोः वनं प्रति प्रेषणं दशरथेन नाङ्गीकृतम् । किन्तु वसिष्ठस्य सूचनानुसारं दशरथः वनं प्रति प्रेषयितुम् अङ्गीकृतवान् । रामः विश्वामित्रेण सह वनं गत्वा दुष्टशक्तीनां हननं कृत्वा ऋषिणां यागरक्षणस्य अभूतपूर्वं कार्यमकरोत् । विशिष्टैः मन्त्रैः विश्वामित्रेण उपदिष्टः रामः विशिष्टं बलं प्राप्तवान् । बहू दीव्यशक्तीनां संग्रहः तैः स्वतपोबलेन कृतः। एतादृशः अभूतपूर्वः साहसः बाल्यादेव तेन कृतः।

लक्ष्मी
Laxmi 

 

देवी लक्ष्मीः - सम्पदधिदेवता लक्ष्मीः विष्णोः पत्नी । त्रिमूर्तिषु विष्णुः जगतः स्थितिकारकः अर्थात् रक्षकः । जगद्रक्षणाय सम्पद् / ऐश्वर्यम् अपेक्षितम् भवति । उचितमेव यत् ऐश्वर्यदेवता लक्ष्मीः एव अस्य पत्नी अस्तीति। एषा देवी स्वर्णहस्ता जनेभ्यः सम्पदं वर्षति । लक्ष्मीः यत्र तत्र सम्पद् भवति । सा च सम्पद् बहुविधा भवति - धनसम्पत्तिः, बुद्धिसम्पत्तिः, धर्मसम्पत्तिः इत्यादि । किं बहुना, लोके यद्यदपेक्षणीयं तत्सर्वं लक्ष्म्याः अनुग्रहेण एव सिध्यति । आत्मज्ञानार्थिना सर्वेणापि बुद्धिसम्पत् अवश्यं सम्पादनीया । एतस्मात् कारणाद् एव नवरात्रोत्सवे सरस्वतीपूजायाः पूर्वं लक्ष्मीपूजा प्रवर्तते । अद्यत्वे तु लक्ष्मीपूजा केवलम् ऐहिकसम्पदं प्राप्तुं क्रियमाणा दृश्यते । चञ्चलां लक्ष्मीं यः अनुधावति तस्य सा दूरे एव तिष्ठति । न तस्य वशमेति । यस्तु पुरुषः सत्त्वगुणसम्पन्नः तस्य वशे भवति सा । शुद्धेन मनसा यदा पुरुषः अध्यात्मरतिः भवति तदा सः शान्तिम् ऐश्वर्यं सम्पदं च प्राप्नोति । सात्त्विकस्य मनसः द्योतकः क्षीरसागरः । तस्माद् उत्थिता लक्ष्मीः अस्य एव तत्त्वस्य निरूपणम् करोतीव । लक्ष्म्याः प्रसादेन अस्माभिः सर्वविधा सम्पत् प्राप्तुं शक्या । इममेवार्थं विशदयति अयं श्लोकः । लक्ष्म्याः चत्वारो हस्ताः । तयोर्द्वाभ्यां पद्मे धरति सा । पद्मा कमला इत्यपि तस्याः नाम्नी । बिल्वनिलया इत्यपि एषा कीर्त्यते । अस्याः अर्चामूर्तेः पार्श्वयोः क्वचित् गजौ दृश्येते । एषा हिरण्यवर्णा कथ्यते । देवालयेषु एषा पद्मे आसीना भवति । अस्याः चत्वारो हस्ताः देवी एषा चतुर्वर्गपुरुषार्थप्रदायिनी इति सूचयन्ति । लक्ष्मीः अष्टसु रूपेषु पूज्यते । तानि च आदिलक्ष्मीः, गजलक्ष्मीः, धनलक्ष्मीः, धान्यलक्ष्मीः, सन्तानलक्ष्मीः, वीरलक्ष्मीः, विजयलक्ष्मीः, धैर्यलक्ष्मीः, च । बहुषु देवालयेषु अष्टौ लक्ष्मीमूर्तयः प्रतिष्ठापिताः पूज्यन्ते । चेन्नैनगरे समुद्रतीरे प्रसिद्धः अष्टलक्ष्मीदेवालयः वर्तते ।


शिव
Shiva


शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः। 'शिवम्' इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च ।(आप्ते, पृ. ९१९., म्याक्डोनेल्, पृ:. ३१४) नामरूपेण 'शिवः' इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्।(चक्रवर्तिः,पृ: २८) ऋग्वेदे इन्द्रः एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य(शिवः इति) प्रयोगं कृतवान्।(२:२०:३, ६:४५:१७, ८:९३:३)

विष्णुसहस्रनामस्तोत्रे विष्णोः २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः(सत्त्व-रज-तमः) य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्तिः भवति"।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित-"शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) महाभारतस्य त्रयोदशपर्वणि(अनुशासनम्)शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"मपि लब्धम् अस्ति। "शतरुद्रीयम्" इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। ('शतरुद्रीयम्"-शिवराममूर्तिः,१९७६)| शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतः अभवत् ।(फ्लाड् ,१९९६,पृ: १५१.) शिवस्य त्र्यम्बकमिति नाम्नः अपि त्रिनयनसमन्वितः इत्येवार्थः।(चक्रवर्तिः,पृ।-३७-३९)| शिव अर्धचन्द्रं शिरसि धरति। अतः तस्य अपरनाम "चन्द्रशेखरः" इति।(आप्टे, पृ:९२६) रुद्रस्य शिवरुपे विवर्तनस्यादियुगतः एव अर्धश्चन्द्र: शिवस्य एकः वैशिष्टः।(चक्रवर्तिः,पृ : ५८) सम्भवतः वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयोः एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्तिः स्यात्।शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी (कपर्द्वत् केशयुक्तः) इत्यपि उच्यते।


हनुमान्
Hanuman


हनूमान् श्रीरामदासत्वेन ख्यातः कपिवीरः सन् रामायणे अतीव प्रधानं पात्रं भजते । अस्य माता अञ्जनादेवी । पिता केसरिः ।शिवः पार्वत्याः गर्भं नाभिप्रदेशात् निष्कास्य वायुना पुत्रप्राप्त्यर्थं तपः आचरन्त्याःगौतमपुत्र्याः अञ्जनायाः हस्ते स्थपितवान् ।अञ्जना तद्गर्भं गीर्णवती । तेन कारणेन पराक्रमशालिनः हनूमतः जन्म अभवत् । शिवांशसम्भूतस्य हनूमतः आञ्जनेयः इति अपरं नाम ।वायुपुत्रः बाल्यकाले फलभ्रान्त्यासूर्यं खादितुम् उत्पतनमकरोत् । तदा अनर्थः भविष्यतीति हेतोः इन्द्रः वज्रायुधेन अञ्जनेयं प्रहरति । तदा हनूप्रदेशः विकृतः सन् बालः आञ्जनेयः मरणमवाप । तदा एव सः हनूमान् इति नाम प्राप्तवान् ।पुत्रवियोगेन सन्तप्तः वायुदेवः स्वकार्यात् विमुखोऽभूत् । तदाब्रह्मदेवः आञ्जनेयस्य जीवदानं कृत्वा इतः परं येन केनापि वा आयुधेन आञ्जनेयस्य मरणं मा भवतु इति वरं दत्तवान् । तदारभ्य हनूमान् चिरञ्जीवी अभवत् ।बाल्यकाले आञ्जनेयः ऋष्याश्रमं प्रविश्य तान् बहु पीडयति स्म । तदा कुपिता ऋषयः 'श्रीरामसन्दर्शनपर्यन्तम् आञ्जनेयस्य कृते स्वस्य शक्तेः ज्ञानं मा भवतु इति शापं दत्तवन्तः । हनूमान्सुग्रीवस्य सचिवः आसीत् |रामभक्तः हनूमान् लङ्कां प्रविश्य सीतायाः शोधं कृतवान् । लङ्काप्रवेशसमये सिंहिका, लङ्किणी इत्याद्यसुरशक्तीः जित्वा सीतां दृष्ट्वा आभरणविशेषंचूडामणिं सम्प्राप्य लङ्कादहनं कृत्वा श्रीरामस्य सकाशमागत्य शुभवार्तामब्रवीत् ।

महाशिवरात्रि
Mahashivratri


माघमास्स्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिपर्व । प्रयागपुष्करः यथा तीर्थराज: इति उच्यते तथैव महाशिवरात्रि: व्रतराज: इति उच्यते । एतत् पर्व यद्यपि शैवाणां परमपवित्रं तथापि अन्यै: अपि आचरणीयम् अन्यथा तेषां पूजाफलं नश्यति इति वदन्ति शास्त्राणि ।शिवरात्र्यां य: उपवासं जागरणं च ज्ञात्वा अज्ञात्वा आचरति स: स्वर्गं गच्छति इति वदन्ति शास्त्राणि । सामन्यतया देवतापूजार्थं दिवासमय: एव प्रशस्त: । किन्तु शिवरात्रिपर्वणि तस्य नामानुगुणं रात्रिरेव प्रशस्तकाल: पूजार्थम् । सम्पूर्णम् उपवासं कृत्वा रात्रौ जागरणम् आचरणीयम् । रात्रौ एव पूजा करणीया इति । कलियुगे चतुर्दश्यां रात्रौ केवलं भूमौ सञ्चरन् समस्तस्थावरजङ्गमेषु सङ्क्रमिष्यामि । समग्रे वर्षे कृतं पापं परिहरामि । दिवासमये तद्दिने एवं महिमा न भवति इति महेश्वर: एव अवदत् इति शास्त्रवाक्यम् अस्ति ।शिवरात्र्याचरणं स्यात् शिवस्य प्रियं यथा शिवस्य ध्यानानन्द: आत्मगुणसम्पत्ति: अत्यन्तं प्रियौ स्त: । सर्वभूतेषु दया, निरसूया, शुचित्वम्, अनायास:, क्षमागुण:, अकार्पण्यभाव:, मङ्गलं, दुराशां विना जीवनम् इत्येतानि एव अष्ट आत्मगुणा: । अहिंसा, सत्यम्, अक्रोध:, ब्रह्मचर्यं च अस्मिन् व्रते अपि आचरणीयम् । पूर्वदिने रात्रौ उपवासं कृत्वा प्रात: नित्यकर्माणि समाप्य शुचिर्भूत्वा निर्विघ्नतया व्रतमिदं परिसमाप्तिं गच्छतु इति प्रार्थनां समर्प्य सङ्कल्पं कुर्वन्ति । शतरुद्रीयं, श्रुतिसूक्ती:, शिवपञ्चाक्षरमहामन्त्रं, पुरुषसूक्तं च वदन्त: पञ्चगव्येन पञ्चामृतेन च शिवलिङ्गस्य अभिषेकं कुर्वन्ति । ध्यानसमाधिरूपम् आन्तरिकपूजया सह आवाहन-आसन-अर्घ्य-पाद्य-आचमनीय-अभिषेक-वस्त्र-उपवीत-गन्ध-पुष्प-धूप-दीप-अर्चन-नैवेद्य-प्रदक्षिणनमस्कार-स्तोत्र-नृत्य-गीत-वाद्यरूपा बाह्यपूजा अपि तद्दिने आचर्यते । तत्रापि विशेषतया षोडशोपचारेषु अभिषेक: शिवस्य अत्यन्तं प्रिय: इति उक्तम् अस्ति शास्त्रेषु । अलङ्कारप्रियः विष्णु: अभिषेकप्रिय: शिव: इति ।


पार्वती
Parvati 


लयकर्तुः परमशिवस्य शक्तिरूपा पार्वती । सैव तस्य पत्नी च । विघ्नेश्वरस्य गणपतेः, स्कन्दस्य च माता सा । तस्याः नामानि रूपाणि च अनेकानि । हैमवती, गिरिजा, दाक्षायिणी इतीमानि नामानि । सा हिमवतः पुत्री, जन्मान्तरे दक्षप्रजापतेश्च पुत्री आसीदिति वदन्ति । एवमेव शिवा, मृडानी, रुद्राणी, शर्वाणी इतीमानि तस्याः नामानि सा महादेवस्य रुद्रस्य महिषी इति कथयन्ति ।केनोपनिषदि (३.१२) सा उमा हैमवती इति नामभ्यां कथ्यते । देवराजं महेन्द्रं सा परतत्त्वविषये अबोधयत ।प्रथमे जन्मनि सा दक्षप्रजापतेः पुत्री सती यदा आसीत्, तदा पितुर्यज्ञे जातां स्वपत्युः अवज्ञाम् असहमाना आत्मानम् अग्नेराहुतिं कृतवती । तदनन्तरजन्मनि सा पर्वतराजस्य हिमवतः मेनायाश्च पुत्री पार्वती जाता । कठिनं तपः कृत्वा सा पुनरपि परमशिवमेव पतिं लब्धवती । तपसि स्थितया निराहारया तया पर्णान्यपि न आह्रियन्त इति कारणात् सा अपर्णा इति नाम अलभत । देवी, शक्तिः इति नामनी यद्यपि सर्वाः स्त्रीदेवताः व्यपदिशतः, तथापि ताभ्यां सामान्यतया पार्वतीदेवी एव व्यपदिश्यते ।देव्याः शक्त्याः सौम्यासौम्ये द्वे रूपे भवतः । पार्वती उमा चेति शिवस्य पत्नीरुपेण सा सौम्यं रूपं वहति । तदा तस्याः द्वौ हस्तौ एव । दक्षिणहस्तेन कुमुदं धरन्ती सर्वालङ्कारभूषिता पत्युः पार्श्वे दृश्यते सा । यदा एकाकिनी तदा चतुर्भिः हस्तैः भूषिता दृश्यते । द्वाभ्यां हस्ताभ्यां कमलं कुमुदञ्च धरन्ती अपराभ्यां वरदाभयमुद्रे प्रदर्शयति । शिवस्य अर्धाङ्गिनी सा अर्धनारीश्वरस्य तस्य देवस्य वामभागम् अलङ्करोति ।काली, दुर्गा, चामुण्डा, महिषासुरमर्दिनी इति तस्याः असौम्यानि अर्थात् उग्ररूपाणि सन्ति । एषु रूपेषु सा बहूनि आयुधानि,रुण्डमालां च धरति । अनेन रूपेण जनानां पापानि विनाशयति ।


माँ काली
Kali 


अनन्दशक्तिसंयुता सनातनधर्मस्य देवी काली । एतत् पदं कालः (समयः विधिः) इति पदेन निष्पन्नम् । कृष्णवरीया देवी इत्यपि अस्य भावः । शिवस्य अपरं नाम कालः इति अस्य पत्नी काली भवति । एषा परिवर्तनस्य देवता । विविधेषु शाक्तहिन्दुविश्वशास्त्रेषु शाक्ततान्त्रिकविश्वासेषु च एताम् एव परमसत्यं ब्रह्मन् इति पूजयन्ति । भवतारिणी इति भक्ताः एताम् अर्चयन्ति । प्रकृतदिनेषु भक्तिपथस्य जनाः कालीं मङ्गलकरा महामाता इत्यपि पूजयन्ति । काली भगवतः शिवस्य सखी । तस्य शीरे एव तिष्ठति । दुर्गा, सती, भद्रकाली, रुद्राणी, पार्वती, चामुण्डेश्वरी इत्यादीनि रूपाणि अपि भवन्ति । दशमाहाविद्याः, दशभयङ्करतान्त्रिकदिविषु एषा अग्रगण्या अस्ति । कालः नाम समयः इत्यपि अर्थः काली इत्यस्यार्थः कृष्णवर्णीया अथवा कालवती, कालातीता इति भवति ।काली शिवेन शैवैः च दृढः सम्बन्धः अस्ति । काल्याः स्त्रीलिङ्गरूपं कालस्य स्तीरूपेण प्राप्तम् । संस्कृतस्य प्राचीननिघण्टुः शब्दकल्पदुरमम् एवं वदति कालः शिवः तस्य पत्नी काली इति । अस्याः नामावल्यां कालरात्रिः इत्यापि अस्ति । देव्यः तन्त्रयोगस्य अध्ययने आचरणे च महत्तरं भूमिकां निर्वहन्ति । पुरुषदेवताः इव वास्तवस्वरूपं ज्ञातुं विवेचनशक्तियुक्तं केन्द्रम् इति विश्वस्तम् । तथापि पार्वती स्वीकर्त्री तन्त्ररूपेण शिवस्य पाण्डित्यं प्राप्यमाना छात्रा इति उक्तम् । तान्त्रिकप्रतिमाशास्त्रे ग्रन्थेषु आचरणेषु च काली एव प्रमुख्यं प्राप्तवती । डि.किन्ल्से १२२पुटानि ब्रह्मा, विष्णुः, शिवः इति देवाः समुद्रस्य फेनबुद्बुदानि इव ताया एव उद्भूताः स्वेषां मूलम् अपरिवर्त्य संरक्ष्य निर्गच्छन्ति इति निर्वाणतन्त्रम् । निरुत्तरतन्त्रम्, पिच्चिलतन्त्रम् च काल्याः सर्वे मन्त्राः सर्वश्रेष्ठाः इति घोषयतः । योगिनीतन्त्रम्, कामाक्यतन्त्रम्, निरुत्तरतन्त्रम्, इत्यादीनि कालिविद्यातन्त्राणि इति प्रसिद्धानि । महानिर्वाणतन्त्रे काली आदिशक्त्याः विशेषणम् एव ।

वैशाखी पर्व 
Vaisakhi 


वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यः मेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।पञ्जाबराज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । पञ्जाबराज्यस्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । पक्वानि सस्यानि दृष्ट्वा कृषकेषु उत्साहं प्रसन्नता च दृश्यते । यदा कृषकाः आवर्षम् उद्यमान् कुर्वन्ति तदैव वर्षान्ते सस्यानि परिपक्वानि भवन्ति । ततः परं तेषां कर्तनकार्यं कृत्वा विक्रयणार्थं प्रेषयन्ति । अन्ते सम्पूर्णवर्षस्य फलं प्राप्य विश्रान्तिम् अनुभवन्ति । वैशाखी-पर्व मूलरूपेण नूतनसस्यानाम् उत्सवः अस्ति । सस्येषु अपि विशेषतः 'रबी' इत्यस्य सस्यस्य उत्सवः । पञ्जाबराज्ये 'रबी' इत्यस्य खाद्यानि भवन्ति । तेषु चणकः, सर्षपः, एरण्डः इत्यादयः अस्यां ऋतौ उत्पाद्यन्ते ।


क्रिस्मस् 
Christmas


क्रिस्मस् इत्येतत् पर्व क्रैस्तमतावलम्बिनां महत् पर्व वर्तते । क्रिस्मस् क्रिस्तजयन्ती इत्येतत् क्रैस्तगुरोः येसुक्रिस्तस्य जन्म दिनम् । वर्षस्य डिसेम्बर् २५ दिनाङ्कं येसु क्रिस्तस्य जन्मदिनम् इति सर्वे आचरन्ति । क्रिस्तस्य सुवार्ता(गास्पे्ल) प्रकारं येसु क्रिस्त: मेरी तथा जोसेफ़ एतयो: पुत्र: भूत्वा इदानीन्तने इस्रे्लदेशे विद्यमाने बेत्लेहेम् इति नामके ग्रामे जन्म प्राप्तवान् । क्तुम् एक्स्-मस् इत्यपि वदन्ति । "शत्रुषु अपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् " इति सन्ति इमानि उपदेशवचनानि ख्रीष्टधर्मप्रवर्तकस्य ईसामसीहस्य । ईसामसीहः त्यागशीलः लोकोपकारकश्च महापुरुषः आसीत् । स विश्वं स्नेहस्य पाठममाठयत् । प्रायेण द्विसहस्रवर्षेभ्यः पूर्वं दिसम्बरमासस्य पञ्चविशे दिनाङ्के तस्य जन्म अभवत्। तस्य महात्मनः जन्मनः उपलक्ष्ये एव सर्वे तस्य अनुयायिनः इमं दिवसं पर्वरुपेण मानयन्ति। प्रतिवर्षं च पर्व इदं महता उल्लासेन क्रिस्मसोत्सवरूपेण संपन्नः भवति । तस्यैव पुण्यस्मृतौ ख्रीष्टीयः संवत्सरः प्रचलति ।क्रिस्मस् एकं सार्वत्रिकं विरामदिनम् अपि अस्ति । क्रैस्तानां जनसङ्ख्या न्यूनं यत्र अस्ति जपान्, तादृश देशेषु अपि क्रिस्मस् पर्व समये, वर्षस्य विरामदिनम्, जीसस् एतस्य यतार्थ जन्म दिनाङ्कम् तथा ऐतिहासिकता विषये अपि केाना: वादा: सन्ति । क्रिस्तस्य जन्मदिनं निर्धारकरणस्य यत्नं द्वितीय शतमानत: आरम्भ: अभवत् । क्रैस्त चर्च् एतस्मिन् समये एव स्वस्य सम्प्रदायान् स्थापयितुं प्रयत्नं कुर्वत् आसीत् । तस्मिन् कालस्य सामान्यत: सर्वं मुख्य चर्च् अपि क्रिस्तस्य जन्मदिनं डिसेम्बर् २५ इति अङ्गीकुम् । सामान्यतया सवेर्षु क्रैस्त देशेषु अपि क्रिस्मस् दिनं केवलं न, तस्मिन् पूर्वं कानिचन दिनानि तस्य अनन्तरं कानिचन दिनानि योजयित्वा आचरणं कुर्वन्ति ।


मकरसङ्क्रमणम् 
Makarsankranti 


मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । इदं पर्व तिलपर्व इत्यपि निर्दिश्यते । तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति । एतत् सूर्यस्य चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।एवंक्रमेण वर्षे १२ सङ्क्रमणानि भवन्ति । तत्र प्रमुखं सङ्क्रमणद्वयम् । कर्काटकसङ्क्रमणं (दक्षिणायनस्य आरम्भ:) मकरसङ्क्रमणं (उत्तरायनस्य आरम्भ:) चेति । कर्काटकमकरसङ्क्रमणे अयनसङ्क्रमणे, मेषतुलासङ्क्रमणे विषुवसङ्क्रमणे, कन्या-मिथुन-धनु-मीनसङ्क्रमणानि षडशीतिमुखसङ्क्रमणानि, वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रमणानि विष्णुपदसङ्क्रमणानि इति विभाग: कृत: अस्ति । मकरसङ्क्रमणदिनत: आरभ्य रात्रिकालस्य अवधि: न्यून: भवति । एतद्दिने एव स्वर्गः|स्वर्गस्य]] द्वारोद्घाटनं क्रियते इति । परमपवित्रे अस्मिन् सङ्क्रमणदिने क्रियमाणं स्नान-दान-जप-तप-हवन-पूजा-तर्पण-श्राद्धादिकम् अधिकं फलप्रदम् इति वदन्ति शास्त्रपुराणानि । तद्दिने य: पापाचरणं करोति, य: पवित्रकर्माणि न आचरति स: पापभाक् भवति इत्यपि वदन्ति ज्ञानिन: । अन्यानि सङ्क्रमणानि आचरितुम् अशक्त: एतदेकं सङ्क्रमणं वा आचरेत् इति वदति शास्त्रम् ।शैत्यकाले अस्माकं शरीरे विद्यमान: तैलांश: शाखार्थं व्ययित: भवति । तेन शरीरे तैलांशस्य अभाव: भवति । तस्मात् शीतसम्बद्धा: रोगा: जायन्ते । नारिकेल-गुड-कलायमिश्रितस्य तिलस्य, इक्षुदण्डस्य, शर्कराभक्ष्यस्य च भक्षणेन अभाव: निवार्यते ।

ब्रह्मा
Brahma 


ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदान्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ब्रह्मोऽपलब्धिः योऽस्ति स तु भिन्नविषयः।संस्कृतव्याकरणदृष्ट्या 'ब्रह्मन्' इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं 'ब्रह्मन्' इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तरि प्रथमाया एकवचनर रूपं भवति ' ब्रह्म'। अस्य विशेष्यस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः। अपरपक्षे पुं-लिङ्गे ' ब्रह्मन् ' इति शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः। सृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचि, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः। ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा वेदाः इतरहस्तौ भवन्ति।

सरस्वती देवी
Saraswati 


ऋग्वेदे उल्लिखिता काचित् नदी एषा । सरः(जलम्) अस्त्यस्याः इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या वाक् उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि शारदा, वागीश्वरी, ब्राह्मी, महाविद्या इत्यादीनि । सृष्टिकर्तुः ब्रह्मणः पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।एषा देवी सर्वस्य ज्ञानस्य, कलानां, विज्ञानस्य च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं हंसः मयूरश्च । चित्रेण पिच्छकलापेन मयूरः विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव मोक्षः इति वदतीव । परमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘ज्ञानमार्गः’ ‘भक्तिमार्गः’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः ।


इन्द्र देव 
Indra Dev


इन्द्रः भारतियसनातनविश्वासानुगुणं देवतानाम् अधिपतिः अस्ति। शक्रः इति इन्द्रस्य नामान्तरमपि वर्तते। सः युद्धस्य वर्षायाः च अधिदेवता अस्ति । वैदिककाले इन्द्रः सर्वोच्चः देवः आसीत् कालान्तरेण पौराणिककथासु अस्य स्तर स्थानं किञ्चित् अवनतम् ।ॠग्वेदस्य २५०सूक्तेषु इन्द्रस्य वर्णनं कृतम् । अपि च ५०सूक्तेषु अन्यदेवताभिः इन्द्रस्य वर्णनं कृतम् । एव ऋग्वेदस्य सतुर्थांशेषु इन्द्रदेवस्य वर्णनं दृश्यते । अतः एवं वक्तुं शक्यते यत् इन्द्रः वैदिकयुगस्य सर्वप्रियः देवः । इन्द्रशब्दस्य व्युत्पत्तिः अर्थः च अस्पष्टः अस्ति । बहूनां विदुषाम् अपिप्रायः अस्ति इन्द्रः झंझावातस्य अधिदेवता । मेघेषु गर्जनं विद्युत् च इन्द्रस्य कृपा एव । किन्तु हेलब्रैण्ट् इत्यस्य मतानुगुण इन्द्रः सूर्यदेवता अस्ति । वैदिकभारतीयाः इन्द्रः प्रबला भौबिकशक्तिः इति भावयन्ति यः सैनिकविजयस्य साम्रज्यवादिविचारस्य च प्रतीकः भवति । प्रकृतेः न कोपि अङ्गः तादृशः शक्तिशाली अस्ति यथा विद्युत्प्रयारः भवति । इन्द्रम् अग्निदेवस्य यमलसोदरः इत्यपि सम्बोधयन्ति येन विद्युदीयाग्निः यज्ञवेदीयाग्निः च प्रकटितः भवति । वैदिकानां मतम् अस्ति यत् वृत्रः अनावृष्टेः असुरः शुष्कमेघानां प्रतीकः च । इन्द्रः स्वायुधेन वज्रेण वृत्ररूपिणं राक्षस्यं हत्वा जलं मुक्तं करोति । तदा पृथिव्यां वर्षधाराः पतन्ति । ओल्डेनवर्ग्,हिलब्रैण्ट् च व्रत्रासुरवधस्य अन्यकथाम् अवदताम् । एतयोः मतानुगुणं पर्वतानां जलस्य मुक्तिः इन्द्रेण कृता । सूर्यरूपिणः इन्द्रस्य वर्णनं कृत्वा हिलब्रैण्ट् एवम् अवदत् वृत्रः शीतस्य हिमस्य वा प्रतीकः अस्ति यस्य मुक्तिः केवलं सूर्यः करोति । द्वावपि विचारौ इन्द्रस्य रूपद्वयं प्रकटयतः यस्य प्रदर्शनं क्षेत्रे झञ्झावातस्य पर्वते तपतः सूर्यस्यरूपेण भवति । इन्द्रः प्रभूतं सोमपानं करोति । इन्द्रस्य आयुधं वज्रः यस्य विद्युत्पहारस्य एव नामान्तरम् अस्ति । अपि च इन्द्रः ऋग्वेदः रात्रेः अन्धकारस्य नाशकः प्रकाशजनकः अपि कथयति । ऋग्वेदस्य तृतीये मण्डले उल्लिखितं यत् विश्वामित्रस्य प्रार्थानानुसारम् इन्द्रः विपाशशतद्रुनद्योः जलं शोषितवान् येन भरस्य सेना अनायासेन पारङ्गता । पूर्वजाः इन्द्रः युद्धकुशलः इति कारणेण प्रथिव्यां दानवैः सह युद्धावसरे इन्द्रमेव सेनापतिं कुर्वन्ति स्म । इन्द्रस्य पराक्रमस्य वर्णनं कर्तुं शब्दानां शक्तिः अपर्याप्ता भवति । एषः शक्तीनां प्रभुरस्ति । अस्य १००शक्तयः सन्ति । ४०अधिकाः अस्य शक्तिसूचकनामानि सन्ति । ४०अधिकानां युद्धानां विजेता इन्द्रः इति वदन्ति । भक्तेभ्यः मित्रेभ्यः च इन्द्रः तादृशीं शक्तिं ददाति ये तस्मै सोमरसम् अर्पयन्ति ।


गौतमबुद्ध 
Gautam Buddha 


निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत । सोऽयं महापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्तं विषयेषु नारमत । पुत्रस्य एतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेषु मनागपि आसक्तं नाभवत् । अथ कदाचित् आतुरं कदाचि्त् वृद्धम्, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य हृदये महदवैराग्यम् अजायत । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिद्धार्थः रात्रौ पियां पन्तीं नवजातं पुत्रं च विहाय गृहात् प्राव्रजत् । ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत्, किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुःखमयम्, दुःखस्य मूलं कामना, कामनायाः उन्मूलनम् साध्यम्, एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न चोरयेत् । सर्वान् समदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।


अशोक
Ashoka 


अशोकः (क्रि पू २६९-२३२) समस्तभारतस्य सम्राट् आसीत्। सः मौर्यवंशस्य तृतीयः महाराजः आसीत्। सः कलिङ्गयुद्धे युद्धस्य दुष्परिणामान् दृष्ट्वा हिंसाम् त्यक्त्वा बौद्धधर्मम् स्वीकृतवान्। सः अनेकेषाम् अभिलेखनानाम् स्तूपानां च निर्माणं कृतवान्। न शोकं यस्य सः एव अशोकः। सः चक्रवर्ती इति अभिधानं लब्धवान्। सः प्रियदर्शी देवानाम्प्रियः इति अपि प्रसिद्धः। तस्य चरितम् अशोकवदनदिव्यवदनग्रन्थयोः कथितम्।सः बिन्दुसारस्य पुत्रः आसीत्। तस्य अनेके अग्रजाः वित्ताशोकः नाम एकः अनुजः च आसन्। सः क्षत्रियः सन् सैन्यविद्यां सकलानि शास्त्राणि च अपठत्। सः धीरः दक्षः भटः आसीत्। तस्य कौशलस्य कारणात् संक्षोभम् नाशयितुम् अवन्तिकापुरीं प्रति सः प्रेषितः। अशोकस्य वर्धमानां कीर्तिं दृष्ट्वा स्वभ्रातरः तस्मै ईर्ष्यन्ति स्म। तस्य ज्येष्ठभ्राता सुसीमः अशोकम् उद्दिश्य तक्षशीलायाह् संक्षोभम् नाशयितुम् आदिशत्। सः तान् तक्षशीलावासिनः युद्धप्रियायवनान् विजित्य पाटलिपुत्रं प्रत्यागच्छत्। सुसीमस्य वचनानुसारं पिता बिन्दुसारः अशोकं विवासनं गन्तुम् आदिशत्। अलक्ष्यलिङ्गः अशोकः कलिङ्गाम् गतवान्। तत्र सः कौर्वकी नाम धिवरपुत्रीं परिणीतवान्। सः कदाचित् बौद्धविहारे अवसत् | ततः सः स्वपितुः इच्छया उज्जयिन्याः प्रशासकः अभूत्। तस्य पितुः मरणात् अनन्तरम् स्वभ्रातॄन् सर्वान् हत्वा मौर्यसम्राट् बभूव।अशोकः चत्वारिंशत् संवत्सरान् प्राशासत्। तस्य मरणात् अनन्तरम् मौर्यवंशः नष्टः अभवत्। तस्य अनेके पत्न्यः पुत्राः पुत्र्यः च आसन्। तस्य प्रथमा पत्नी देवी आसित्। तस्य मरणस्य पश्चात् तस्य पौत्रः महाराजः अभवत्। क्रि पू १८५ तमे वर्षे अन्तिमः मौर्यराजः बृहद्रथः पुष्यमित्रशुङ्गेन हतः। सः भारतस्य प्रथमाभिलेखनानि कृतवान्। भारतगणराज्यं स्वतन्त्रो भूत्वा अशोकधर्मचक्रं स्वमुद्रिकाम् अकरोत्। 


अमिताभ बच्चन
Amitabh Bachchan


अमिताभ बच्चन: (१९४२ - ) प्रमुखः हिन्दी-अभिनेता अस्ति । १९४२तमे वर्षे अक्टोबर् ११ दिनाङ्के अमिताभ-हरिवंश-बच्चनस्य जननम् । एषः ‘बिग् बि’ तथा ‘षहेन् षा’ इत्यपि कथ्यते । १९७०तमस्य दशके आरम्भे “आङ्ग्रि यङ्ग् म्यान्” मानसचित्रेण सह अमिताभः बच्चनः बालिवुड् चलनचित्रे आरम्भिकतया जनप्रियतां गतः । पश्चात् सः भारतीयचलनचित्रस्य इतिहासे अत्यन्तं प्रमुखेषु जनेष्वन्यतमः जातः । बच्चनः स्वीये चलच्चित्रवृत्तिजीवने त्रिस्रः राष्ट्रिय-चलनचित्रप्रशस्तीः द्वादश फिलंफेर् प्रशस्तीः च आसादितवान् । न केवलं तावत् इतराः अनेकाः अपि प्रमुखाः प्रशस्तीः तेन अर्जिताः । अत्युत्तमनट इति क्षेत्रे “फिलंफेर्-प्रशस्ति”निमित्तम् अत्यधिकवारम् अयमेव नामकरणं प्राप्तवान् इति अभिलेखे अङ्कनम् अस्य नाम्नि एव अस्ति । बच्चनेन न केवलं नटनक्षेत्रे कार्यं कृतम् अपि तु पृष्ठभूमिका-गायकत्वेन चित्रनिर्मापकत्वेन ‘टि.वि’निरूपकत्वेन अपि कार्यं कृतम् । अमिताभः १९८४तः १९८७तमवर्षपर्यन्तं यावत् भारतस्य संसत्-सदस्यः अपि आसीत् । नटीं जयाबादुरि इत्येतां सः वृतवान् अस्ति । एतयोः दम्पत्योः श्वेतानन्दा अभिषेक-वच्चनः इति द्वौ पुत्रौ । नटः अभिषेकः नटीम् ऐश्वर्या रै इत्येताम् ऊढवान् अस्ति ।


संस्कृतम् 
Sanskrit


संस्कृतम्  जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा। भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति। संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी। संस्‍कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत्‌| कालान्‍तरे एतस्‍य लेखनं ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्या आरब्धम् । अन्‍यरूपान्‍तराणि अधोनिर्दिष्टनि सन्‍ति -- बाङ्गलालिपिः, शारदालिपिः, तेलुगुलिपिः, तमिळलिपिः, यव-द्वीपलिपि:, कम्‍बोजलिपिः, कन्नडलिपिः, नेपाललिपिः, मलयाळमलिपिः, गुजरातीलिपिः, इत्यादय: ॥ मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असंख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति ।


भारतस्य राष्ट्रध्वज
Indian National Flag



भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेणसुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् ।भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् ।

राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । महात्मना प्रचारितेन खादि-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपिरेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति ।



यष्टिकन्दुकक्रीडा 
Hockey


यष्टिकन्दुकक्रीडा एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा भारतदेशस्य राष्ट्रियक्रीडा वर्तते ।कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पद्भ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । अस्याः क्रीडायाः प्रारम्भः कदा समजायतेति विषये न सन्ति सर्वेऽपि क्रीडेतिवृत्तविद ऐकमत्यधराः । परं सर्वेषामिदमस्त्यभिमतं यद् 'दण्डेन क्न्दुकताडन-सम्बन्धिनीयं क्रीडा वस्तुतो विश्वस्य प्राचीनासु क्रीडास्वेकाऽवश्यमस्ति ।’ अतोऽस्याः कल्पनाऽऽदिकालादेव कर्तुं शक्यते । आधुनिक्या यष्टिकन्दुक- क्रीडायाः क्रीडनं सर्वप्रथमम् इंग्लैण्डे एकोनविशयां शत्यामभवत् । तददेशीये राष्ट्रिय-संग्रहालये तादृशिं चित्राणि समुपलभ्यन्ते यैरनुमीयते यद विजयिनो रोमन-सैनिका इमां क्रीडां चतुर्दश्यां शत्यां क्रीडान्ति स्म । तत्रत्या इमां 'बोण्डी’ति गदन्ति स्म । अस्या वास्तविकं नाम 'हाकिक'  अथवा हाककिक  प्रायः १८३३ ई. वत्सरे प्रवृत्तम् । अमेरिकाया आदिवासिनो हरिणस्य चरणास्थ्नो यष्टिकां तथा तदीयकृत्तेः कन्दुकं निर्माय क्रीडन्ति स्म । उत्तरामेरिकायां क्रीडेयं हिमे क्रीडयते स्म, यद्यपि तत्र यष्टेः प्रकारो भिन्नोऽभवत् । भारतेऽन्यासां कतिपयक्रीडानामिवेयं क्रीडाऽपि इंग्लैण्डत एव समागच्छत् । आंग्लसेनापदाधिकारिणः सर्वप्रथमं कलकत्तामहानगर्यां १६०५ तमे वर्षेऽक्रीडन ।

वाल्मीकि
Valmiki 


वाल्मीकिमहर्षिः  श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् । स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः ।


महाराणा प्रताप
Maharana Pratap 


'मेवाड' इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे वर्षे जातः । तस्य पिता उदयसिंहः । तस्मिन् समये बहवो राजानः मोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरमहाशयः देहल्यां शासनं करोति स्म ।यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव । एकत्र सर्वदा वैर्याक्रमणशङ्का अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा अतीव वेदनाकरी बभूव । एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणजूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् - किञ्चिद्भागं दत्तवती । स्वपुत्र्यै अपि रोटिकां दत्त्वा "तस्याः अर्धमेव खादित्वा अवशिष्टमर्धं परेद्युः भक्षणार्थं रक्ष " इति सूचितवती । स्वप्रियदुहितुः परेद्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णञ्च जीवनं सर्वेऽपि परिवारः व्यतीयाय ।मेवाडराज्यस्य मुख्यसङ्घर्षः मुघलसेनया सह आसीत् । प्रतापस्य शासनावधौ 'अकबर'इति नामकः मुधलसम्राट् आसीत् । प्रतापस्य २५ वर्षाणां शासनकाले अकबरस्य सेनया सह अनेकवारं युद्धम् अभवत् । मुख्यं युद्धं हल्दीघाटीस्थाने अभवत्, अतः एव एतत् 'हल्दीघाटीयुद्धम्' इति नाम्ना प्रसिद्धम् अस्ति ।प्रतापः स्वजन्मस्थानमेव परित्यज्य गतवानिति तस्य शत्रवः परिहासरताः आसन् । इतः परं पुनः स योद्धम् आगच्छेदिति स्वप्नेऽपि ते न चिन्तयन्ति स्म । किन्तु महाराणाप्रतापः तेषां निरीक्षां मिथ्यां कृत्वा पराक्रन्तां स्वकीयराज्यसीमाम् अपूर्वेण पराक्रमेण स्वाधीनां कर्तुम् अभ्यपतत् ।


मदर् तेरेसा
Mother Teresa 


मदर् तेरेसा सुप्रसिद्धा समाजसेविका । रोमन् क्याथोलिक् सम्प्रदायस्य सन्यासिनी आसीत् । अस्याः पूर्वनाम "आग्नेसे गोन्क्से बोजक्सियु" । एषा अल्बेनियादेशीया, किन्तु भारतदेशस्य पौरत्वं प्राप्तवती । १९५० तमे संवत्सरे 'मिषनरीस् आफ् चारिटि' नामकसेवासङ्घं भारतस्य कोलकतानगरे स्थापितवती । अस्याः संस्थायाः केन्द्राणि आभारते स्थापितवती । न केवलं भारते किन्तु विभिन्नराष्ट्रेषु स्थापितवती । एतेषु केन्द्रेषु अनाथेभ्यः, अस्वस्थेभ्यः, दरिद्रेभ्यः च सर्वविधव्यवस्था कल्पिता अस्ति । ४५ वर्षाणाम् अपेक्षया अधिककालम् एषा सेवां कृतवती । दीनेषु एव देवं भावयन्ती सा सेवां कुर्वती च जीवितवती ।मदर् तेरेसा युगोस्लावियादेशस्य 'स्कूपेज्’ ग्रामे १९१० तमे संवत्सरे अगष्ट्मासस्य २७ तमे दिनाङ्के अजायत । अस्याः पिता निकोलास् बोजाक्सिया, माता ड्रेन् फिल् बेक्निल् । अस्याः सप्तमे वयसि पिता मृतवान् । अनन्तरं माता एव तां पालितवती । एनां रोमन् क्याथोलिक् क्रैस्तदेवालयस्य (चर्च्) अनुयायिनीं कृतवती । क्रैस्तदेवालयस्य सेवावातावरणादिकं दृष्ट्वा एषा प्रभाविता जाता । मम जीवने अपि ईदृशसेवाकार्यं करणीयम् इति सा चिन्तितवती । तेषु दिनेषु मया सन्यासदीक्षा स्वीकर्तव्या इति सा सङ्कल्पं कृतवती । तदर्थम् अष्टादशवयसि एव सा गृहात् निर्गता । मातरम्, सहोदरम्, बान्धवान् च त्यक्त्वा समाजसेवाकार्ये निरता जाता ।


झांसी लक्ष्मीबाई 
Rani Laxmi Bai


झांसीराणीलक्ष्मीवर्यायाः जन्म १८३५ तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्याम् अजायत। सा 'झान्सी की राणी' इति नाम्ना ख्यातम् अगात । भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् आसीत्। सा आङ्लविरोधनीतेः प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्ग्रामम् आरब्धवती। महाराज्ञी लक्ष्मीः इत्यस्याः वीरांगनायाः जन्म महाराष्ट्रे राज्ये कृष्णानद्यास्तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५) समभूत् । शैशवे अस्याः नाम् 'मनुबाई' इति अभूत् । अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत् । अस्याः जननी 'भागीरथी बाई' साध्वी ईशभक्ता च नारी आसीत् । उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम् । तदा बाजीरावः कानपुर नगरस्य समीपस्थे बिठूरनामके स्थाने न्यवसत्, मनुदेव्याः शिक्षणं तत्र अभवत् । तत्र सा अचिरं शास्त्रविद्यां शस्त्रविद्यां च अलभत । सा तत्र नैपुण्यम् अवाप्नोत् । अश्वारोहणेऽपि मनुवाई अतीव कुशलिनी अभवत् ।


यष्टिकन्दुकक्रीडा 
Hockey


यष्टिकन्दुकक्रीडा एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा भारतदेशस्य राष्ट्रियक्रीडा वर्तते ।कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पद्भ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । अस्याः क्रीडायाः प्रारम्भः कदा समजायतेति विषये न सन्ति सर्वेऽपि क्रीडेतिवृत्तविद ऐकमत्यधराः । परं सर्वेषामिदमस्त्यभिमतं यद् 'दण्डेन क्न्दुकताडन-सम्बन्धिनीयं क्रीडा वस्तुतो विश्वस्य प्राचीनासु क्रीडास्वेकाऽवश्यमस्ति ।’ अतोऽस्याः कल्पनाऽऽदिकालादेव कर्तुं शक्यते । आधुनिक्या यष्टिकन्दुक- क्रीडायाः क्रीडनं सर्वप्रथमम् इंग्लैण्डे एकोनविशयां शत्यामभवत् । तददेशीये राष्ट्रिय-संग्रहालये तादृशिं चित्राणि समुपलभ्यन्ते यैरनुमीयते यद विजयिनो रोमन-सैनिका इमां क्रीडां चतुर्दश्यां शत्यां क्रीडान्ति स्म । तत्रत्या इमां 'बोण्डी’ति गदन्ति स्म । अस्या वास्तविकं नाम 'हाकिक'  अथवा हाककिक  प्रायः १८३३ ई. वत्सरे प्रवृत्तम् । अमेरिकाया आदिवासिनो हरिणस्य चरणास्थ्नो यष्टिकां तथा तदीयकृत्तेः कन्दुकं निर्माय क्रीडन्ति स्म । उत्तरामेरिकायां क्रीडेयं हिमे क्रीडयते स्म, यद्यपि तत्र यष्टेः प्रकारो भिन्नोऽभवत् । भारतेऽन्यासां कतिपयक्रीडानामिवेयं क्रीडाऽपि इंग्लैण्डत एव समागच्छत् । आंग्लसेनापदाधिकारिणः सर्वप्रथमं कलकत्तामहानगर्यां १६०५ तमे वर्षेऽक्रीडन ।


क्रिकेट्
Cricket


क्रिकेट् -क्रीडाया जन्म प्रायेण षडशतवर्षेभ्यः पूर्वम् अभूत् । इंग्लेण्डस्थे एडवर्ड प्रथमस्यैकस्मात् संग्रहात् प्राप्ताया दैनन्दिन्या इदम् अवगम्यते यत् क्रिकेटस्य सर्वतः प्रथमं क्रीडनं केण्टस्थिते निवेण्डने त्रयोदश्यां शत्यां समपद्यत इति । आक्स्फोर्ड्-पुस्तकालयस्य भित्तौ एकं चित्रम् आचित्रितं विद्यते यस्मिन् द्वौ क्रिस्तधर्मगुरू क्रिकेटं क्रीडमानौ चित्रितौ स्तः । एताभ्याम् अपि अस्याः क्रीडायाः प्रारम्भविषये ज्ञातुं शक्यते ।सर्वप्रथमं ‘क्रिकेट्’ –क्रीडार्थम् एकस्याः अण्डाकारस्य वृत्ताकारस्य वा शाद्वलिताङ्गणस्य आवश्यकता भवति । अस्य आयाम-विस्तार-व्यासानां विषये नास्ति कश्चन विशिष्टः नियमः । अस्मिन् क्रीडाङ्गण(प्ले ग्राउण्ड)क्षेत्रे स्वल्पानि तृणानि अवश्यं कर्तितानि भवन्ति । उभयतः जवनिका पटो वा निबदघ्यते । पटयोः मध्ये तृणकर्तनपुरस्सरं भूमिः समतला विधीयते । तस्यां 'धावनस्थली’ निर्मियते यत्र कन्दुकप्रक्षेपो भवति । इदमङ्गणं ६ संख्यकाः क्रीड्का एव स्वाधिकारे रक्षन्ति ।क्रीडकसंख्या दलव्यवस्था च अस्यां क्रीडायां दलद्वय भवति । प्रतिदलं ११-११ संख्याकाः क्रीडकाः क्रीडन्ति । तेषु प्रत्येकं दलस्य एकः नायको भूत्वा स्वं स्वं दलं नियन्त्रयति । दलनायकौ सम्भूय क्रीडासमयं निर्णयतः । क्रीडाया नियमानां यथावत् संरक्षणाय द्वौ निर्णायकौ (अम्पायर् )भवतः ययोः निर्णयः द्वयोरपि दलयोः कृते मान्यो भवति । क्रिकेट्-क्रीडा साम्प्रतं विश्वव्यापिनी विद्यते । अस्यां क्रीडायां जनरुच्यनुसारम् अनेके नियमाः यथावसरं परिष्क्रियन्ते, परिवर्त्यन्ते । बहवः नियमाः तु सूक्ष्मतमाः सन्तः अतीव महत्त्वं भजन्ते । क्रीडेच्छावतां निपुणानां क्रीडकानां साहचर्येण ते ज्ञातव्याः परिपालनीयाश्च । तथाऽपि अत्र निर्देशरूपेण केषाञ्चन सूचनाः उपस्थाप्यन्ते ।


जलम्
Water


जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते । अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते । जलम् एकं चक्रीयसंसाधनं वर्तते । पौनःपुन्येन जलस्य उपयोगः क्रियते । अस्मिन् जलचक्रे जलं महासागरतः धरातलं, धरातलतः महासागरं प्राप्नोति । इदं चक्रं सततं कार्यरतम् अस्ति । पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते । जलस्य वितरणं पृथिव्याम् असमानम् अस्ति । केषुचित् क्षेत्रेषु जलम् अधिकमात्रायां प्राप्यते ।


महावीर जैन 
Mahavir Jain


महावीरः जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु अन्तिमः तीर्थङ्करः अस्ति । भगवतः महावीरस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं सिंहः इत्यस्ति । कौमारावस्थायां महावीरस्य शरीरस्य औन्नत्यं सप्त  हस्तमात्रात्मकम् आसीत् । भगवतः धार्मिकपरिवारे “मातङ्ग” इत्याख्यः यक्षः, “सिद्धयिका” इत्याख्या यक्षिणी च आसीत् । भगवान् महावीरः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।देवायुष्यं समाप्य भगवतः जीवः भरतक्षेत्रस्य क्षत्रियकुण्ड-नामके ग्रामे अवातरत् । तस्मिन् ग्रामे चैत्र-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ उत्तराषाढा-नक्षत्रे मध्यरात्रौ भगवतः महावीरस्य जन्म अभवत् । महावीरस्य पिता सिद्धार्थः, माता च त्रिशला आसीत् ।भगवान् महावीरः सप्तविंशतिभवानां यात्रां कृतवान् आसीत् । मनुष्यः स्वकर्मणा एव स्वर्गं नरकं वा गच्छति । अनेन प्रकारेण महावीरस्य आत्मना अपि स्वकर्मानुसारं सुखं, दुःखं च भुक्तम् । महावीरस्य आत्मना बहूनां भवानां यात्रा कृता अस्ति । किन्तु यावत् महावीरस्य आत्मना सम्यक्त्वं प्राप्तं, तावदेव भवानां गणना कृता अस्ति । अतः महावीरस्य षड्विंशतिभवानां विवरणम् अधः लिखितम् अस्ति | बालकस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारविधिः करणीयः भवति । अतः भगवतः महावीरस्य जन्मनः एकादश दिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । बहवः देवाः स्वर्गलोकात् अपि समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । तीर्थङ्करस्य सर्वेषु उत्सवेषु देवाः उपस्थिताः भवन्ति एव । समयान्तरे वर्धमानः तारुण्यं प्रापत् । राज्ञा सिद्धार्थेन वर्धमानस्य विवाहस्य विचारः कृतः । सिद्धार्थः वर्धमानस्य मित्रेभ्यः वर्धमानस्य विवाहस्य दायित्वम् अददात् । एकदा वर्धमानः मित्रैः सह वार्तालापं कुर्वन् आसीत् । तस्मिन् दिवसे चर्चायाः विषयः आसीत् – “विवाहः” । विवाहस्य विरोधस्य चर्चा अभवत् । तत्क्षणम् एव माता त्रिशला उक्तवती यत् – “यदि भवतः विवाहस्य इच्छा नास्ति, तथापि मे इच्छा अस्ति इति विचार्य त्वया विवाहः अवश्यं करणीयः भविष्यति” ।महावीरस्य (वर्धमान) पिता, माता च भगवतः पार्श्वनाथस्य परम्परायाः श्रमणोपासकः आसीत् । महावीरः आरम्भादेव विरक्तः आसीत् । किन्तु मातृपित्रोः स्नेहवशात् सः दीक्षाविषयिकीं चर्चां न करोति स्म । तेन गर्भे एव प्रतिज्ञा कृता आसीत् यत् – “यावत् पर्यन्तं मे पितरौ जीविष्यतः, तावत्पर्यन्तम् अहं दीक्षां न स्वीकरिष्ये” ।


महात्मा गान्धि
Mahatma Gandhi


महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।

अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदय: सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रत: आसीत् । स: वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।


रवीन्द्रनाथ टागोर  
Ravindranath Tagore


रवीन्द्रनाथ ठाकुर  (७ मे १८६१- ७ आगस्ट् १९४१) वङ्गभाषायाः कविः, कथालेखकः, सङ्गीतज्ञः, नाटकरचयिता च सन् सः १९ शतकस्य अन्ते विंशतितमशतकस्य आरम्भे च वङ्गसाहित्यस्य वङ्गसङ्गीतस्य च विनूतनं रूपं प्राददात् । तेन रचितस्य सूक्ष्मसंवेदनयुक्तस्य नवीनस्य उत्कृष्टस्य च गीताञ्जलीकाव्यस्य कृते १९१३ तमेवर्षे नोबेल्-साहित्यप्रशस्तिः प्राप्ता । एतेन सः एशियाखण्डे प्रथमनोबेल्-प्रशस्तिविजेता जातः ।कल्कत्तायाः पिरालिब्राह्मणकुटुम्बे जातः रवीन्द्रः स्वस्य अष्टमे वयसि पद्यरचनम् आरब्धवान् ।स्वस्य षोडशे वयसि सः 'भानुशिङ्घो' (सूर्यसिंहः) इत्येतेन गुप्तनाम्ना प्रथमं महत्त्वपूर्णं पद्यं प्राकाशयत् । १८७७ तमे वर्षे प्रथमां लघुकथां नाटकञ्च अलिखत् । ब्रिटिश्शासनस्य दृढं खण्डनं कुर्वता तेन भारतीयस्वातन्त्र्यान्दोलनस्य प्रोत्साहनं कृतम् । तेन रचिताः कृतयः तेन संस्थापितः विश्वभारतीविश्वविद्यालयश्च जगते तेन दत्तानि प्रमुखानि उपायनानि । भारतीयसाम्प्रदायिककठिनसीमातः बहिरागतः रवीन्द्रः वङ्गकलाप्रकाराय नूतनां शोभाम् आनयत् । तेन रचिताः दीर्घकथाः, लघुकथाः, पद्यानि, नृत्यनाटकानि, प्रबन्धाश्च राजनैतिक-सामाजित-व्यक्तिगतविषयान् प्रतिफलन्ति । गीताञ्जली (पद्यानि), गोर (सुन्दरमुखी), घरे बैरे (गृहं प्रपञ्चञ्च) इत्यादयः तस्य प्रसिद्धाः कृतयः । तेन रचितानि पद्यानि, लघुकथाः, दीर्घकथाः च साहित्यमौल्याय, जनभाषाप्रयोगाय, विचारशीलवास्तविकतायाः अभिव्यक्त्यै तत्त्वशास्त्रावलोकनाय च श्लाघार्हाः सन्ति । तेन रचितयोः द्वयोः गीतयोः राष्ट्रमान्यता प्राप्ता अस्ति - जन गण मन भारतस्य राष्ट्रगीतत्वेन, अमर् शोनर् बाङ्ग्ला बाङ्ग्लादेशस्य राष्ट्रगीतत्वेन अङ्गीकृतमस्ति ।




पर्यावरणम् 
Environment 


अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । पर्यावरणम् भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।पर्यावरणम् सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति ।पर्यावरणम् अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । पर्यावरणम् सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः एव विराजते । अतः भारतस्य हृदयमेव यमुनातीरे परिविस्तृता दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं पर्यावरणम् बभूव । पर्यावरणम् नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते ।




विद्या
Knowledge 


भारतीयसङ्कल्पानुसारं विद्याविनयसम्पत्तिः विनयाधानम् इत्यादिप्रयोगः एव साधु । यतः विद्या ददाति विनयम् इति खलु प्रसिध्दम् । प्रामाणिकग्रन्थेषु विद्याभ्यासः इति पदप्रयोगः अपि न दृश्यते विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि इत्येवं भगवद्गीतायां प्रयोगः अनेन प्रयोगेण अस्य लक्ष्यमपि अवगच्छति । विनयनमेव विद्यया प्राप्तव्यम् । अपरया भाषया वदामः चेत् स्वभावसंस्करणमेव शिक्षणम् इति भावः । श्रीमद्विवेकानन्दस्वामिपादादयः स्वभावसंस्करणमेव शिक्षणमिति स्पष्टीकुर्वन्ति च । अत एव कथयामः विद्याविहीनः पशुः इति ॥

विनयः गुणसंस्कारः चेत् तदर्थ सर्वसमर्पणम् एव मार्गः । गुरुसमर्पणं, गुरुशुश्रूषा, योगाभ्यासः, अध्यात्मशास्त्रपठनम्, ब्रह्मचर्यम्, श्रवण-मनन निदिध्यासनादयः च इच्छाशक्तेः ज्ञानशक्तेः क्रियाशक्तेः च वर्ध्दनम् कारयन्ति । तत् पुरुषार्थसाधनाय समर्थः मार्गः भवति च ।





कृष्णजन्माष्टमी 
Krishna Janmashtami 


श्रीकृष्णजन्माष्टमी इति कृष्णस्य जन्मोत्सवः आचर्यते । गोकुलाष्टमी, जन्माष्टमी, कृष्णजयन्ती, श्रीजयन्ती इत्यादिभिः बहुभिः नामभिः भारतस्य सर्वेषु भागेषु आचर्यते एतत् पर्व । सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महाविष्णोः नवमः अवतारः । अयं मार्त्यलोके अवतीर्णः चेदपि साक्षात् भगवान् एव । कृष्णस्तु भगवान् स्वयम्, दशाकृतिकृते कृष्णाय तुभ्यं नमः ईश्वरः परमः कृष्णः, कृष्णं वन्दे जगद्गुरुम् इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते । सः एव आदिपुरुषः, परब्रह्म, पुरुषोत्तमः । स्मृतिषु, पुराणेषु, इतिहासेषु, काव्येषु, प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्रीकृष्णः । सः न केवलं देवः अपि तु देवानाम् अपि देवः तं देवतानां परमं च दैवतम् इति वदन्ति महात्मानः । मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः । न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-पशु-पक्षि-वृक्ष-वनस्पत्यादीन् अपि उद्धृतवान् दयानिधिः । सौन्दर्यनिधिः, कलानिधिः, महाभारतस्य सूत्रधारः, महावीरः, धर्मप्रभुः, धर्मनिरतानां पाण्डवानां बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, गीतोपदेशं कृतवान् योगाचार्यः श्रीकृष्णः ।जन्माष्टम्यां पूजाकर्तारः अर्धरात्रसमये एव पूजाम् आचरन्ति । मध्यरात्रपूजा एव प्रशस्ता इति । अशक्ताः अर्धरात्रितः पूर्वं वृषभलग्ने अपि पूजाम् आचरन्ति । सिंहराशि-अष्टमीतिथि-रोहिणीनक्षत्र-बुधवासर-हर्षणयोग-कौलवकरणयुक्तायाम् अर्धरात्रौ चन्द्रोदयावसरे वृषभलग्ने कृष्णाष्टमीपूजा क्रियते । अस्मिन् दिने पूजाकर्तारः उपवासम् आचरन्तः सायं पुनरपि स्नात्वा अह्निकादिकं समाप्य श्रीमद्भागवतस्य, हरिवंशस्य, विष्णुपुराणस्य, भगवद्गीतायाः वा पारायणं कुर्वन्ति । अनन्तरम् उपर्युक्ते श्रीकृष्णजन्मसमये सम्प्राप्ते षोडशोपचारपूजां कुर्वन्ति । नैवेद्यार्थम् अपि भक्ष्य-भोज्य-चोष्य-लेह्य-पानीयसहितं षड्रसोपेतं शास्त्रीयं सर्वविधं पदार्थं समर्पयन्ति । पूजार्थमपि शास्त्रीयाणि सर्वविधफल-पुष्प-पल्लव-तोरणानि भवन्ति । विशेषतया गोक्षीरं, क्षीरान्नं, परमान्नं, गुडयुक्तपृथुकं, नवनीतं, शुण्ठिगुडमिश्रणं च समर्पयन्ति । वेदमन्त्रैः, शास्त्रवाक्यैः, इतिहासपुराणसूक्तिभिः, अष्टोत्तरशत-सहस्रनामभिः, स्तोत्रैः, गीत-नृत्यैः आराधयन्ति ।


होली 
Holi 


होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति पुराणेषु । होलिकानामिका हिरण्याक्ष-हिरण्यकशिपो: सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं प्राप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।


रक्षाबन्धनम्
Rakshabandhan


रक्षाबन्धन श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।सूत्रबन्धनस्य पृष्ठे रक्षायाः भावत्वात् रक्षाबन्धनम् इति उच्यते । "आपत्तिभ्यः, रोगेभ्यः, दूषणेभ्यः च भ्रातुः रक्षणं भवतु" इति भगिनी प्रार्थनां करोति । ततः भ्राता अपि भगिन्यै रक्षणस्य वचनं यच्छति । अतः रक्षाबन्धनम् इति । आदिभारतीयसंस्कृतौ रक्षाबन्धनं न केवलं भ्रातृभगिन्योः सम्बन्धे सीमितम् आसीत्, अपि तु अन्यसम्बन्धेषु अपि रक्षाबन्धनस्य व्यवहारः आसीत् । यतो हि सूत्रं अविच्छिन्नतायाः प्रतीकत्वेनापि परिगण्यते । मौक्तिकमालायाः, पुष्पमालायाः च आधारः यथा सूत्रं भवति, तथैव रक्षासूत्रं प्रेमप्रतीकत्वेन जनानां सम्बन्धस्य आधाररूपं मन्यते । प्राचीनकिंवदन्त्यानुसारं संसारे यदा यदा नैतिकतायाः न्यूनता भवति, तदा तदा सदाशिवः ब्रह्मद्वारा पवित्रसूत्राणि पृथ्वीलोकं प्रेषयति । तानि सूत्राणि एव रक्षासूत्रत्वेन भगिनी स्वभ्रातुः हस्ते बध्नाति । "शिवेन प्रेषितानि तानि सूत्राणि भ्रातुः मनसः नकारात्मकविचारान् दूरीकुर्वन्ति, अभद्राचरणात् स्वभ्रातरं रक्षन्ति च" इत्यपि मन्यते । अतः भगिनी स्वया क्रीतानि स्वनिर्मितानि वा रक्षासूत्राणि शिवलिङ्गस्य समीपं स्थापनानन्तरम् एव भ्रातुः हस्ते बध्नाति ।पवित्रसम्बन्धः काल-क्षेत्र-व्यवस्थायाः उपरि आधीनः न भवति । एतस्मिन् आधुनिके युगे विदेशे, देशस्य अन्यभागे वा निवसताय भ्रात्रे अपि भगिन्यः रक्षासूत्रं प्रेषयन्ति । काश्चन पत्रालयविभागस्य साहाय्यं स्वीकुर्वन्ति, काश्चन ई-पत्रमाध्यमेन स्वभ्रात्रे रक्षासूत्रं प्रेषयन्ति । ई-रक्षासूत्रस्य चित्राणि अन्तर्जाले प्राप्यन्ते । “भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति” इत्यस्य गतिमच्चित्राणि अपि अन्तर्जाले प्राप्यन्ते । विडियो कॉन्फरस्-द्वारा अपि जनाः रक्षाबन्धनस्य उत्सवम् आचरन्ति ।



दीपावलि
Diwali 


दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति । इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।



विजयादशमी 
Dussehra


भारतदेशे नेपालदेशे च शरदे नवरात्रे देव्याः पूजनं लोके प्रचलितमस्ति । केचन देवीं स्वगृहे एव पूजयन्ति । केचन देवीं पूजयितुं मन्दिरं गच्छन्ति । नवरात्रे पूजितायाः देव्याः निर्माल्यस्य वितरणं दशम्यां भवति । दशम्याम् अवरे जनाः मान्येभ्यो जनेभ्यो देव्याः निर्माल्यं स्वीकुर्वन्ति । तत्र मान्यजना देव्याः घटस्य जलेन अवरान् जनानभिषिच्य देव्याःपूजने प्रयुक्तस्य चन्दनस्य शेषेण तेषां ललाटे तिलकं धारयित्वा दध्यक्षताः अपि तत्राऽऽरोप्य तेषां दक्षिणकर्णस्योपरि यवाङ्कुरानपि स्थापयित्वा तानाशीर्भिरभिः अनुगृह्णनति । गृहे देव्याः पूजने शुक्लपक्षस्य प्रतिपदि (नवरात्रस्य प्रथमे दिने ) गृहे घटस्थापना क्रियते । पूजकाः तदा एव देवीवेदिकायां यथाविधि यवारोपणं कुर्वन्ति । ततः प्रभृति नवरात्रपर्यन्तं प्रतिदिनं सायम्प्रातः देवीं पूजयित्वा दुर्गाकवचादियुतायाः सप्तशत्याः पठनमपि कुर्वन्ति । यथाशक्ति यथयारुच्यं च-महिष-कूष्माण्डादिबलिं च देव्यै समर्पयन्ति । गृहेगृहे यथाशक्ति देवीनैवेद्याय मिष्टान्नानि पच्यन्ते । देव्यै निवेदितानि तानि मिष्टान्नानि सर्वैः खाद्यन्ते । मिष्टान्नानि खादित्वा बालका मोदन्ते । सर्वे बालका बालिकाः च प्रसन्ना भूत्वा दोलया खेलन्ति च ।नवरात्राणाम् आचरणानन्तरं दशमं दिनं "विजयदशमी" इति उच्यते । विशेषतया विजयदशमी तु सर्वनिमित्तम् अपि प्रशस्तम् इति उच्यते । भारतवर्षस्य विविध प्रान्तानं इदम् पर्वम् विविध रूपेण आचर्यते । तद्दिनं बालानाम् अक्षराभ्यासाय, नूतनस्य उद्योगस्य आरम्भाय, विद्यारम्भाय, बीजवपनाय वा उत्तमं दिनम् । तद्दिने यत्किमपि कार्यम् आरब्धं चेदपि तत्कार्यं विजयं प्राप्नोति इति विश्वास: ।आन्ध्रप्रदेशे अयम् उत्सवः अश्वयुजमासस्य दशम्यां भवति। अश्वयुजमासस्य शुक्लपक्षस्य प्रथमातः आरभ्य दश अहोरात्राणि आचर्यते। अतः अस्य पर्वणः नाम दशहोरा - दशहरा इति प्रसिद्धम् अभवत्।।




स्वातन्त्र्यदिनोत्सव
Independence 


भारतस्वतन्त्रतादिनम्  'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते । स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते । ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति ।स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरंभारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीयत्रिवर्णध्वजः सर्वत्र विराजते ।



गणतन्त्रदिनम् 
Republic


भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति । प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति । जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति । देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत् ।


नरेन्द्र मोदी 
Narendra Modi 


नरेन्द्र दामोदरदास  मोदी वर्यस्य समर्थत्वेन दूरदर्शि नेतु: स्वरूपे आदरं कुर्वन्ति। य: पारदर्शितया निश्चितरीत्या च सर्वेषां जीवनं परिवर्तयन् समीकुर्वन् च वर्तते। महोदय: कुशल: वक्ता निपुण: मन्त्रणाकार: चास्ति। श्रीनरेन्द्रमोदी ग्रामीणानां नागरिकानां समानं स्नेह प्राप्नोति। तस्य अनुयायिषु समाजस्य प्रत्येकसम्प्रदायस्य धर्मस्य - आर्थिकवर्गस्य च जना: समाविष्टा: सन्ति। उत्तरगुजरातराज्यस्य महेसाणामण्डलस्य वडनगरनामक: कश्चन लघुग्राम:, यत्र १९५० तमे वर्षे 'सितम्बर'-मासस्य सप्तदशे दिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्। आर्. एस्. एस्. मध्ये स्व-कार्यकालावसरे श्री नरेन्द्रमोदीवर्य: १९७४ तमे वर्षे भ्रष्टाचारविरुद्धे आन्दोलने आपत्काले यदा भारतीयनागरिकाणां मूलाधिकाराणां हननं जायमानम् आसीत् तदा तादृशेषु अवसरेषु तेन महत्त्वपूर्णा: भूमिका: निरूढा:। तस्य नेतृत्वे शिक्षणं - कृषि: आरोग्यसेवया सहितं नैकेषु क्षेत्रेषु महत् परिवर्तनं दृष्टुं शक्यते। तेन राज्यस्य उज्वलभविष्याय स्वदृष्टि: स्थिरीकृता। नीति-अनुगुणं परिवर्तनम् आनेतुं कार्यक्रमा: आरब्धा:। सर्वकारस्य प्रशासनविभागानां पुन: व्यवस्थां कृत्वा गुजरातं सफलतापूर्वकं समृद्धिपथम् आनीतवान् माननीय: नरेन्द्रमोदीवर्य:। २०१४ तमस्य वर्षस्य मई-मसास्य षड्विंशतितमे दिनाङ्के राष्ट्रपतिः प्रणब मुखर्जितेन प्रधानमन्त्रिशपथम् अकारयत् । अधुना सः प्रधानमन्त्रित्वेन देशस्य मार्गदर्शनं कुर्वन् अस्ति ।

दुर्गापूजा 
Durgapuja 


पश्चिमवङ्गराज्ये आश्वयुजमासः (सप्टम्बर्-अक्टोबरमासयोः वर्तमानः) वर्षस्य् प्रमुखभागायते । यतः अस्मिन्नेव मासे महोत्साह दायकं नवरात्रोत्सवम् आचरन्ति तत्रत्याः । दुर्गापूजायाः आचरणस्य परम्परा बह्वीभ्यः शताद्वीभ्यः पूर्वम् एव आरब्धा । द्वादशशताब्द्ययाः पूर्वात् एव आरभ्य आचर्यते स्म दुर्गापूजा इति ज्ञायते भारतीयस्य साहित्यस्य अध्ययनेन । एतस्मात् स्पष्टं यत् आ बहोः कालात् अविच्छिन्नतया उत्सवोऽयम् आचर्यमाणः अस्ति तत्र इति । पूर्वं भूस्वामिनः वाणिज्यकाराः च स्वगृहेषु पूजाम् आयोजयन्ति स्म । तत्सम्बद्धं व्ययं स्वयं वहन्ति स्म च । जातिभेदं, धनिकारिद्रभेदं च विना सर्वेऽपि प्रतिवेशिनः पूजास्थाने उपस्थिताः भवन्ति स्म । सर्वेषां स्वागतं, पूर्णोदरं भोजनं च भवति स्म । किन्तु अद्यत्वे सा पूजा जातितरिधाउ एव आचर्यते जनैः स्वयम् एव । एतदर्थं घटितेषु सङ्घेषु, समितिषु, समूहेषु च पूजामाध्यमेन क्र्मशः शीलविकासः जायते स्म पूर्वम् । सामाजिकधार्मिकप्रतिकभूतः एष उत्सवः अत्युन्नतां प्रगतिं प्राप्नोति स्म अपि । किन्तु इदानीम् एतत् परिस्थितिवशात्, वैभवाडम्बरादि प्रदर्शनकारणं जातम् अस्ति । पूर्वं दुर्गा एका एव पूज्यते स्म । किन्तु इदानीं सा परिवारसहिता द्दस्यते । पत्युः शिवस्य, पुत्रयोः गणेशकर्त्तिकेययोः समक्षे दुर्गायाः मूर्तिः प्रमुखतया यथा भासेत् तथा कृत्वा दिव्यसन्निधिं चित्रयन्ति । पूजा दिनत्रयं यावत् भवति ।



सङ्गणकम्
Computer


सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- तन्त्रांशः, यन्त्रांशः च। तन्त्रांशः एव यन्त्रांशं कार्य कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते । एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते । अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति । पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म । अतः तद्युगं शिलायुगम् इति कथ्यते स्म । तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म । तद्युगं लोहयुगमिति कथ्यते स्म । कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि औषधानि संशोधितानि । अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति ।



ए पि जे अब्दुल् कलाम् 
A.P.J Abdul


अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः १५ अक्टोबर् १९३१ – २७ जुलै २०१५ अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् ।लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् ।अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । धीवरेभ्यः नौकाः भाटकरूपेण यच्छाति स्म । डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन्। क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः ९०%बहुमतेन भारतस्य राष्ट्रपतिः अभवत् ।क्रि.श. १९६२तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः । डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः)प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव ।


स्वामी विवेकानन्द
Swami Vivekananda



सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्। सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् - ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् - ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति - "उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।"


बालगङ्गाधर तिलक
Bal Gangadhar Tilak 


बालगङ्गाधर तिलकः (क्रि.श.१८५६ तः १९२०) कश्चन महान् राष्ट्रभक्तः । भारतस्य स्वातन्त्रसङ्ग्रामे प्रमुखः नेता आसीत् । स्वतन्त्रतायाः आन्दोलनस्य प्रसङ्गे सः अघोषयत्‌ स्वराज्यम्‌ अस्माकं जन्मसिद्धः अधिकारः, तस्य प्राप्तेः अनन्तरमेव मम विरामः इति । समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारं कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ । अयं भारतीयः, राष्ट्रयवादी, समाजोत्थापकः स्वातन्त्र्ययोद्धा च । भारतीयप्रज्ञायां सम्पूर्णस्वराज्यप्राप्तेः आशा एतेनैव अङ्कुरितः । अनेन एतं राष्ट्रियतावादस्य पितामहः इति कथयन्ति स्म । अतीव जनप्रियः नायकः सन् लोकमान्यः इत्येव ख्यातः जातः । अद्यापि तस्य नाम एव लोकमान्यः इति बहवः मन्यन्ते । तिलकमहोदयः इतिहासं, संस्कृतं, हिन्दूधर्मं, गणितं, खगोलशास्त्रं च गभीरतया अधीतवान् आसीत् ।


भगत सिंह
Bhagat Singh


भगतसिंहः स्वतन्त्रभारताय स्वप्राणाहूतिं दत्त्वा अमरः अभवत् । कश्चन सायन्तनः कालः । त्रिवर्षियः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत् । ताभ्यां सह कश्चन वृद्धः अपि आसीत् । सम्भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः । तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकरः दृश्यते स्म । भाषणं कुर्वन्तः ते एकस्य सस्यक्षेत्रस्य घट्टं प्राप्तवन्तः । बालकस्य आगमनशब्दः न श्रूयते इति पिता परिवृत्य दृष्टवान् । बालकः क्षेत्रे उपविश्य किमपि खनति स्म । "किं करोति वत्स?" इति पिता पृष्टवान् । "पश्य तात ! अस्मिन् क्षेत्रे अहं सर्वविधसस्यानि सफलानि करोमि ।" इति बालकः उक्तवान् । तस्य बालस्य नयनद्वयं द्योतते स्म । क्षेत्रे अवश्यं फलं प्राप्नोमि इति विश्वासः तस्य वचनेषु ध्वन्यते स्म । तस्य स्वरेण तौ ज्येष्ठौ आश्चर्यान्वितौ अभवताम् । सः बालकः एव भगतसिंहः । अनन्तरकाले मातृभूमिं स्वतन्त्रं कर्तुं वीरोचितं युद्धं कृतवान् अयं समरसिंहः ।पञ्जाबप्रान्तेलाहोरजनपदे बङ्गा इति ग्रामः । सरदारकिषनसिंह इत्येतस्य वीरपुरुषस्य वंशजाः तत्र निवसन्ति स्म । तस्मिन् वंशे अनेके वीराः आङ्ग्लेभ्यः भारतस्य विमोचनं कारयितुं युद्धं कृतवन्तः ।बालके भगतसिंहे सर्वे स्निह्यन्ति स्म । अग्रे कदाचित् एषः बालकः प्रसिद्धो भविष्यतीति सर्वे परस्परं कथयन्ति स्म । तस्य मातुः विद्यावत्याः जीवनम् आरम्भतः अपि कष्टैरेव यातम् । क्रान्तिकारी तस्याः पतिः सर्वदा अज्ञाततया पर्यटन् गृहतः दूरे एव भवति स्म । भगतसिंहस्य कनिष्ठपितृव्यौ आस्ताम् । तयोः स्वरणसिंहम् आङ्ग्लेयाः द्वितीयपर्यायार्थं कारगारं प्रेषितवन्तः । कारागारजीवनं दुर्भरम् आसीत् । अतः स्वरणसिंहः रोगग्रस्तः अभवत् । कारागारतः विमोचनानन्तरमपि तस्य स्वास्थ्यं सम्यक् नाऽभवत् । कतिपयदिनेषु सः दिवङ्गतः ।दोषिणां विषये न्यायालये वादप्रतिवादमारब्धम् । तेषु दिनेषु राजनैतिककारणैः बद्धानां विषये अधिकारिणः सम्यक् न व्यवहरन्ति स्म । तेभ्यः उत्तमं भोजनं न ददाति स्म । तान् अनेकधा पीडयन्ति स्म । भगतसिंहः, तस्य अनुचराश्च तादृशलज्जास्पदानां कार्याणां विषये सङ्घर्षं कर्तुं निश्चितवन्तः । 


जवाहरलाल नेहरु
Jawaharlal Nehru  


जवाहरलाल नेहरुः (१८८९-१९६४) प्रयागे जात: ।

सः भारतवर्षस्य सर्वाधिककालपर्यन्तं नेतृत्वं कृतवान् तथा च प्रथमः प्रधानमन्त्री आसीत् ।१९४७तः-१९६४तमवर्षपर्यन्तं स: भारतस्य प्रधानमन्त्री आसीत्‌ ।

तस्य पितुः नाम मोतीलालनेहरुः । मातु: नाम स्‍वरूपरानी इति । केम्ब्रिजविश्‍वविद्यालये स्‍नातकपरीक्षाम्‌ उत्तीर्य स: विधिवेत्ता अभवत्‌। तस्य ब्राह्‍मणकुलोत्‍पन्‍नया कमलया सह विवाह: सम्पन्‍नः।

भारतदेशस्य स्वातन्त्र्यम् आगस्ट १५ दिनाङ्के १९४७ वर्षे अभवत् । तदा नेहरु ध्वजारोहणम् अकरोत् । प्रजाप्रभुत्वविषये नेहरु गुणत्वम् अपश्यत् इष्टवान् च। सः सेक्यूलरिसं, लिबरलिसं च इष्टवान् । दरिद्रेभ्यः दीनेभ्यः च साहाय्यकरणं तस्य प्रवृत्तिः आसीत् । नेहरुमहोदयस्य एतादृशाः गुणाः अस्माकं देशस्य संविधानरचनायां सहकरिणः अभवन् । देशस्य औन्नत्यर्थं प्रपञ्चे ये हितकारिणः गुणाः आसन् तान् अत्र स्थापितवान् । तस्य पुत्री इन्दिरा तथा दौहित्रः राजीवः स्वयं देशसेवां कर्तुकामौ देशस्य प्रधानमन्त्रिणौ अभवताम् 

सचिन तेण्डुलकर 
Sachin Tendulkar 


सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् ।

वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्।


चाणक्य
Chanakya 


चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्यप्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।


प्रणब मुखर्जि 
Pranav Mukharji


प्रणबकुमार् मुखर्जि जननम् - १९३५ डिसेम्बर् ११) भारतस्य राष्ट्रपतिरूपेण चितः अस्ति । तेन ७२ प्रतिशतं मतानि प्राप्तानि तन्नाम ५.१८ लक्षपरिमितानि मतानि । मुखर्जिः भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य ज्येष्ठः नेता आसीत् । राष्ट्रपतिनिर्वाचने भागग्रहणाय २०१२ तमस्य वर्षस्य जुलै २२ तमे दिनाङ्के सः स्वस्य स्थानाय त्यागपत्रम् अयच्छत् । सः जुलैमासस्य २५ तमे दिनाङ्के राष्ट्रपतिपदं समलङ्करोत् ।मुखर्जिः ब्रिटिश्भारतस्य वङ्गराज्ये मिरटिप्रदेशे जन्म प्राप्तवान् । तस्य पिता कामद किङ्कर मुखर्जि भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य सदस्यः आसीत् । भारतीयस्वातन्त्र्यसङ्ग्रामे गृहीतभागेन तेन दशाधिकवर्षाणि यावत् ब्रिटिशकारागृहे जीवनं यापितम् । प्रणबस्य माता राजलक्ष्मी मुखर्जि । तस्य अग्रजा अन्नपूर्णा मुखर्जि । प्रणबः सुरि (बिर्भम्) नगरस्थे सूरिविद्यासागरमहाविद्यालये अध्ययनम् अकरोत् । अयं महाविद्यालयः कल्कत्तविश्वविद्यालयव्याप्तौ विद्यते । सः इतिहासं, राजनैतिकविज्ञानं च अधीत्य कलापदवीं प्राप्तवान् । कलकत्ताविश्वविद्यालयतः न्यायशास्त्रे अपि पदवीं प्राप्तवान् । २०११ तमे वर्षे वोल्वर्हाम्प्टन्-विश्वविद्यालः गौरवडाक्टोरेट्पदविप्रदानपूर्वकं तस्य सम्माननम् अकरोत् । २०१२ तमस्य वर्षस्य मार्चमासे अस्सम्विश्वविद्यालयः गौरव-डिलिट्पदव्या तस्य सम्माननम् अकरोत् ।मुखर्जि तस्यौद्यगम् कल्कत्ता नगरस्य पत्राचारविभागे(पोस्टल् ऽ टेलिग्राफ़् ) उप-गणक प्रतिनिधि (डेपुटीअकोन्टन्ट् जेनेरल्) कार्यालये उच्च-विभाग-कार्यदर्शी (अप्पेर् डीविशन् क्लेर्क्) रूपेण आरब्धवान् । १९६३ तमे वर्षे विद्यानगर महविद्यालये राजकीयवैज्ञानम् अध्यापयितुम् आरब्धवान् । अपि च सः “ देशट् दक्”(मातृभूमेः आह्वानम्”) इत्यस्याम् पत्रिकायाम् पत्रिकाकारः अपि आसीत् राजकीयक्षेत्रे प्रवेशात् पूर्वम् ।जूलै मासे २५ दिनाङ्के यदा मुखर्जी राष्ट्रपति पदवी स्वीकरणार्थम् सत्यप्रतिज्ञाम् कुर्वन्नासीत् तदा अन्नाहसारे गणस्य सदस्या: तस्योपरि उत्कोचविषयक प्रमाणानि सन्ति इति तम् वयम् प्रकाशयामः इत्यपि घोषितवन्त: । अस्माकम् भारतदेशे उत्कोचस्वीकरणारोपयुक्त प्रधानमन्त्रि: पूर्वमेवास्ति । अधुना राष्ट्रपति: अपि। किन्तू हसारे गणस्य सदस्या: अर्विन्द्केज्रिवाल्वर्य: इतोपि प्रमाणानि न प्रकाशितवान् ।


97.  गुरु नानक देव जी

गुरु नानक देव
Gurunanak 


गुरु नानक सत्यं सर्वश्रेष्ठम् । तदपेक्षया सत्यजीवनम् अतीव श्रेष्ठम् । सत्यमिदम् अङ्गीकर्तुं जातिमतकुलादयः अवरोधाः नैव भवन्ति । मानवीयता आवश्यकी 'इति वदति स्म ।गुरुनानकः १४६९ तमे वर्षे एप्रिल्मासस्य १५ दिनाङ्के जन्म प्राप्नोत् । अद्यत्वे इदं दिनं 'प्रकाशदिन'त्वेन आचर्यते । हिन्दु खत्रिकुटुम्बे राय् भोय् दि तल्वाडिग्रामे सः जातः । अधुना अयं प्रदेशः पाकिस्थाने लाहोरसमीपे 'ननकानासाहिब्'नामकः अस्ति । नानकी जयरामेण परिणीता । ततः सा तेन सह सुल्तान्पुरम् अगच्छत् यत्र जयरामः लाहोरस्य राज्यपालस्य दौलतखान्लोदेः साहायकः आसीत् । भारतीयसम्प्रदायानुगुणं गुरुनानकः अपि अग्रजया सह सुल्तानपुरम् अगच्छत् । १६ वर्षीयः गुरुनानकः दौलतखानस्य कार्यालये एव कार्यं प्राप्नोत् ।गुरुनानकस्य पत्नी माता सुलख्नी । षोडशवयसि एव तस्य विवाहः बटालानगरे जातः । तयोः पुत्रद्वयं श्रीचन्दः लक्ष्मीचन्दश्च ।'भाई लेह्ना' अग्रिमः गुरुः इति नियुक्तवान् गुरुनानकः । तस्मै गुरु अङ्गदः इति पुनः नामकरणम् अकरोत् । घोषणस्य अनन्तरं केषुचित् एव दिनेषु गुरुनानकः दैवे ऐक्यतां प्राप्नोत् । तदा तस्य वयः आसीत् ७० वर्षाणि ।


महाकवि बाणभट्ट 
Mahakavi Banabhatta


प्रस्तावना-संस्कृतगद्यकारेषु बाणभट्टस्य सर्वोच्चं स्थानं मन्यते। स 'हर्षचरितम्', 'कादम्बरी' चेति द्वयोर्गद्यग्रन्थयो रचनाकारः। एते द्वेऽपि ग्रन्थे संस्कृतवाङ्मये विशिष्टं स्थानमावहतः। बाणस्य स्थितिकालस्त्वन्त, साक्ष्यैर्बहिः साक्ष्यैश्च सुविज्ञातमेवास्ति। स कान्यकुब्जेश्वरस्य हर्षवर्द्धनस्य सभाकविरासीत्। हर्षेण ख्रीष्टीयात्यधिकशतमवर्षादारभ्याऽष्ट चत्वारिंशदधिकसप्तशतवर्षपर्यन्तं राज्यशासनं कृतमासीदितीतिहासप्रसिद्धमेवास्ति। अतो बाणस्य स्थितिकालः सप्तमस्य शतकस्य पूर्वार्द्ध एव सिध्यति। हर्षचरितम्' इत्याख्याया आख्यायिकायाः प्रथमेषु त्रिषूच्छ्वासेषु कविना स्वात्मपरिचय एव दीयते। तद्नुसारं बाणस्य जन्म प्रीतिकूट इत्याख्ये ग्रामेऽभवत्। ग्रामोऽयं शोणनद तटवर्ती चास्ति। शोणस्य दक्षिणायां दिशि च्यवनाश्रम उत्तरस्यां च दुर्वाससाऽभिशप्तया देव्या सरस्वत्या निवासः कृतः। च्यवनस्य ऋषे: पत्नीरूपे सारस्वती सारस्वतं नामैकं पुत्रमजीजनत्। तं च शिशुरूप एव विहाय सा ब्रह्मलोकमगात्। सारस्वतस्य पालनं तस्य पितृत्ययाऽक्षमालया स्वपुत्रेण वत्सेन सह कृतम्। कालानन्तरं सारस्वतस्तु तापसो भूत्वा गृहं जहार, परन्तु वत्सात् प्रावर्तत विपुलो वंशः। अस्मिन्नेव सारस्वतगोत्र उत्पन्नस्यार्थपतेरेकादशषु पुढेष्वन्यतमश्चित्रभानुरासीत्। स एवाऽऽसीद् बाणस्य जनकः। राजदेवी च तस्य मातुर्नामासीत्। अनेन बाणस्य वत्सगोत्रीयं ब्राह्मणत्वं सिद्धं भवति। बाणस्य हर्षसभायां गमनमपि हर्षचरिते वर्णितमस्ति, अनेन सिध्यत्येतद् यत् स सम्राजो हर्षवर्धनस्य सभापण्डित आसीदिति।

बाणस्य कृतित्वम्-बाणरचितास्त्रिस्रः कृतय उपलब्धाः-चण्डीशतकम्, हर्षचरितम्, कादम्बरीति। एतासु 'चण्डीशतकं' मुक्तककाव्यम्, अपरे द्वे च गद्यकाव्ये। हर्षचरितस्य प्रथमेषु त्रिषूच्छ्वासेषु कविना स्वात्मचरितमेव लिखितम्, शेषेसुपञ्चसु हर्षचरितं वर्णितमस्ति। यद्यप्यस्य कथानकमेतिहासिकमस्ति, तथापि कविना स्वकल्पनायाः सौन्दर्येणेदं सुन्दरसाहित्यिक रचनारूपे परिणतमस्ति। वस्तुतो भारतीये वाङ्मय ईदृशानि काव्यान्याख्यायिकानीति कथ्य-ते, आख्यायिकासाहित्यस्य चायमादिमो ग्रन्थः। अस्मिन् ग्रन्थे प्रसङ्गतस्तत्काली नानां समा शिक्षा धर्मनीत्याचाराणां च वर्णनं विद्यते। हर्षचरितस्य प्रथमोच्छ्वासस्याध्ययनेनेदं स्पष्टं भवति यत्तस्मिन् काले द्विजातयः श्रोताचारेषु श्रद्दधानाः सन्तस्तदनुकूलमाचरन्तश्च सदाचारिणो विद्वांसो धार्मिकाश्चासन्-"आश्रितश्रौता अप्यनालम्बितालीकवककाकवः.........."'न्यक्कृतनकृतयः प्रसन्नप्रकृतयः .......... कवयो, वाग्मिनो विमत्सराः .........." सर्वगुणोपेताः ....... असाधारण-द्विजातयः" इति। ग्रन्थस्य चतुर्थ उच्छ्वासे तत्कालीनानां कलाकौशलानां सुन्दरं वर्णनं कृतमस्ति। पञ्चम उच्छ्वासे धार्मिकसम्प्रदायानां तत्कालीन विद्यादेन्द्राणामपि वर्णनं प्राप्यते। सप्तमे उच्छ्वासेऽनेकानां देशानां जनानां वेषभषाया अपि वर्णनं कृतम्। बाणस्य द्वितीयोच्छ्वासे कृतानि वर्णनानि तस्य राजतंत्रकशलताया राजकीयवैभवस्य सूक्ष्माभिज्ञतायाश्च परिचायकानि सन्ति। प्रसङ्गतोऽस्मिन् प्रक्रतेरप्यालम्बनरूपे चित्रणं दृश्यते। इत्थं ग्रन्थोऽयमेक ऐतिहासिक ग्रन्थ एवास्ति यत्र तत्कालीनानां सर्ववृत्तानां प्रायश्चित्रणं दृश्यते।

अपरा रचनाऽस्ति 'कादम्बरी' ति। अस्यां शूद्रकस्य राजसभायाः कथानकमारभते।चाण्डालकन्यैका वैशम्पायनं नाम शुकमादाय तत्र प्राप्नोति शुकश्च तत्राऽऽत्मवत्तं श्रावण विस्तते वर्णने त्रयाणां जन्मनां घटनाः सुगुम्फिताः सन्ति। राजा शूद्रक एव पूर्वजन्मनि न. आसीत्, तस्मादपि पूर्वजन्मनि स चन्द्रमा आसीत्। शुकोऽपि स्वपूर्वेजन्मनि वैशम्पाय पूर्वेजन्मनि श्वेतकेतुपुत्रः पुण्डरीकश्चासीत्। महाश्वेता कादम्बयोवृत्तान्तं त्वेकजन्य महाश्वेतायाः कथा तु काम्बरीकथाया भूमिकामात्रमस्ति।अस्याश्चरित नायिका तु कादम्बवन वस्ततोऽस्याः कथायाः पात्राणि गन्धर्वलोक चन्द्रलोकमानवलोकानां जीवनभतयः सन्ति परस्परं प्रेम्ण आत्मसमर्पणाय च प्रस्तुताः सन्ति । एषां पात्राणां परस्परसमर्पणेऽभताया: पीय. समवायो दृश्यते। सम्पूर्णा कथा एकं विशालं प्रेमाख्यानमेवास्ति। सर्वे नियतिचकस्यानुशासनेऽनुबद्धाः कार्यशीला दृश्यन्ते, तेषां सर्वे कार्यकलापाश्च प्रेम्णैव केन्द्रीभता. अनेनैव दिव्यप्रेम्णा कविना गन्धर्वमानवलोकावेकत्र मिलितौ स्तः। अस्य ग्रन्थस्य प्रथमद्वित्र्यंशं तु स्वयं बाणेन रचितमस्ति। शेषभागस्तस्य मरणानन्तरं तस्याऽऽत्मजेन पुलिन्देन लिखितः। अतो द्वयोर्भागयो र्भाषागतं शैलीगतं चाऽन्तरं स्पष्टं परिलक्षितं भवति। कादम्बरीकथाया आधारो बृहत्कथायां वर्णिता राज्ञो सुमनसो कथेति विदुषां मान्यताऽस्ति. यतो हि बाणेन तत एव शापरूपान्तरणपुनर्जन्मादी: कथानकरूढी गृहीत्वा स्वकाव्यकौशलेन भव्ये रूपे प्रस्तूयन्ते। एकस्यां कथायामपरस्याः कथायाः संयोजनरीतिरपि बृहत्कथयैव प्रभाविताऽस्ति। किं बहुना, तत्कालीनासु लोककथासु प्रचलिता असम्भाव्या रूढयोऽपि कादम्बर्यां समायोजिताः। तद्यथा-शुकस्य सर्वशास्त्रज्ञत्वं मनुष्यवाग्वचनं च, अनायासैनैव पात्रोनिपरिवर्तनं, कामरूपधारणं, शापेन मानवस्य पक्षिरूपे परिणतिश्चेत्येवमादयः। बाणस्य पात्राणि काल्पनिकानि यानि कविः परम कौशलेन सजीवे यथार्थरूपे च प्रस्तौति। यद्यप्यस्मिन् कथाकाव्ये प्रणय दशानां चित्रणमेव कवेर्लक्ष्यं वर्तते, तथापि प्रसङ्गतस्तत्कालीन समाजस्य शैवशाक्त वैष्णवादीनां विविध सम्प्रदायानां देवार्चनयज्ञतपोदानादीनामपि चित्रणं दृश्यते। तस्मिन् काले जनानां वर्णव्यवस्थासतीप्रथास्वप्नभाग्यसंस्कारादिषु प्रगाढाऽऽस्थाऽऽसीत्। एवमेव शिशूपचारसूतिकागृहादीनामपि सविस्तरं वर्णनं कृतमस्ति। स्थाने-स्थाने उत्सवादीनां वेषभूषाऽऽचार विचार कलाकौशलादी नामप्युल्लेखः प्राप्यते। कवे राजनीतिकौशलस्य पराकाष्ठा शुकनासोपदेशे द्रष्टव्या। तस्य प्रकृति चित्रणमपि यथार्थपरकम्।

भाषाशिल्पम्-बाणस्य समये भारतेऽनेका:काव्यशैल्य: प्रचलिता:आसन्। केषुचित् क्षेत्रेषु वाभावोक्तिप्रधानेभ्य एव विषयेभ्योमहत्त्वं दीयते स्म, केषुचित् प्रदेशेषु श्लेषमूलां शैली प्रत्येव जनानामभिरुचिरासीत्। सर्वा अप्येताः शैल्या बाणस्य सुपरिचिताः आसन् यथा तेने स्वयमेव स्वीकृतम्-

श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम्।

उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडम्बरम्॥ इति। 

परन्तु बाणस्य जीवनकाले श्लेषप्रधाना शैली प्रबलतरा जाता या बाणेन श्लेषघनेत्युदीरिताऽस्ति। सम्भवतोऽस्मादेव कारणाल्लोकरुचिमनुसरता सुबन्धुनाऽपि श्लेषमया वासवदत्ता रचिता या तत्कालीने विद्वत्समाजेऽतीव समादता। बाणोऽपि स्वकालाभिरुचिमनुसृत्य बढी रीतिं विहाय पाञ्चालीमङ्गीचकार। परं वासवदत्ताया गद्यशैल्यास्तेनान्धानुकरणं कुत्राऽपि न कतम, अपितु उभयो: स्वाभाविक श्लिष्टशैल्योर्मध्ये एकमन्यं मार्ग स जग्राह। एवं तेनैका नृतना भाषाशैल्याविष्कृता यस्यां पूर्वोक्तानां सर्वासां शैतीनां प्रतिनिधित्वमासीत्। तद्यथा, विकटां विन्ध्याटवीं हि वर्णयन्नसौ विकटानेव शब्दान् प्रयुक्ते-"क्वचित्प्रलयवेलेव। महावराह दंष्टासमुत्खातधरणिमण्डल., क्वचिदुत्कृतमृगपतिनादभीतेव कण्टकिता"..."इत्यादि। परं वसन्त वर्णन प्रसङ्गे स मृदुलां माधुर्ययुतां च पदावलीं समायोजति, तद्यथा"अशोकतरुताऽनरणितरमणीमणि नूपुरझङ्कारसहस्रमुखरेषु सकलजीवहृदयानन्ददायकेषु, मधुमासदिवसेषु......" इति।

बाणेन न केवलं श्लेषस्य चमत्कारो दर्शितः, अन्येषामलङ्काराणामपि श्लाघ्यः प्रयोगः कृतः। अनुप्रासप्रयोगे तु स सिद्धहस्तो दृश्यते, तद्यथा-"इभकलभकल्लोलनपल्लव वेल्लितलवलीलयैव मधुकरकुलकलङ्क कालीकृत कालेयक कुसुम कुड्मलेषु..." इति। उपमाया:प्रयोगे कविनैकत्र या ललिता मधुरा प्रसादगुणसम्पन्ना पदावली प्रयुक्ता सा तु दर्शनीयैव"क्रमेण च कृतं मे वपुषि वसन्त इव माधुमासेन मधुमास इव नवपल्लवेन नवपल्लव इव कुसुमेन कुसुम इव मधुकरेण मधुकर इव मदेंन नवयौवनेन पदम्" इति। भगवतो जाबालेराश्रमस्य सात्त्वित्वं वर्णयता कविना याऽर्थापत्तिः प्रयुक्ता सा तु स्पृहणीयैव-"किं बहुना, तापसाग्निहोत्रधूम लेखाभिरूंपसर्पतीभिरनिशामुपपादितकृष्णाजिनोत्तरासङ्गशोभाः फलमूलभृतोवल्कलो निश्चेतनास्तरवोऽपि सनियमा इव लक्ष्यन्तेऽस्य भगवत: समीपवर्तिनः किं पुनश्चेतनाः प्राणिनः" इति। एवमेव कवेविरोधाभासविलासोऽपि दर्शनीयः-"शिशिरस्यापि रिपुजनसन्नापकारिणः, स्थिरस्याप्यनवतरं भ्रमतः, निर्मलस्यापि मलिनीकृतारातिवनितामुखकमलद्युतेः, अतिधवलस्यापि सर्वजनरागकारिणः"..." इत्यादि।

बाणो रससिद्धः कवीश्वरः। शृङ्गाररसोऽस्त्यस्य प्रेष्ठो रसः। स सम्भोगविप्रलम्भपक्षद्वयस्य वर्णने समानं दक्षतां प्राप्तोऽस्ति।सम्भोगा पेक्षया विप्रलम्भवर्णने च तस्य लेखनी प्रवाहमधुरा प्रचार चतुरा च वर्तते। महाश्वेता स्वप्रियतभं प्रेक्ष्य कीदृशीं व्याकुलतां भजतीति दर्शनीयमेव-"अनन्तरं च मेऽन्तर्मदनावकाशमिव दातुं...'साभिलाषं हृदयमाख्यामिव स्फुरितमुखमभूत् कुचयुगलम्। स्वेदसलिललवलेखाक्षालितेवागलल्लज्जा'' इति। ।

करुणरसचित्रणेऽपि बाणोऽस्त्येको दक्षः कविः। तद्यथा-

"हा, हतोऽस्मि! हा, दग्धोऽस्मि! हा वञ्चितोऽस्मि! हा, किमिदमापतितम्""हा तपो! निराश्रयमसि! हा सरस्वति ! विधवासि। हा सत्यम् ! अनाथमसि!" इति।

विविधालकृत्यनुप्राणितं प्रकृतिचित्रणं तु बाणस्य सूक्ष्मनिरीक्षणशक्तिमत्वं प्रमाणयति। तद्यथा

"दिवसावसाने लोहिततारका तपोवन धेनुरिव कपिला परिवर्तमाना सन्ध्या" इति। 

अत्र सन्ध्यायाः कपिलाया धेनो: सादृश्यं कस्यान्तर्मनो नानन्दयति ?

साहित्यदर्पणकारेण गद्यस्य चतस्रः शैल्य उल्लिखिताः सन्ति। तासामाद्यास्ति चूर्णकशैली यस्यामत्यल्पसमासानां प्रयोगः क्रियते। द्वितीयोत्कलिकाऽस्ति यस्यां सुदीर्घसमासावच्छिन्नपदावली प्रयुक्ता। तृतीयाऽऽबिद्धशैली यस्यां समासानां प्रयोगो न क्रियते।

चतर्थी च वृत्तगन्धिरस्ति यस्यां गद्येन सह पद्यमपि प्रयुज्यते। एतासु शैलीस पर्ववर्तिनी ज्यते। एतास शैलीसु पूर्ववर्तिनीनां तिसृणामेव बाणेन प्रयोगः कृतः। क्वचित्तु तिसृणामेव प्रयोग एकत्रैव दृश्यते, क्वचित्प्रायबर याति, क्वचिदन्यस्या अपि प्रयोगो दृश्यते। शैलीनां एतदवैभिल्यादेव दश्यते. क्वचित्प्राय एकैवोत्कलिका सुदूरं योगो दश्यते।शैलीनां एतद्वैभिन्यादेव क्वचित्तु समास बाहुल्येन तस्य गद्यं क्लिष्टत्वं प्राप्नोतिम् क्वचिच्चातिलघुवाक्यानां प्रयोगेण तदति सरलं सुस्पष्टं च प्रति.

समासानां जटिलताया अतिरिक्तं बाणस्य गद्येऽलङ्काराणामपि प्राधान्यं दृश्यते। पां तस्य तान्यलकाराणि कथा प्रवाहं न शिथिलयन्ति, अपितु भावाभिव्यक्तौ साहाय्यमेव कर्वनि वस्ततोऽनलंकतायां भाषायां तु स किमपि न वदति। अतएव पाश्चात्यमनीषिणा कीथ महोटल दण्डिनो गद्यस्य तुलनायां बाणस्य गद्यमरुचिकरमतिसूक्ष्ममतिक्लिष्टं शब्दाडम्बरपर्णं च घोषित परं तेनैतदपि स्वीकृतं यद् बाणेनैकेदृशी उत्कृष्टा गद्यशैली आविष्कृता यस्य प्रशंसनं सरलं परं तस्यानुकरणं सुदुष्करमस्ति।

आख्यायिकायासम्बन्धे बाणस्य दृष्टिकोणमस्ति यत्तस्या भाषा सरलाऽऽकर्षकाच भवितव्या। तस्याः शब्दयोजनाऽपि सरसा सुमधुरा च स्याद् येन सद्योविवक्षितोऽर्थः स्फुटीभवेत् -

सुख प्रबोधललिता सुवर्णघटनोज्ज्वलैः।

शब्दैराख्यायिका भाति शय्येव प्रतिपादकैः॥ 

हर्षचरिते स एनामेव शैलीमङ्गीकरोति। अस्या भाषा सरला बोधगम्या च वर्तते। तद्यथा-

"एवमनुश्रूयते -पुरा किल भगवान् परमेष्ठी सुनासीर प्रमुखैर्गीर्बाणैः परिवृतो ब्रह्मोद्याः कथाः कुर्वन् कदाचिदासाँश्चक्र" इति। अत्र तु सोऽति लघूनि वाक्यान्यपि प्रयुङ्क्ते। यथा-"महानयं भुजङ्ग" इति, "का मे भुजङ्गता" इति च। हर्षचरितस्य प्रस्तावनायां बाणेन स्वपूर्ववर्तिनामाख्यायिकाकाराणां सुबन्धुहरिश्चन्द्रहालगुणाढ्यादीनां चोल्लेखः कृतः। तेषां कृतीनामपि तेन भूरिश: प्रशंसा कृताऽस्ति, स्वरचनयोश्च तेषां गधशिल्पमनुकर्तुं प्रयासोऽपि कृतः। सम्भवत इदमेव कारणमस्ति यद् बाणस्य रचनायां विविधानां शिल्पानामाभासो प्राप्यते। परं. बाणस्याऽऽदर्शा कृतिस्तु 'वासदत्तैव' वर्तते, यस्याः प्रशंसायां स स्वयेम कथयति-

कवीनामगलद्दो नूनं वासवदत्तया।

क्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम्॥ 

एवमेव भट्टार हरिश्चन्द्रोऽपि तेन प्रशस्यते। गुणाढ्यस्य बहत्कथां तु भूरिशः प्रशसयन् सता गद्यसाहित्यस्योपजीव्यमेव ग्रन्थं मन्यते। तस्य कथनानसारं बहत्कथा भगवतः शङ्करस्य लालामा सदृशं त्रैलोक्यं विस्मयविमुग्धं करोतीति-


समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना। 

हरलीलेवलोकस्य विस्मयाय बृहत्कथा॥ 


'हर्षचरिते' उत्कृष्ट काव्यरचनार्थं कविः पञ्च गणानपेक्षते, येऽत्र निदर्शिताः सान्त-


नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः।

विकटाक्षरबन्धश्च कत्स्नमेकत्र दुर्लभम्॥ 


यधताना गुणानामनुसारं काव्यसजनं क्रियेत. तर्हि सा रचना सर्वोत्कृष्टा स्यात्। एतन्मान्यतानुसारमेव बाणेन स्वगद्यकाव्यं रचितमस्ति। अतः स एकोत्कृष्टा रचना अवश्यमव माजस्मिन् गद्यकाव्य बाणस्याद्भुताया वर्णनाशक्या: परिचय: स्थाने स्थान प्राप्यते। षष्ठ वासे सिंहनादस्योपदेशः कादम्बरीस्थशुकनासोपदेशसदृश एवा तेन सम्राट हर्ष:सर्वत्रैव महान साडिव प्रस्तयते। काव्यस्यास्यौदात्यं सम्पश्यन्नेव कविना सोड़ढलेनेदमित्थं प्रशंसितम्-


बाणस्य हर्षचरिते निशितामुदीक्ष्य।

शक्तिं न केऽत्र कवितास्त्रमिदं त्यजन्ति॥ इति। 


साररूपेण वयमिदं कथयितुं पारयामो यद्यथा कादम्बरी बाणस्य एकमुत्कृष्टं कथाकाव्यं तथैव हर्षचरितमप्येकमुत्कृष्टमाख्यायिका काव्यं वर्तत इति।

गद्यकाव्यकारेषु बाणस्य स्थानम्-'गद्यं कवीनां निकर वन्दन्ती' त्युक्त्यनुसारं पद्याद् गद्यस्य स्थानं गरीयोऽस्ति, यतोहितदुत्कृष्ट कवित्वस्य निकषमिति मन्यते। गद्यसाहित्यमपि तावदेव प्राचीनं यावत्पद्यसाहित्यम्। परं गद्यस्य काव्यमयं रूपं तु लौकिके संस्कृत एव दृश्यते। महाभाष्ये वासवदत्तासुमनोत्तरेत्यादीनां ग्रन्थानामुल्लेखः प्राप्यते। बृहत्कथापञ्चतन्त्रादिषु कथात्मक ग्रन्थेष्वपि गद्यस्य पर्याप्तं प्रयोगः कृतः। लौकिके वाङ्मये गद्यमिदं द्वयो रियोर्विभक्तं दृश्यते। प्रथमा समासबहुलाऽलंकृता च गद्यधारा वर्तते, द्वितीया च सरला स्वाभाविकी चाख्यान साहित्य गद्यधाराऽस्ति। आद्यां धारामाश्रित्य ख्रीष्टपूर्वद्वितीयशतकादपि पूर्वतोऽनेका आख्यायिका लिखिता आसन्, केषुचिच्छिला लेखेष्वप्यस्य गद्यस्य प्रयोगः प्राप्यते। परमद्य तानि ग्रन्थान्यनुपलब्धानि वर्तन्ते। अद्य तु सुबन्धुदण्डिबाणानामेव गद्यकाव्यानि प्राप्यन्ते। अत एत एव गद्यलेखका अद्य गद्यकाव्यस्य प्रतिनिधयो मन्यन्ते।

परमस्या: परम्पराया उक्तेषु त्रिषु कविषु महाकवेर्बाणस्यैव स्थानं सर्वोपरि मन्तव्यः। सुबन्धुस्तु बाणात्पूर्ववर्ती वर्तते यतोहि बाणेन स्वयमेव सुबन्धोर्वासवदत्तां गुणाढ्यस्य च बृहत्कथां प्रति "अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्धेयमतिद्वयी कथा" इति संकेतिमस्ति। परं सुबन्धोरपेक्षया बाणस्य गद्यमुत्कृष्टतरं प्रतिभाति। सुबन्धुना स्वगद्यं श्लेषमयीं शब्दाडम्बरपूर्णां च गौडीरीतिमाश्रित्य लिखितम्, यदा बाणस्य गद्यं रसपेशलायाः स्निग्धायाश्च पाञ्चालीरीत्या एव निदर्शनमस्ति। श्लेषविरोधादीनामलङ्काराणां प्रयोगो बाणेनाऽपि कृतः, परमेतेषु प्रयोगेषु वर्ण्यविषयस्य बोधगम्यता, रमणीयता, स्पष्टता च न हन्यन्ते। अतो बाणस्य गद्ये यत्र झटिति हृदयङ्गमता विद्यते, तत्र सुबन्धोः श्लेषमये गये वर्ण्यविषयमन्वेष्टुं मानसिको व्यायामः कर्तुं विवशीभूयते। सुबन्धोर्गद्यं विद्वज्जनप्रियं भवितुं शक्तमस्ति, परं विदग्धजनानां हृदयं स्पन्दयितुं न समर्थम्। बाणस्य गद्ये भाषाभावयोः शब्दार्थयोश्चपूर्णसामञ्जस्यं दृश्यते।

वर्णनकौशलं बाणस्याद्यं वैशिष्टयं वर्तते। प्रकृतेर्भयावहं सुकुमारं चेत्युभे रूपे कविना उपयुक्तैः शब्दैरेव चित्रिते स्तः। एकतो यदि विन्ध्याटव्या रोमहर्षकं भयोद्वेगकरं च दृश्यं प्रस्तूयते, तु अपरतो महर्षेर्जाबालेराश्रमस्यापि भावनाभरितं शान्तं पवित्रं च दृश्यं परमकौशलेन दृश्यते। विरहविधुरा तपोनिरता सर्वश्वेता महाश्वेता यदि दिव्य सौन्दर्यस्य परमोज्ज्वला प्रतिमारूपे प्रतिष्ठीयते, तर्हि कोमलकान्त कमनीय कलेवरा कादम्बर्यपि लौकिक सौन्दर्यस्य मूर्तिमती युवतीरूपे प्रस्तुताऽस्ति। एतयोर्नायिकयो: सौन्दर्य चित्रणे यावदुत्कृष्टानां वैविध्यपूर्णानां च  

कल्पनानामुत्प्रेक्षाणां रूपकोपमानां विशेषणानां च संयोजनाकता तावदन्यत्र सदर्लभा वर्तते। एतेषु वर्णनेषु कवेः कलासौन्दर्येण सह भावसौन्दर्यमपि समानं प्रशंसनीयं वर्तते।

कविर्दण्डी तु बाणस्य पश्चाद्वर्ती गद्यलेखकोऽस्ति। तेन तूभयोरपि पर्ववर्तिनो गद्यशैली सम्मिश्रय नव्या शैली विकसिता। अतस्तस्यगद्यकाव्ये पदलालित्ये सत्यपि तट गद्यस्य समकक्षत्वं प्राप्तुं न शक्नोति। वस्तुतो बाणस्य भाषाया उपर्यसाधारणोऽधिकारोकि भाषा भावाभि व्यक्त्यां कोर्वश्येवानुगच्छति। तस्य गद्यं क्वचिदपि कृत्रिमं सायासंचन अतोबाण एव सर्वतो दृष्टया श्रेष्ठः कविः सिध्यति।

उपसंहारः-अत्र यत्किञ्चिदप्यस्माभिरुक्तं तस्य सारस्त्वियं यद्बाणःसंस्कृतम्य एक उदो विद्वानासीत्। भाषामर्मज्ञोऽयं कविदुरूहातिदुरुहानामपि विषयाणां चित्रणे पूर्णसमर्थो दश्यते। तमा भाषा प्राञ्जला परिष्कृता विषयानुकला च विद्यते। तस्य शब्दचयनमप्यतिश्लाघ्यम। तेन त संस्कृत-वाङ्मय एक उच्च आदर्श: स्थापितो यं प्राप्तुं नाद्यावधि कोऽपि समर्थो जातः। तस्य वर्णनानामौदात्यं सुविशालं च शब्दभण्डारं दृष्ट्वा यत्केनाऽपि "बाणोच्छिष्टं जगत्सर्वमिति" कथितं तत्तु नायुक्तमस्ति।


वार्त्तापत्रम् 
Newspaper 


वार्त्तापत्रम् अर्वाचीनकाले मानवस्य जीवनमस्ति । वार्त्तापत्रम् अस्माकं ज्ञानस्य गंङगा इव।यथा प्रभाते करदर्शनम् आवश्यकं सञ्जताम्।वार्त्तापत्राणां महत्त्वम् एवम् अनन्यसाधरणम्।विविधाः वार्ताः विस्ताररुपेण वार्त्तापत्रे वर्तन्ते।वार्ताहाराः विविध्येभ्यः नगरेभ्यः ग्रामेभ्यः च वार्ताः समाहरन्ति।सम्पादकाः ताः वार्ताः सम्पादयन्ति जनानाम् अग्रे स्थापयन्ति च।पी. टी. आय्, यू. एन्. आय्., समाचार भारती इत्यादयः विख्याताः वार्त्तासंस्थाः।सत्यप्रचारः जनजागरणं वार्ताप्रसारणं वि-पना च एतानि वार्त्तापत्राणां महत्वपूर्णानि कार्याणि।स्वतन्त्रपूर्वकाले वार्त्तापत्राणां कार्यम् अनन्यसाधरणम् आसीत्।लोकमान्य तिलक महोदयेन केसरी मराठा च द्वे वार्त्तापत्रम् प्रकाश्य महाराष्ट्रराज्ये जनजागरणं कृत्तम्।एतास्मिन् पत्रद्वये तेन आङग्लस्य कुटिलां राजनीतिम् उद्दिश्य लेखाः लिखिताः। वार्त्तापत्राणि विविधभाषासु प्रवर्तन्ते।कानि वार्त्तापत्राणि आकर्षकामि कानि अनाकर्षयानि।कानि केवलानि स्थानीयाणि यथा।सन्मित्र ठाणे-वैभवम् कोकणभवनम् इत्यदीनि।केषांचित् भाषा मधुरा सरला सुलभा च।तर्हि केषांचित् क्लीष्टा कठिना च।वार्त्तापत्रम् अस्मभ्यं विश्वस्य ज्ञानं यच्छति।अधुना सकाळ केसरी इंडियन एक्सप्रेस लोकसत्ता च इत्यदीनि दैनिकानि विख्यातानि। यदि वार्त्तापत्रम् समये न आयाति तर्हि कर्मचारीणः दुर्दशा भवति।वार्त्तापत्रस्य माहात्मम् निरतिशयम्।वार्त्तापत्राणि लोकमित्राषि खलु।वार्त्तापत्रस्वातन्त्र्यं लोकशासनस्य आवश्यम् अङगम्। सम् आ उपसर्गाभ्यां 'चर्’ धातोः 'घञ्' प्रत्यये कृते सति निष्पन्नो 'समाचार'शब्दः। ‘पत्रम्’ शब्दस्तु पत् धातोः ष्ट्रन् प्रत्यये कृते सति "पत्रम्' निष्पद्यते। अस्य शब्दस्यार्थः तु स्पष्टतया ज्ञायते सवैः। मुख्यत: शब्दोऽयं कागद-इत्यर्थे एव प्रयुज्यते सुधीभिः इमौ द्वौ शब्दौ एकत्रीभूत्वा ‘समाचारपत्रम्' इति शब्दं निर्मीयेते। असौ शब्द:संवाद-प्रसारकरूपेण ज्ञायते। अमुना एव दूरस्थिता: जना: देश-विदेशप्रदेशजनपदादीनां समाचारैः अवगताः भवन्ति। अनेन माध्यमेन अत्यल्पसमयेनैव सामाजिकराजनैतिक-आर्थिक-गतिविधयः सम्पूर्णे देशविदेशे प्रचारिताः भवन्ति। मुख्यतः मानवः संवेदनशीलः प्राणी विद्यते। असौ सर्वदा स्वस्य स्वसमाजस्य देशस्य राष्ट्रस्य च उन्नतिम् इच्छति।



माता
Mother 


यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते | शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति | भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |


हिन्दीभाषा
Hindi Bhasha


हिन्दीभाषा सांविधानिकरूपेण भारतस्य प्रथमा राजभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दीभाषाभाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिशस्, गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, नेपालदेशे केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते । भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति । हिन्दीशब्दस्य मूलं संस्कृतस्य सिन्धुशब्दः इति मन्यते । 'सिन्धु'इत्येषः शब्दः सिन्धुनदीं सिन्धुनदीं परितः विद्यमानां भूमिं च निर्दिशति । अयं सिन्धुशब्दः इरानीयानां मुखे 'हिन्दु' इति जातम् । ततः हिन्दी, हिन्द इति जातम् । अग्रे इरानीयाः भारतस्य बहु भागं यदा आक्रान्तवन्तः तदा 'हिन्द्'शब्देन पूर्णं भारतं निर्देष्टुम् आरब्धवन्तः । इरानीभाषायाः 'ईक'प्रत्ययस्य योजनेन 'हिन्दीक' (हिन्दस्य) इति जातम् । यूनानीशब्दस्य 'इन्दिका'शब्दस्य आङ्ग्लशब्दः 'इण्डिया'इति जातम् । हिन्दीभाषा हिन्द-युरोपीयभाषापरिवारे अन्तर्भवति । इयं हिन्द्-इरानीशाखायाः हिन्द्-आर्य-उपशाखायां वर्गीकृता अस्ति । हिन्द-आर्यभाषाः संस्कृतभाषोत्पन्नाः सन्ति । उर्दू, कश्मीरी, बंगाली, उड़िया, पंजाबी, रोमानी, मराठी नेपाली इत्यादयः भाषाः हिन्द-आर्यभाषाः सन्ति । अपभ्रंशस्य समाप्तेः अनन्तरम् आधुनिकभाषाणां जन्मकालः 'सङ्क्रान्तिकालः'इति निर्देष्टुं शक्यः । हिन्दीभाषायाः स्वरूपं शौरसेनी-अर्धमागधीभाषयोः अपभ्रंशात् विकसितमस्ति । १० शतके अस्याः भाषायाः स्वतन्त्रास्तित्वं दृश्यते ।


भूकम्प
Earthquake


भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पनमित्यादी वैपरीत्यमेव भूकम्पः ।भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति । भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति ।(आ) भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति ।कदाचित् भूकम्पस्य परिणामतःभूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते । भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव । अधिकजनयुतेषु प्रदेशेषु अधिका हानिः सम्भवति । मर्क्यालिमानम् – एतत् मानं भूकम्पस्य तीव्रतां मापयित्वा , अमुके प्रदेशे प्रवृत्तस्य भूकम्पस्य प्रमाणं विवृणोति ।एतस्मिन् रोमन् संख्या I तः XII पर्यन्तं भवति | अत्र परिणामाः संक्षिप्ततया प्रदत्ताः। एतत्मापनं भूकम्पस्य प्रमाणं अथवा विस्तारं मापयितुं उपयुनक्ति ।सेस्मोग्राफ उपकरणेन भूकम्पतः उत्पन्नां शक्तिं मापयितुं शक्यते ।एतान्मानचित्रम् बृहत्भूकम्पवलयं दर्स्शयति । शान्तसागरस्य तटपर्यन्तं तथा आल्फपर्वतश्रेण्यां, हिमा


कृषीवल
Farmer


भरतदेश: ग्रामाणां दश:।अत्र कृषिकर्म एव प्रधान:।सः सकलस्य देशस्य अन्नदाता भवति।सः वृष्टयतपन् अविगणय्य क्षेत्रे आदिनं कर्य करोति। सः प्रतःकाले सुर्योदयात्पुर्वमेव शयनादुत्तिष्ठति।क्षेत्रं गच्छति।हलात् क्षेत्रं कर्षति।समये बिजानि वपति।क्षेत्रं पुत्रवत अहॊरात्रं रक्षति ।बीजाअनडकुरितानि सस्यनि जलेन सिञ्चति।सस्यसंवर्धने बधाकानि तृणादीनि उन्मूलयति।सयनि वर्धयित्व फलितनि करोति।पक्केभ्य: फलेभ्य: धान्यक्णान् संगृहणाति।गृहं प्रत्यावश्यकं धान्यां निवेश्य आधीकं धान्यं विपण्यां विक्रीणाती।कृषीवलस्य भार्या आपि कृषीकर्येषु पत्युः सहाय्यं करोति।सा अपि क्षेत्रं गत्वा भर्तुः सहकर्मचरि भवति।किन्तु आस्माकं देषे कृषीकर्म वृष्टयधीनम्।यत्र नदीनां सरसां च समीपे क्षेत्रं वर्तते तत्र क्षेत्रस्य कृते जलसौलभ्यम् आधिकम् ।तत्र कुल्याः कृत्वा क्षेत्रं काले जलेन सिञ्चति ।केषुचित्क्षेत्रेषु इदृशं सौकर्य न प्राप्यते।तद जलं दूरादानेतव्यम्: क्षेत्रं च सेचनीयम्।कृषीफलं च प्रप्यम्।एवं कृषीवल: आवर्ष क्लेशं विषह्य लोकाय अन्नं ददाति।अतः अन्नदतां इति तस्य सार्थकं नम। इदानीतनदिनेषु अनावृष्टिरधिका वर्तते। अन्नदतुः परिस्थितिः शोचनीया वर्तते।सर्वकारः तस्य साहाय्यार्थ यद्यपि प्रयतते तथापि तस्य कष्टं न दुरीकृतम्।आस्यां दिशी सर्वै: प्रयतितव्यम्।सहनुभूत्या च वर्तितव्यम्।


व्याकरणम्
Grammar


वेदाध्ययने उपकारकाणि षडङ्गानि शिक्षा-कल्प-निरुक्त-व्याकरण-छन्दोज्यौतिषाणि प्रथितानि । एतेषु षट्सु अङ्गेषु व्याकरणं प्रधानम्‌ अङ्गं परिगण्यते । वेदाङ्गेषु व्याकरणम् प्रधानम् अङ्गम् अस्ति । प्रधाने च कृतो यत्नः फलवान् भवति, अतोऽध्येयं व्याकरणम् । वेद ज्ञानार्थम् अपि व्याकरणस्य अध्ययनम् आवश्यकं भवति । संस्कृतवाङ्मयपरम्परायां व्याकरणशास्त्रपरम्परापि अतीव प्राचीना वर्तते । वैदिकवाङ्मयमिव व्याकरणमपि अतीव पुरातनं विद्यते । वैदिकसाहित्ये ब्राह्मणसंहितारण्यकोपनिषत्सु अपि व्याकरणप्रतिपाद्यविषया: क्वचित्‌ क्वचित्‌ दृश्यन्ते । विस्तरेण व्याकरणविषया: तत्सम्बद्धविषयाश्च शिक्षाग्रन्थेषु प्रातिशाख्येषु निरुक्तेषु व्याकरणेषु च समुपबृंहिता: सन्ति । पाणिने: पूर्ववर्तिन: नैके वैयाकरणा: पाणिने: प्राक्‌ विविधं व्याकरणं तेनु: । पाणिनि: स्वयमेव दशानां पूर्ववर्तिनां वैयाकरणानां नामानि उल्लिलेख । एते दश वैयाकरणा: आपिशलि: काश्यप: गार्ग्य: गालव: चाक्रवर्मण: भारद्वाज: शाकटायन: शाकल्य: सेनक: स्फोटायनश्च सन्ति । तदतिरिच्य पाणिनिपूर्ववर्तिनां षोडशानाम्‌ अन्येषाम्‌ अपि वैयाकरणानां नामानि अन्यत्र लभ्यन्ते । एते षोडश वैयाकरणा: शिव: महेश्वर: वा बृहस्पति: इन्द्र: वायु: भरद्वाज: भागुरि: पौस्करसादि: चारायण: काशकृत्स्न: सनातन: व्याघ्रपाद: माध्यन्दिनि: रौढि: शौनक: गौतम: व्याडिश्च वर्तन्ते ।


स्वच्छ भारताभियानम्
Swacch Bharat Abhiyan


स्वच्छभारताभियानम्  इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम्  २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्के भारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते ।


भारतीयसंस्कृति
Indian Culture


पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् । तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः । चतुर्थे स्थाने अस्ति बौद्धधर्मः । एतयोः द्वयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति । भारतं विश्वे एव महान् धार्मिकवैविद्यतायाः देशः । अत्रत्यानां जनानां जीवने अद्यापि धर्मः निर्णायकं पात्रं निर्वहति । भारतस्य पमुखः धर्मः हिन्दुधर्मः । यतः अत्रत्यायाः जनसंख्यायाः ८०.४ % अपेक्षया अपि अधिकाः हिन्दुधर्मम् अनुसरन्ति । १३.४% जनाः इस्लां धर्मम् अनुसरन्ति । सिख्-जैन-बौद्धधर्माणां जनाः न केवलं भारते अपि तु विश्वस्य सर्वेषु भागेषु व्याप्ताः सन्ति । विश्वस्य अन्येषां मतानां क्रैस्त-झोराश्ट्रियन्-यहूद्य-बहायि-मतानाम् अनुयायिनः अपि अल्पप्रमाणेन सन्ति अत्र । तैः सह एव नास्तिकाः आज्ञेयतावादिनः अपि सन्ति भारते ।



ताजमहल 
Taj Mahal


ताजभवनम् आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् । ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । फ्रान्सदेशस्य ऐफेल् गोपुरमिव आस्ट्रेलिया देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । यमुनानद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य औन्नत्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।




पृथ्वी

Earth


पृथ्वी  कश्चित् ग्रहः अस्ति । सूर्यमण्डले पृथ्वी तृतीये क्रमाङ्के स्थिता अस्ति । पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमः ग्रहः अस्ति । जीवनाय अनुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति । पृथ्वी अधिकोष्णा नास्ति, अधिकशीतलापि नास्ति । पृथ्व्यां वायुः, जलम् च अस्ति । जीवनस्य कृते वायुजलयोः आवश्यकता भवति । अत्र प्राणवायुः अपि अस्ति, येन श्वसनतन्त्रं चलति । अनेन कारणेन पृथ्वी सौरमण्डलस्य अद्भुतग्रहः विद्यते । पृथिव्याः प्रकृतिः विशिष्टा वर्तते । तस्य विषये इदानीम् अपि स्पष्टं नास्ति । पृथिव्याम् अनेकाः पदार्थाः सन्ति । पृथिव्याः उपरिभागः स्थलमण्डलेन आवृतः अस्ति । ज्वालामुखिना पृथिव्याः बहवः पदार्थाः बहिरागच्छन्ति । ज्वालामुखिनः अत्युष्णः द्रवपदार्थः, मृत्तिका, धूम्रः, अग्निः, मैग्मा च बहिरागच्छति । तेन एव वैज्ञानिकाः अनुमानं चिन्तयन्ति । वैज्ञानिकाः भौगोलिके संशोधने कार्यरताः भवन्ति । तेन वैज्ञानिकानां समीपं पृथिव्याः विषये विशिष्टं ज्ञानं भवति । अतः ते पृथिव्याः, ब्रह्माण्डस्य च संरचनायाः विषये सूक्ष्मतया जानन्ति ।भूगर्भस्य संरचना कथम् अस्ति ? तस्मिन् के पदार्थाः प्राप्यन्ते ? इति विषयम् आधृत्य वैज्ञानिकाः निरन्तरम् संशोधनं कुर्वन्तः सन्ति । पृथिव्याः केन्द्रे गन्तुं अशक्यम् अस्ति, किन्तु केवलम् अनुमानेन वैज्ञानिकाः ज्ञानं प्राप्नुवन्ति । प्रेक्षणैः अपि ते संशोधने नूतनान् विषयान् अवगच्छन्ति । भूगर्भस्य ज्ञानार्थं प्रत्यक्षाप्रत्यक्षौ स्रोतसी स्तः । ग्रहेषु पृथिव्याम् एव जीवनं सम्भवम् अस्ति । यतः जीवनाय भूमेः, जलस्य, वायोः च आवश्यकता वर्तते । तानि सर्वाणि तत्त्वानि पृथिव्याम् उपलब्धानि सन्ति । पृथिव्याः पर्यावरणस्य त्रयः महत्वपूर्णाः घटकाः परस्परं मिलन्ति, परस्परं प्रभावयन्ति च । पृथिव्याः पर्यावरणे त्रीणि मण्डलानि सन्ति । स्थलमण्डलं, जलमण्डलं, वायुमण्डलं च । पृथिव्यां जैवमण्डलम् अपि वर्तते । पृथिव्याः सर्वैः जीवधारिभिः जैवमण्डलस्य  रचना अभवत् । एते सर्वे जीवधारिणः अन्यैः मण्डलैः सह पारस्परिकक्रियां कुर्वन्ति । पृथिव्याः सर्वे जीवितघटकाः जैवमण्डले विद्यन्ते । तेषु – पादपाः, जन्तवः, प्राणिनः, सूक्ष्मजीवाः च सन्ति । अधिकाः जीवाः स्थलमण्डले एव प्राप्यन्ते । किन्तु तेषु बहवः जीवाः वायुमण्डले जलमण्डले अपि प्राप्यन्ते । केचित् जीवाः मण्डलद्व्ये अपि स्वतन्त्रतया विचरणं कर्तुं शक्नुवन्ति । जैवमण्डलं, जैवमण्डलानां घटकाः च पर्यावरणस्य महत्वपूर्णानि तत्त्वानि सन्ति । एतानि तत्त्वानि भूम्या, जलेन, मृत्तिकया इत्यादिभिः सह पारस्परिकक्रियां कुर्वन्ति । तापमानेन, वर्षया, आर्द्रतया, सूर्यप्रकाशेन एतानि तत्त्वानि प्रभावितानि भवन्ति । जैविकघटकानां भूमिवायुजलैः सह परस्परम् आदानं, प्रदानं च जीवानां विकासाय च साहाय्याय कल्पते ।




हिमालय
Himalay 


भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? क्व जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः । हिमालयस्य उगमः विकासश्च प्रपञ्चे अत्यन्तम् उन्नतपर्वतश्रेणिषु हिमालयः अपि अन्यतमः । प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया  भूभागः द्विधा विभक्तः भूत्वा इण्डोआस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म । प्रायः ४-७ कोटिवर्षेभ्यः पूर्वं द्वयोः एतयोः भूभागयोः मध्ये सङ्घट्टनकारणात् हिमालयः उत्पन्नः । प्रायः २-३ कोटिवर्षेभ्यः पूर्वम् अद्य यत् भारतम् अस्ति सः प्रदेशः 'टेनिस्’ नाम सागरः आसीत् । सः सागरः पूर्णतया विनष्टोऽभवत् । इण्डोआस्ट्रेलियन् भूभागः अद्यपि टिबेटभूभागस्याधः मन्दं प्लवते (सामान्यतः वर्षे २ से.मी परिमितम्) पुनः अग्रिमकोटिवर्षेषु प्रायः १८ से.मी परिमितः भूभागः चलति । अनेन-कारणेन हिमालयपर्वतश्रेणी वर्षे अर्धसेन्टिमीटर् पर्यन्तं वर्धते । आसीस् प्रदेशे (अनेन चलनेन) बहुवारं भूकम्पः अपि भवति ।




जम्बूद्वीप
Jambu Dwip


जम्बुद्वीपम् एक: महाद्वीपः अस्ति| जम्बुद्वीपम् विशवस्य महिसतम् महाद्वीपः अस्ति| एषः महाद्वीपम् अनेकाणि देशानि अस्ति| भारतवर्ष: एशानि महाद्वीपम् एक: राष्ट्रः अस्ति |भूम्याः सर्वे प्रधानधर्माः प्रधानमताः च जम्बुद्विपात् उद्भवन्। जम्बुद्वीपात् एव बहवः पुरातनसंस्कृतयः अवर्धन्त। ४३ राष्ट्रैः युक्तः अयं खण्डः ४४,३९१,१६३ चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । अस्य खण्डस्य भूयान् भागः उत्तरगोलार्धे दृश्यते । इण्डोनेशियादेशस्य भागार्धमात्रं दक्षिणगोलार्धे दृश्यते । दक्षिणस्य १०० तः उत्तरस्य ८०० अक्षांशयोः मध्ये, पूर्वगोलार्धस्य २५० - १९०० रेखांशयोः मध्ये अयं खण्डः विद्यते ।ग्रीष्मकाले जून्-मासतः सप्टम्बर्-मासाभ्यान्तरं नैऋत्य-प्रावृष-वृष्टिः भारत-बाङ्ग्ला-मयान्मार्-श्रीलङ्का-मलेशिया-इण्डोनेशिया-इण्डिचीना-जपानदेशेषु सम्भवति । विशेषतया बाङ्ग्ला-मयान्मार्-मलेशिया-इण्डोनेशिया-फिलिप्पीन्स्-देशेषु अतिवृष्टिः भवति । अतः एव अत्र नित्यहरिद्वर्णारण्यानि विशेषतया दृश्यन्ते । ईशान्य-प्रावृष-वायुना जपान्-दक्षिणपूर्वचीनाभागः-मलेशिया-मयान्मार्-श्रीलङ्का-बाङ्ग्ल-देशेषु भारतस्य तमिलुनाडुप्रदेशे च वृष्टिः भवति । पश्चिमवायुना टर्कि-इस्रेल् इत्यादिषु वृष्टिः भवति । अवशिष्टेषु भागेषु वृष्टिः अल्पा । विशेषतया सौदि-अरेबिया-इरान्-पाकिस्थानस्य दक्षिणप्रदेशाः-मुङ्गोलिया-सैबीरिया इत्यादिषु वृष्टिः नास्ति इत्येव वक्तुं शक्यते । भारतस्य उत्तरभागे स्थितात् काश्मीरात् असमप्रदेशं यावत् हिमालयपर्वतश्रेण्यः सन्ति । जगति एव अत्युन्नतं गौरीशङ्करशिखरम् (एवरेस्टशिखरम् - ८८४८मीटरुन्नतम्) अत्र विद्यते । धवलगिरिः, काञ्चनगङ्गा, नन्दादेवी, के २ इत्यादयः उन्नतशिखराणि विद्यन्ते । भारते १४% भागः अरण्यप्रदेशः अस्ति । अरेबियादेशः मरुभूमिः अस्ति । मङ्गोलियादेशः यद्यपि मरुभूमिः तथापि तृणक्षेत्राणि विद्यन्ते । मध्य-एशिया-भागे अरण्यानि सन्ति । इण्डोचीनाप्रदेशे ५७% अरण्यं १६% तृणक्षेत्राणि सन्ति । इण्डोचीना, इण्डोनेशिया, मलेशिया, फिलिपीन्सदेशेषु नित्यहरिद्वर्णयुक्तानि, आर्द्रपर्णपातयुक्तानि, शुष्कपर्णपातयुक्तानि च अरण्यानि विद्यन्ते । 




भारतम् 
Bharat


भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे आर्यावर्ते स्थितं गणराज्यम् वर्तते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धो जनतत्न्त्रयुत‌: देश: एष: । एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्ट्इण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति । भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदानीन्तनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि. पू. २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनवायुव्यभारते अवसन् । स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते। भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । अस्य सीमा पश्चिमे पाकीस्थानेन, ईशान्ये चैना-नेपाल-भूतानदेशैः परिवृता, बर्मा बङ्ला देशौ पूर्वदिशायां स्तः। श्रीलङ्का, मालाद्वीपः च हिन्दुमहासागरे भारतस्य समीपवर्तिनौ । हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-सिक्किं -भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति । हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः पर्वतश्रेण्यः सन्ति ।




दिल्ली 
Delhi 

दिल्ली अथवा देहली भारतस्य राजधानी अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरम् इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्ग्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधानीपदमलङ्करोति । भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । हिन्दु-मुसलमान्-मोगल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य १९४७ पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेकानि वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनाकारः आसीत् । भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य सहस्रवर्षाणाम् इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयाना च राजधानीति अपि आसीत् । हिन्दुमुसलमानमोगलेत्यदयः वंशीयाः अत्र प्रशासनम् अकुर्वन् । आङ्ग्लाः अपि सा.श.१९११ तले काले देहलीनगरं राजधानीं कृत्वा सा.श.१९४७ पर्यन्तं प्रशासनम् अकुर्वन् । स्वातन्त्र्यप्राप्तेः अनन्तरकाले अद्यापि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशाना महाद्वारमिवास्ति । राजनीतिकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च । अत्र अनेक वास्तुशिल्पान्वितभवनानि सा.श.१९३०तमसमये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनकारः आसीत् ।


महाराष्ट्रराज्यम् 
Maharashtra 


महाराष्ट्रराज्यम्  भारतस्यय पश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्ति|, मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः । भारतस्य विस्तारे ९.८४% विस्तारः महाराष्ट्रराज्यस्य अस्ति । राज्यस्य पश्चिमदिशि अरबी समुद्रः वर्तते । मुम्बई महाराष्ट्रराज्यस्यस्य राजधानी, नागपुरनगरं महाराष्ट्रराज्यस्य उपराजधानी । महाराष्ट्र-राज्यं भारतस्य पश्चिमदिशि स्थितम् अस्ति । इदं राज्यं ३,०७,७१३ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । क्षेत्रफल-दृष्ट्या भारतस्य बृहत्तमेषु राज्येषु तृतीयम् अस्ति । जनसङ्ख्यादृष्ट्या च भारतस्य बृहत्तमेषु राज्येषु द्वितीयम् अस्ति । भारतस्य पश्चिमतटे स्थितः अरब-सागरः महाराष्ट्रराज्यस्य आधारभूतः अस्ति । अस्य राज्यस्य तटवर्तिक्षेत्रं ५६० किलोमीटरमितं दीर्घं, ८० किलोमीटरमितं विस्तृतं च अस्ति । तटीयमार्गस्य नाम “कोङ्कण” इति । इदं राज्यम् अरबसागर-सह्याद्रिपर्वतशृङ्खलयोः मध्ये विराजते । गोदावरी-नदी, भीमा-नदी, तापी-नदी, वैनगङ्गा, पेनगङ्गा, गिरना इत्यादयः महारष्ट्रराज्यस्य प्रमुखाः नद्यः सन्ति । नाशिक-नगरस्य समीपं त्र्यम्बकेश्वर-पर्वतः गोदवरी-नद्याः उद्गमस्थलं वर्तते । गोदावरी-नदी भारतस्य दीर्घतमासु नदीषु द्वितीया अस्ति । एवं च दक्षिणभारतस्य दीर्घतमा नदी अस्ति । भीमा-नदी कृष्णा-नद्याः प्रमुखसहायकनदीत्वेन अस्ति । भीमशङ्कर-स्थलम् भीमा-नद्याः उद्गमस्थलम् अस्ति । कृष्णा-नद्याः उद्गमः महाबलेश्वर-पर्वतस्य उपह्वरात् भवति । पूर्णा-नदी, पञ्चगङ्गा-नदी, दुधाना-नदी च कृष्णा-नद्याः सहायकनद्यः सन्ति । महाराष्ट्रराज्यस्य जनसङ्ख्या(२०११) ११२,३७४,३३३ कोटी अस्ति । भारतीयस्वातंत्र्यसङ्ग्रामे महाराष्ट्रराज्यस्य मुम्बईनगरस्य च योगदानम् अपूर्वमासीत् । काङ्ग्रेस इत्यस्य प्रथमं सम्मेलनं अत्रैव अभवत् । तथा हि महात्मागान्धीमहोदयेन ९ अगस्त १९२४ दिनाङ्के अत्रत्यगोवालियाटैङ्कतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत् । तदा समग्रः देशः रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रणीः आसीत् । यतः महात्मा फुले, राजर्षिशाहु, डॉ. आम्बेडकरमहोदयसदृशाः अग्रगण्याः समाजोद्धारकाः महाराष्ट्रराज्यमिदम् अलङ्कृतवन्तः । लोकमान्यतिलकसदृशाः अभूतपूर्वाः राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्तः । १ मे १९६० दिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृतिः राज्यमिदं प्रगतिपथे एव अस्ति ।


नेपालदेश
Nepal 


नेपाल एशिया महाद्वीपे दक्षिणे कश्चित् देश: अस्ति । नेपालस्य उत्तरे चीनदेश: अस्ति । पश्चिमे, पूर्वे एवं दक्षिणे भारत देश: अस्ति । हिमालयस्य सानुप्रदेशे स्थितं राष्ट्रं परितः भूभागेनैव आवृतम् अस्ति । नेपालस्य उत्तरे त्रिविष्टपम् (टिबेट) अस्ति। परितः विश्वस्य अत्युन्नतपर्वताः १० सन्तीति भावयामश्चेत् तेषु अष्टपर्वताः नेपाले एव सन्ति । नेपालस्य विस्तीर्णं १४१७०० च.कि.मी । जनसङ्ख्या २.७ कोटिः । राष्ट्रस्य राजधानी काष्टमण्डपः (काठमान्डु/काठमाडा) । क्रि.पू ६, क्रि.पू ५ शतके च एषः प्रदेशः शाक्यशासने आसीत् । शाक्य राजकुमारेषु एकः सिध्दार्थः गौतमः प्रापञ्चिकव्यामोहं त्यक्त्वा दिव्यं ज्ञानं प्राप्य अग्रे बुध्दः इति विख्यातः । क्रि.पू २५० समये एषः प्रदेशः उत्तरभारतस्य मौर्यसाम्राज्यस्य अङ्गमासीत् । अनन्तरं गुप्तराजाः, अनन्तरं लिच्छविराजाः अनन्तरं चालुकयाः एतस्य प्रदेशस्य उपरि अधिकारं स्थापितवन्तः । अनन्तरं एषः प्रदेशः विविधरीत्य़ा विभक्तः लघुराजैः पालितश्च । १७६५ तमे वर्षे पृथ्वीनारायण शाह इति कश्र्चन गाेर्खाराजः नेपालस्य एकीकरणं कृतवान् । भारतं यदा ब्रिटिषाधीनं आसीत् तदा नेपालस्य स्वायत्ताधिकारः आसीत्। आङ्ग्लैः सह एकस्मिन् युध्दे पराजितः चेदपि सन्धिं कृत्वा स्वायत्तताम् अरक्षत् । एतदनुसारं नेपालः स्वप्रदेशम् उत्तरखण्डं, हिमाचलप्रदेशं, सिक्किम भागं च अाङग्लेभ्यः अयच्छत् । ततः आरभ्य राजशासनमेव नेपाले आसीत् । एषु दिनेषु प्रजासत्तानिमित्तम् आन्दोलनं जातम् । बहुपक्षीया सांसदीया व्यवस्था आगता, राज्ञः अधिकारः न्यूनीकृतः । १९९१ तमे वर्षे प्रथमवारं बहुपक्षाणाम् मध्ये मुक्तनिर्वाचनं जातम् । नेपालदेशस्य पूर्वतः पाश्चिमान्तभागपर्यन्तं ८०० कि.मी भवति । दक्षिणतः उत्तरान्तपर्यन्तं २०० कि.मी भवति । तिर्यक् पट्टिकारीत्या भारतस्य उत्तरभागे अस्ति । भौगोलिकरीत्या उन्नतपर्वतप्रदेशः, लघुगिरीणां प्रदेशः, तराय् प्रदेशः च इति विभागः शक्यते । भारतसीमानिकटे गङ्गायाः समतलप्रदेशः अस्ति । एतस्मिन् प्रदेशे कोसी, नारायणी ( गण्डकी ) कर्नाली नद्यः च जलम् आनयन्ति । लघुगिरिप्रदेशे काठ्मण्डुखनिप्रदेशः अस्ति । एतस्य देशस्य अत्यधिकजनाः अत्र वसन्ति । एतस्मिन् प्रदेशे महाभारतलेख् शिवालिकपर्वतश्रेणयः च सन्ति । एताः पर्वतश्रेणयः मध्यमस्तरीयाः सन्ति । एतासामौन्नत्यं १००० मीटरतः ४००० मी पर्यन्तम् अस्ति ।



नेपालदेश
Nepal 


नेपाल एशिया महाद्वीपे दक्षिणे कश्चित् देश: अस्ति । नेपालस्य उत्तरे चीनदेश: अस्ति । पश्चिमे, पूर्वे एवं दक्षिणे भारत देश: अस्ति । हिमालयस्य सानुप्रदेशे स्थितं राष्ट्रं परितः भूभागेनैव आवृतम् अस्ति । नेपालस्य उत्तरे त्रिविष्टपम् (टिबेट) अस्ति। परितः विश्वस्य अत्युन्नतपर्वताः १० सन्तीति भावयामश्चेत् तेषु अष्टपर्वताः नेपाले एव सन्ति । नेपालस्य विस्तीर्णं १४१७०० च.कि.मी । जनसङ्ख्या २.७ कोटिः । राष्ट्रस्य राजधानी काष्टमण्डपः (काठमान्डु/काठमाडा) । क्रि.पू ६, क्रि.पू ५ शतके च एषः प्रदेशः शाक्यशासने आसीत् । शाक्य राजकुमारेषु एकः सिध्दार्थः गौतमः प्रापञ्चिकव्यामोहं त्यक्त्वा दिव्यं ज्ञानं प्राप्य अग्रे बुध्दः इति विख्यातः । क्रि.पू २५० समये एषः प्रदेशः उत्तरभारतस्य मौर्यसाम्राज्यस्य अङ्गमासीत् । अनन्तरं गुप्तराजाः, अनन्तरं लिच्छविराजाः अनन्तरं चालुकयाः एतस्य प्रदेशस्य उपरि अधिकारं स्थापितवन्तः । अनन्तरं एषः प्रदेशः विविधरीत्य़ा विभक्तः लघुराजैः पालितश्च । १७६५ तमे वर्षे पृथ्वीनारायण शाह इति कश्र्चन गाेर्खाराजः नेपालस्य एकीकरणं कृतवान् । भारतं यदा ब्रिटिषाधीनं आसीत् तदा नेपालस्य स्वायत्ताधिकारः आसीत्। आङ्ग्लैः सह एकस्मिन् युध्दे पराजितः चेदपि सन्धिं कृत्वा स्वायत्तताम् अरक्षत् । एतदनुसारं नेपालः स्वप्रदेशम् उत्तरखण्डं, हिमाचलप्रदेशं, सिक्किम भागं च अाङग्लेभ्यः अयच्छत् । ततः आरभ्य राजशासनमेव नेपाले आसीत् । एषु दिनेषु प्रजासत्तानिमित्तम् आन्दोलनं जातम् । बहुपक्षीया सांसदीया व्यवस्था आगता, राज्ञः अधिकारः न्यूनीकृतः । १९९१ तमे वर्षे प्रथमवारं बहुपक्षाणाम् मध्ये मुक्तनिर्वाचनं जातम् । नेपालदेशस्य पूर्वतः पाश्चिमान्तभागपर्यन्तं ८०० कि.मी भवति । दक्षिणतः उत्तरान्तपर्यन्तं २०० कि.मी भवति । तिर्यक् पट्टिकारीत्या भारतस्य उत्तरभागे अस्ति । भौगोलिकरीत्या उन्नतपर्वतप्रदेशः, लघुगिरीणां प्रदेशः, तराय् प्रदेशः च इति विभागः शक्यते । भारतसीमानिकटे गङ्गायाः समतलप्रदेशः अस्ति । एतस्मिन् प्रदेशे कोसी, नारायणी ( गण्डकी ) कर्नाली नद्यः च जलम् आनयन्ति । लघुगिरिप्रदेशे काठ्मण्डुखनिप्रदेशः अस्ति । एतस्य देशस्य अत्यधिकजनाः अत्र वसन्ति । एतस्मिन् प्रदेशे महाभारतलेख् शिवालिकपर्वतश्रेणयः च सन्ति । एताः पर्वतश्रेणयः मध्यमस्तरीयाः सन्ति । एतासामौन्नत्यं १००० मीटरतः ४००० मी पर्यन्तम् अस्ति ।



केदारनाथ
Kedarnath


केदारनाथ-ज्योतिर्लिङ्गं द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् अस्ति । एतदेकं प्राचीनं शिवक्षेत्रम् । हिमालये केदारनाथः यत्र अस्ति तं भागं "रुद्रहिमालयः” इति वदन्ति । अयं पर्वतः "सुमेरुपर्वतः” "पञ्चपर्वतः” इत्यपि उच्यते । अत्र रुद्रहिमालयः, विष्णुपुरी, ब्रह्मपुरी, उद्गरिकान्ता, स्वर्गारोहणम् इति पञ्च पर्वताः सन्ति । अतः एव अस्य नाम "पञ्चपर्वतः” इति । गन्धमादनः रुद्रहिमालयस्य कश्चन भागः । नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति। अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । वेदव्यासमहर्षिः अत्र स्थितवान् । श्री शङ्कराचार्यः अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मध्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकिलोमीटरमिेते दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । हृषीकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनाथक्षेत्रं गन्तुं शक्यते । एतत् हृषीकेशतः २४० किलोमीटरमिेते दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति ।



गङ्गानदी
Ganga Nadi


गङ्गा नदी दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी| भागीरथी उत्तराञ्चले हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति अलकनन्दाम् संयाति। देवप्रयागात् एव सा गङ्गा इति कथ्यते। प्रयागे यमुना गङ्गया संयाति। ततः सा उत्तरभारते सृत्वा वङ्गोपसागरं प्राप्नोति। तस्य वितरकनद्यः हूग्ळीपद्मादयः। वङ्गोपसागरस्य समीपे सुन्दरवनम् अस्ति। तत् व्याघ्राणां प्रमुखं निवासस्थलम् अस्ति।गङ्गायां द्विविधौ शिशुमारौ(मत्स्यविशेषः) स्तः। तौ गङ्गाशिशुमारः इरावतीशिशुमारः च। गङ्गायां केचन विरलाः कुम्भीराः(मकराः)  अपि वसन्ति। हैन्दवाः गङ्गादेवीं माता इव पूजयन्ती| गङ्गायाः तीरे अनेके हरिद्वार-काश्यादीनि पवित्राणि तीर्थस्थलानि सन्ति। गङ्गास्नानं सर्वाणि पापानि अपहरति मोक्षमपि ददाति इति जनाः मन्यन्ते। श्रद्धावन्तः हैन्दवाः गङ्गास्नानं कर्तुं यात्रां कुर्वन्ति। तस्याः तीरे अपि तपः कुर्वन्ति | एकदा ब्रह्मा विष्णुपादधूलिं संयोज्य गङ्गाम् निर्माति स्म। अत एव गङ्गा अति पवित्रा। भारतदेशः प्रकृतिसम्पदा समृद्धः अस्ति । वयम् अत्र प्रकृतिं पञ्जमहाभूतानि इति कथयामः। ये अस्माकम् उपकारं कुर्वन्ति तेषां कृतज्ञता समर्पणम् अस्माकं कर्तव्यं भवति । तथैव जलं वायुः अग्निः इत्यादयः अस्मान् निरन्तरम् उपकुर्वन्ति अतः तान् देवत्वेन भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं समर्पयामः । एतादृशस्य पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः । तासु महानदीषु अन्यतमा भागीरथी त्रिपथगा जाह्नवी इति कथ्यमाना नदी गङ्गा । प्राचीनकाल‌ात् अस्माकं देशे पवित्रभावनयापूज्यमाना एषा नदी इदानीं प्रदूषिता अस्ति । भारतीयसर्वकारेण गङ्गायाः पुनः शुद्धीकरणार्थं कोट्याधिकं धनं व्ययितम् । सा परियोजना इदानीमपि चलन्ती अस्ति । किन्तु यावत् वयम् आधुनिकाः नागरिकाः मानवाः जागरिताः न भवेम तावत् समस्या भवति एव । गङ्गनदीतीरप्रदेशे विद्यमानानां यन्त्रागाराणां स्वामिनः अशुद्धजलं शुद्धीकृत्य त्यजेयुः । सार्वजनिकाः व्यर्थवस्तूनि नद्यां न प्रक्षिपेयुः । नगरीकरणानाम् अथवा अन्यव्याजेन अरण्यनाशः न सहनीयः । एतेषां रक्षणार्थं प्रशासनेन नियमाः करणीयाः अनुष्ठाने च गभीरक्रमः पालनीयः भारतसर्वकारेण । एवं चेत् अस्माकं परमपावनी गङ्गा पुण्यनदी रूपेण तिष्ठेत् ।




उत्तराखण्डराज्यम्
Uttarakhand







उत्तराखण्डराज्यं  (हिन्दी: उत्तराखण्ड राज्य, आङ्ग्ल:  भारतीय राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य २००० तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । उत्तरप्रदेशराज्यस्य रचनार्थं हिमालयपर्वतप्रान्तस्य, उत्तराखण्डराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशः अस्ति । अस्य राज्यस्य नाम २००७ तमे संवत्सरे 'जनवरी'-मासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम् । राज्यस्य उच्चन्यायालयः नैनिताल् नगरे अस्ति । अस्मिन् राज्ये विभागद्वयं भवति गढवाल तथा कुमाऊं इति । अस्मिन् राज्ये १३ मण्डलानि सन्ति । गढवालविभागे चमोलीमण्डलं, देहरादूनमण्डलं, हरिद्वारमण्डलं, पौडीगढवालमण्डलं, रुद्रप्रयागमण्डलं, टिहरीगढवालमण्डलं, उत्तरकाशीमण्डलं चास्ति । कुमाऊंविभागे अल्मोडामण्डलं, बागेश्वरमण्डलम्, नैनितालमण्डलं, पिथौरागढमण्डलं, चम्पावतमण्डलम्, उधमसिंहनगरमण्डलं चास्ति । राज्यस्य मुख्यराजभाषा हिन्दी, उपराजभाषा संस्कृतभाषा चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः ५१,१२५ चतुरस्रकि.मी अस्ति । जनसंख्या ८५ लक्षमस्ति । देहरादून-हरिद्वार-नैनिताल-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य ९२.५७% भागः पर्वतीयः अस्ति । ६३% भागः अरण्यप्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः नन्दादेवी (७८१६ मी.), बदरीनाथः(७१४० मी.), चौखम्बा(७१३८ मी.) तथा त्रिशूल्(७१२० मी.) सन्ति । प्राचीनहिन्दूग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । वेदकाले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन् । तस्मिन् काले ॠषीणां, साधूनाञ्च इष्टतमं स्थानम् आसीदेतत् । व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतकाव्यं रचितवान् इति प्रतीतिः अस्ति । अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा पाण्डवैः इति जनानां विश्वासः । 


यमुनानदी
Yamuna Nadi



यमुना दक्षिणेशियामहाद्वीपे भारतदेशे एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता हिमालये कलिन्दपर्वतात् उत्पद्यते।सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् उत्तराखण्डराज्यस्य उत्तरकाशीमण्डलस्य यमुनोत्री इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य उत्तरप्रदेशस्य इलहाबाद् प्रयागः इत्यत्र गङ्गानद्या मिलति । एषा नदी उत्तराखण्ड-हरियाणा-देहली-उत्तरप्रदेशराज्यानां मार्गेण प्रवहति । देहली मथुरा आग्रा इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः चम्बल्, बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति । सा सूर्यपुत्री यमस्य स्वसा च। यमुना कूर्मवाहिनी अस्ति। पूर्वं कदाचित् यमुनानदी घग्गरनद्याः उपनदी आसीत् इति उल्लीखाः प्राप्ताः सन्ति । अग्रे कदाचित् उत्तरभारते जातानां भूस्तराणाम् चलनकारणतः एषा स्वस्य पात्रं परिवर्त्य गङ्गया मिलति । पुराणाम् आधारेण सा सूर्यस्य पुत्री यमस्य स्वसा च। विवस्वतः(सूर्यस्य) सञ्जनायाः च पुत्री । यमुनानद्या निर्मिते कल्किद्वीपे एव महाभारतस्य वेदव्यासस्य जन्म अभवत् । यमुनानद्याः अञ्जलिमात्रेन जलेन सोमयागः सम्पन्नः इति कथा श्रूयते । मथुरा-वृन्दावनयोः वहन्ती यमुना श्रीकृष्णस्य लीलानां साक्षीभूता तिष्ठति । यमुनां जमुना इत्यपि आह्वयन्ति । प्रसिद्धः इतिहासकारः टालेमी एतां द् यामौन् इति आहूतवान् अस्ति । लीनी जोमान्स् इति, अरियन् जोबेर्स् इति च आहूतवन्तौ स्तः । देवप्रयागतः गङ्गायमुनयोः सङ्गमस्थानं प्रायागं यावत् विद्यमानः भूभागः अन्तर्वेदी, शासस्स्थली, ब्रह्मावर्तः इत्यादिभिः नामभिः प्रसिद्धः दृश्यते ।


राजस्थानराज्यम्
Rajasthan



राजस्थानराज्यं भारतस्‍य विशालतमं राज्यम् अस्ति । इदं भारतस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव मौण्ट् अबु, दिल्वारा इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । रणथम्बोर, सारिस्का मृगधाम, भरतपुरपक्षिधाम इत्यादीनि राज्यस्यास्य प्रसिद्धानि वीक्षणीयस्थलानि । राज्येऽस्मिन् बहूनि पक्षिसंरक्षणाकेन्द्राणि सन्ति । तेषु संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।राजस्थानस्य प्रमुखभागेषु प्राक् मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन् । गुजरातराज्यं तथा राजस्थानस्य अधिकभागः 'गुर्जरात्र/गुज्जर'-नामकैः गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि यावत् गुर्जरशासकाः उत्तरभारतं यवनशासकेभ्यः रक्षितवन्तः आसन् । तदनन्तरं रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनम् आरब्धवन्तः । वंशस्य अथवा प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे पाकिस्तानदेशः, पञ्जाबराज्यं, हरियाणाराज्यञ्च अस्ति । दक्षिणे मध्यप्रदेशराज्यं, गुजरातराज्यञ्च अस्ति । पूर्वे उत्तरप्रदेशः, मध्यप्रदेशश्च अस्ति । पश्चिमे पाकिस्तानदेशः अस्ति । सिरोही-तः आलवार गमनमार्गे ४८० कि. मी. विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभाजति । राज्यस्य पश्चिमभागे विद्यमाना 'थार' मरुभूमिः समग्रे भारते विशालतमा मरुभूमिः अस्ति । अस्मिन् भागे १२ से. मी. तः ३० से. मी. वृष्टिः भवति । अस्मिन् भागे लूनी, बाण्ड्यादिनद्यः प्रवहन्ति । राज्येऽस्मिन् ३.४२ लक्षवर्ग कि. मी. परिमिता भूमिः अस्ति । भारतस्य बृहत्तमं राज्यम् इदम् ।



पशव

Animal 


पशवः जीविनः वर्तन्ते। ते स्वभोजनं रचयितुं न शक्नुवन्ति। अतः ते अन्यान् पशून् पादपान् अथवा गोलासान् भक्षयन्ति। केचन पीठमर्दाः(नायकस्य साहय्यका:) अपि सन्ति। अस्मिन् जगति अनेकाः पशुजातयः सन्ति। केचन पशवः विशालाः केचन लघवः सन्ति। केचन पशवः जलवासिनः सन्ति। केचन पशवः उड्डयनॆ समर्था:| शाकभक्षकाः पादपान् खादन्ति। मांसभक्षकाः अन्यान् पशून् भक्षयन्ति। उभयभक्षकाः पशून् पादपान् च खादन्ति। 


केचन पशवः सङ्गे वसन्ति। अन्ये पशवः एकचारिणः सन्ति। भ्रमराः करण्डे वसन्ति। तेषां नेत्री भ्रमर-राज्ञी इति कथ्यते।

लोकेSस्मिन् विविधाः पशवः सन्ति। तान् यथावर्गं रचयितुम् शक्नुमः। तेषु द्वौ प्रमुखौ वर्गौ स्तः अस्थिमन्तः अनस्थिमन्तः च। कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति। अस्थिमत्सु पञ्चवर्गाः सन्ति। ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च।




नदी की आत्मकथा 
Nadi ki Atmakatha


नदी इति नैसर्गिको जलमार्गः भवति, प्रायेणैतत् जलं मृदुजलं भवति। जलमेतत् महासागरं प्रति, कासारं प्रति, समुद्रं प्रति अथवा अन्यां काञ्चित् नदीं प्रति प्रवहद्भवति। केषुचिच्च प्रकरणेषु, नदी तु धरातलस्य अन्तरे गच्छति, अथवा अन्यं किञ्चित् जलाशयं अप्राप्यैव शुष्यति। नदी इत्यस्य भौगोलिकपदस्य प्रयोगार्थं आधिकारिकपरिभाषा न विद्यते। यद्यपि केषुचित् देशेषु समुदायेषु वा धारायाः आकारमनुसृत्य तेषां परिभाषाः भवन्ति। नद्यस्तु जलचक्रस्य भागभूताः। नद्याः जलं तु अपवाहक्षेत्रवर्तिना अवक्षेपणेन (प्रायेण वर्षा इत्याख्यम्) सङ्गृहीतं भवति।एतस्य संग्रहणं तु धरातलीयप्रवाहेन, भूजलारोपणेन, जलोत्स्रुतेन, नैसर्गिकहिमाद् हिमपुटेभ्यो वा भण्डारितजलस्य मोचनेन भवति (यथा हिमानीभ्यः)। नदीशास्त्रं तु आङ्ग्लभाषायां पोटॅमोलॉजी इत्युच्यते सर्वसामान्यानां धरामध्यवर्तिजलानाम् अध्ययनं तु आङ्ग्लभाषायां लिम्नोलॉजी इत्युच्यते।


सूर्य
Sun 


सूर्यः किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिष्शास्त्रदृष्ट्या अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव। सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । भूमेःविस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।




शुक
Parrot



कश्चन पक्षी अस्ति । सामान्यतः उष्णवलयेषु उपलभ्यते । शुकः सिट्टसिफोर्म्स् वर्गे अन्तर्भूतः एकः पक्षी | शुकेषु सामान्यतया ३५० विधाः जातयः सन्ति । एते सामान्यतया उष्णवलयप्रदेशे भवन्ति । शुकानां कुटुम्बस्य भागद्वयं कृतम् अस्ति । सिट्टिसीडे (नैजशुकः) तथा ककाटुय्डे इति कुटुम्बद्वयम् अस्ति । समग्रे उष्णवलये तथा दक्षिण- समशीतोष्णवलये अपि शुकाः दृश्यन्ते । अधिकप्रभेदाः दक्षिणामेरिकाभूखण्डे ,आस्ट्रेलियाभूखण्डे एशियाभूखण्डे च सन्ति ।शुकाः शक्तियुक्तवक्रचञ्चूमन्तः भवन्ति ।, साक्षात् स्तिथिः, बलयुतौ पादौ च भवतः । अधिकतया शुकाः हरिताः भवन्ति । कतिचन वंशीयाः इतरैः प्रकाशमानवर्णैः युक्ताःसन्ति चेत् अन्ये केचन मिश्रवर्णीयाः भवन्ति ।शिरसः उपरि पिच्छानां किरीटं भवति । अधिकतया शुकाः आजीवनम् एकेन एव उत्सङ्गिना सह जीवन्ति। अति लघु शुकः३.२अङ्गुलं यावत् दीर्घः,१० ग्रामभारयुक्तः च भवति । बृहत् शुकः३.३पादमितःदीर्घः तथा चत्वारि किलोग्रां यावत् भारयुक्तः भवति । एवं पक्षिसङ्कुलेषु देहप्रमाणे अत्यधिकं वैविध्यं शुकेषु द्रष्टुं शक्यते ।कानां आहारः नाम बीजानि, फलानि, मुकुलानि अन्यसस्यजन्यवस्तूनि भवन्ति । सामान्यतया बीजानि शुकानां प्रमुखः आहारः । बीजं स्वस्य चञ्च्वा दष्ट्वा अन्तः विद्यमानं सारं शुकाः बहु सुलभतया निष्कासयितुं शक्नुवन्ति । बृहत् गात्रस्य बीजं चेत् स्वस्य पादस्य अधोभागे दृढं संस्थाप्य भञ्जयति । दक्षिण-अमेरिकाभूखण्डे तथा आस्ट्रेलिया-एशियाखण्डयोः दृश्यमाणानां शुकानां वैविध्यकारणतः एते मूलतः गोण्ड्वानावंशजाः इति ज्ञायन्ते । ७ कोटिवर्षपूर्वतनः यः शुकस्य अस्थिपञ्जरस्य अवशेषः प्राप्तः अस्ति सः एव अत्र प्रमाणम् । कोक्याटु-जातीयाः शुकाः सुलभतया अभिज्ञातुं शक्याः । शुकः जगतः उष्णवलयप्रदेशे तथा दक्षिणसमशीतोष्णवलये च दृश्यन्ते । प्रमुखतया आस्ट्रेलिया, एशिया, भारतम्, शान्तसागरस्य द्वीपाः, आग्नेय-एशिया, उत्तर-अमेरिकाभूखण्डस्य दक्षिणभागाः, दक्षिणामेरिका तथा आफ्रिका इत्यादिषु भूभागेषु अधिकतया दृश्यन्ते ।काँश्चन अपवादान् विहाय सामान्यतया शुकः एकेनैव उत्सङ्गिना सह जीवति । तयोः मध्ये गाढबान्धव्यं भव्अति । सर्वदा युगलरूपेण एव तिष्टतः। सन्तानोत्पत्तिः तथा वासः वृक्षस्य कोटरे एव भवति ।बन्धने स्थापितानां केषाञ्चन शुकानां विषये कृतेन अध्ययनेन अनेके कौतुकयुताः विषयाः ज्ञाताः सन्ति । सर्वसामान्यः अंशः नामा शुकः मानवध्वनिं अनुकरोति । केचन शुकाः पदस्य अर्थसहितयोजने समर्थाः भवन्ति। अपि च सरलवाक्यानि वक्तुं शक्नुवन्ति । काकः, रावेन् जे इत्यादिभिः पक्षिभिः सह शुकः अपि अतिबुद्धिशाली पक्षी इति प्रसिद्धः अस्ति । 




मयूर
Peacock



मयूरः सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव 'मयूरयष्टिः' इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।एषः मयूरः स्कन्दस्य (कुमारस्वामिनः/षण्मुखस्य) वाहनम् । केचन एनं सरस्वत्याः अपि वाहनमिति कथयन्ति । मयूरस्य केकी , भुजङ्गभुक् , शिखी , नीलकण्ठः इत्यादीनि नामानि सन्ति । मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं 'जातीयसमैक्यं' सूचयति । तस्मात् मयूरः 'जातीयविहङ्गः' इति निर्णीतः । मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान् तदा सः मयूराणां सौन्दर्यं दृष्ट्वा नितरां व्यामुग्धः सन् ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान् आसीत् इति श्रूयते । संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति बर्ही इति एतस्य बर्हे नेत्ररुपाः आकाराः बहवः भवन्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः नीलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तः मयूरः पक्षिजातिषु एव सुन्दरतमः । मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्रयुक्ताताभ्रमः जायते प्रतिवर्षं मयूरस्य पुच्छस्य पिञ्छाः पतन्ति , नूतनाः उत्पद्यन्ते च । तान् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तिना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम् । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मयूरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्रीकृष्णः स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।


आम्रम्
Mango



एतत् आम्रफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् आम्रफलम् अपि सस्यजन्यः आहारपदार्थः । इदं आम्रफलम् आङ्ग्लभाषायां  इति उच्यते । एतत् आम्रफलम् अकृष्टपच्यम् अपि । आम्रफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् आम्रफलम् अपि बहुविधं भवति । अयम् आम्रः (म्याङ्गिफेर इण्डिक) प्रपञ्चस्य सर्वेषु उष्णवलयप्रदेशेषु व्यापकतया दृश्यमानः वृक्षः । एतस्य दारु अपेक्षया फलमेव प्रसिद्धम् । एतस्मिन् ३० अपेक्षया अधिकाः वंशाः प्रचलिताः सन्ति । भारते आम्रकृषिः सामान्यतया ४००० वर्षेभ्यः अस्ति । सामान्यतया १७, १८ शतके यूरोप्-वणिजः एतत् आम्रफलम् उष्णवलयदेशेषु प्रसारितवन्तः । आम्रः अनकार्डियेसे कुटुम्बे अन्तर्भवति । एतस्य सस्यकुलं म्याङ्गिफेर अस्ति । भारते व्यापकस्य वंशस्य सस्यनाम ‘म्याङ्गिफेर इण्डिक’ इति । आम्रः बृहत्प्रमाणस्य नित्यहरिद्वर्णः वृक्षः । गाढहरितवर्णस्य सान्द्रपर्णानि भवन्ति । आर्द्रभूमौ मिश्रपर्णपाति , अर्धनित्यहरिद्वर्ण  अरण्येषु सम्यक् वर्धन्ते । एतेषु वनेषु वर्धमानः आम्रः सामान्यतया ६० पादोन्नतः भवति । एतस्य दारुः मृदुः इति कारणेन काष्ठकार्ये सरलं भवति चेदपि अधिककालं न जीवति । अयम् आम्रः पुटकाष्ठस्य निर्माणे, कस्यचित् तात्कालिक-उपयोगकार्याय, फलकनिर्माणे च उपयुज्यते । अस्य आम्रस्य “कसि” कृताः अनेके वंशाः केवलं रुचिनिमित्तं भवन्ति । आम्रफलम् अत्यन्तं रुचिकरम् इत्यनेन प्रपञ्चे सर्वत्र जनाः एतद् फलम् इच्छन्ति ।




वटवृक्ष
Banyan


वटवृक्षः कश्चित् महावृक्षः भवति । अस्य न्यग्रोधः इत्यपि नाम अस्ति । एतत् भारतस्य राष्ट्रवृक्षः । आङ्ग्लभाषया इति कथयन्ति । प्राचीनकाले अस्य वृक्षस्य अधः वनिजः (बनिया=हिन्दुवणिजः) वाणिज्यव्यवहारन् कुर्वन्ति स्म । अतः अस्य आङ्ग्लभाषया एतत् नाम आगतम् । अयं बृहत्प्रमाणे वर्धमानः वृक्षेषु अन्यतमः । जगतः अतिबृहद्वटवृक्षः कोल्कोतानगरे अस्ति । अयं वटवृक्षः भारते सर्वत्र वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः पुराणानां कालात् अपि परमपवित्रः इति परिगण्यमानः अस्ति । अश्वत्थवृक्षः इव अयं वटवृक्षः अपि पूज्यते । तथैव औषधीयसस्यत्वेन अपि परिगण्यते अयम् । वटवृक्षः अत्यन्तं विशालः वृक्षः । अस्य वृक्षस्य त्वक्, पर्णं, मूलं, फलं, रसः चापि औषधत्वेन उपयुज्यन्ते । अस्य त्वचि “ट्यानिन्” नामकः रासायनिकः पदार्थः अस्ति । अस्य वटवृक्षस्य “बहुपादः” इत्यपि नाम अस्ति । अयं वटवृक्षः आङ्ग्लभाषया“ब्यानियन् ट्री” इति उच्यते । सस्यकुले अयं  कुले अन्तर्भवति । अयं हिन्दीभाषया“बड्” इति, तेलुगुभाषया“मरिचेट्टु” इति, तमिळ्भाषया “आलमरम्” इति, मलयाळभाषया“वटम्” इति, कन्नडभाषया “आलद मर” इति च उच्यते । विशालभ्यः अस्य शाख्याभ्यः मूलानि निस्सृत्य भूमौ सुरूढाः भूत्वा स्वयं काण्डत्वम् आप्नुवन्ति । एवमेव प्रहलप्रदेशपर्यन्तं व्याप्नोति । अस्य पत्राणि घणानि स्फुरणानि च भवन्ति । अस्मिन् महावृक्षे फालानि लघूनि पक्षिप्रियाणि सम्भवन्ति किन्तु पुष्पाणि न भवन्ति इति विशेषः । अयं श्लोकः वृक्षस्य गरिमां सूचयति । अयं वटवृक्षः अत्यन्तं विशालः वृक्षः । तस्मात् सः वृक्षगणे अन्तर्भवति । औषधीयानां गुणानां कारणात् औषधीयानां सस्यानां गणे अपि अन्तर्भवति । अस्य वटवृक्षस्य रसः कटुः तथा च कषायः । अयं रूक्षः, शीतगुणयुक्तः च । १. अस्य वटवृक्षस्य रसः कण्ठवेदनां, व्रणं, गुल्फछेदनं, दन्तवेदनां, दन्तपाल्याः वेदनां च निवारयति । २. अस्य वटवृक्षस्य त्वचा निर्मितं चूर्णं १ ग्रां यावत् १० ग्रां मिते जले संयोज्य निर्मितं कषायं मधुमेहरोगिणां हितकरम् । ३. तदेव कषायं महिलानां श्वेतस्रावस्य क्षलनार्थम् अपि उपयुज्यते । ४. अस्य वटवृक्षस्य पर्णस्य उपरि तैलं लेपयित्वा तत् उष्णीकृत्य पिटकानाम् उपरि स्थापनेन पिटकाः बहुशीघ्रम् अपगच्छन्ति ।




निम्ब
Neem ka Pedh


अयं निम्बवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अयं बहूपयोगी वृक्षः इत्येव प्रसिद्धः अस्ति । युगादिपर्वणः अवसरे निम्बगुडस्य सेवनं परम्परानुगुणं प्रवर्तते भारते । अयं वृक्षः समतलभूमौ वर्धते । यत्र अधिका वृष्टिः जायते तत्र अयं वृक्षः न वर्धते । कासाराणां, तडागानां, सरोवराणां वा तीरे समृद्धरूपेण वर्धते अयं निम्बवृक्षः । अस्य वृक्षस्य सर्वाङ्गानि अपि औषधत्वेन उपयुज्यन्ते । अस्य पर्णाणि संयुक्तगात्राणि । अयं वृक्षः सदा हरिद्वर्णीयः । अस्य पर्णानाम् अञ्चलः (अन्तिमभागः) क्रकचः इव तीक्ष्णः भवति । अस्य निम्बवृक्षस्य त्वक् कपिलवर्णीयं भवति । पर्णानां कक्षे पुष्पाणां गुच्छं भवति । पुष्पाणि मधुगन्धयुक्तानि, श्वेतवर्णीयानि च भवन्ति । मार्चमासतः मेमासाभ्यन्तरे पुष्पाणि जायन्ते । सेप्टेम्बर्-तः नवेम्बर्-मासाभ्यन्तरे फलानि वर्धन्ते । फलानि मन्दपीतवर्णीयानि । अस्मिन् एव अवधौ बीजानां सङ्ग्रहणम् अपि प्रचलति ।अयं निम्बवृक्षः आङ्ग्लभाषया इति उच्यते । हिन्दीभाषया “नीम” इति, बङ्गभाषया "निम्" इति, तेलुगुभाषया “वेपचेट्टु” इति, तमिळ्भाषाया “वेम्बु” इति, मलयाळभाषया “वेप्पु” इति, कन्नडभाषया “बेवु” अथवा “कहिबेवु” इति उच्यते ।


सिंह
Lion



सिंहःपशुः वनवासी पशुः अस्ति।सिंहः ग्रामे न वसति, किन्तु वने । अरण्यवासिनां गजशार्दूलवराहादीनां मध्ये सिंहः शूरः गम्भीरः बलिष्ठश्च । अनुपमपराक्रमेण सः सर्वान् मृगान् अतिशेते । अत एव तस्य 'मृगराजः’ इति प्रसिद्धिः अस्ति पराक्रमे सिंहाः लोकसिद्धाः । अनेन कारणेन वीरपुरुषान् सिंहाः इति प्रशंसन्ति ।सिंहस्य शिरसि कण्ठे च केसराः सन्ति । तस्मात् तस्य ‘केसरी’ इति अपरं नाम । तस्य आस्यम् अतीव विस्तृतम् । तेन कारणेन तं पञ्चास्यः इति च व्यवहारन्ति । सिंहस्य लोचने पिङ्गलवर्णे स्तः । तस्य अतिदीर्घाः निशिताः नखाः परुषाः दन्ताश्च सन्ति । केसरिणः न सर्वेषु देशेषु निवसन्ति । आफ्रिकाखण्डे ते प्राचुर्येण सञ्चरन्ति । इदानीं गुजरात् -राज्यस्य दक्षिणप्रान्तारण्येषु च वसन्ति । मृगराजः प्राधान्येन गजस्य कुम्भस्थलं भित्त्वा तत्रस्थं मांसं भक्षयति । सः वने स्थितान् इतरानपि मृगान् ह्त्वा खादति । तदा तदा सः तारं गर्जति । तत् भीकरगर्जनं श्रुत्वा मृगाः इतस्ततः धावन्ति । तत्समये सिंहः तेषामुपरि निपत्य तान् संहरति । यदा तस्य आहारः आवश्यकः तदा एव सः मृगान् व्यापादयति। प्रायशः आहारमलभमानः सिंहः सर्वावयवान् स्तब्धीकृत्य भूमौ पतित्वा मृत इव नाटयति । मृगाः तथास्थितं तं मृतं मन्यमानाः तस्य समीपे निशशङ्कां चरन्ति । सिंहः सहसा उत्थाय स्व्समीपमागतं मृगं गृह्णाति । एवं मृगोन्द्राः स्वबुद्धिचातुर्येण आहारं सम्पादयन्ति । उद्यमेन हि सिध्यन्ति कार्याणि न मनोरयैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥



गज
Elephant


मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः । अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव स्थूलानि । अस्य पादाः स्तम्भाः इव अतीव स्थूलाः । कर्णौ शूर्पे इव अति विशालौ । नेत्रे तु ल्घ्वाकारकौ । तथापि सः सूक्ष्माण्यपि वस्तूनि द्रष्टुं शक्नोति | करी शाकाहारी । गजस्य शरीरं विशालं, धूसरवर्णञ्च । सहजसाधुरयं गम्भीरस्वभावः । गमनं तु प्रायः मन्दं भवति । गजस्य रवः घीङ्कारः इत्युच्यते । सामूहिकस्वेच्छाजीवनं, दीर्घकालपर्यन्तं स्नानकरणञ्च गजानाम् अभीष्टम् । यः हस्तिनं चालयति सः हस्तिपकः इति कथ्यते । राजानः गजान् आरुह्य विहरन्ति स्म । मृगयार्थम् अपि गच्छन्ति स्म । युद्धेषु गजसेनायाः प्राधान्यम् आसीत् । गजानां दन्तैः विविधानि पेटिकादीनि वस्तूनि कुर्वन्ति ।




पक्षिण
Bird 


पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् वा भक्षयन्ति। विश्वेस्मिन् डिण्डिमपक्षी लघुतमः अस्ति। तेषां रूक्षः चञ्चुः अस्ति। ते विभिन्नवर्णीया: भवन्ति। कोकिलादयः पक्षिणः मधुरम् गायन्ति । ते नीडेषु वसन्ति।


गौ

Cow



भारतीयानां श्रद्धाबिन्दुषु गौ: एकं महत्त्वपूर्णं स्थानम् अलङ्करोति । भारतीया: गा: मातृत्वेन पश्यन्ति, पालयन्ति च । न केवलं दुग्धदातृत्वेन गवां मातृत्वम् । बहुविधदिव्यगुणानां निलय: भवति गौ: । गवि गव्ये च दिव्यत्वम् अस्ति । तादृशगाव: दुग्धदानयन्त्राणि नैव । ता: राष्ट्रसौभाग्यदायिन्य: । परोपकारगुणेन गोतुल्यजन्तु: नान्य: अस्ति भूतले ।वीथीषु अटन्ती लब्धेन तृणेन, पर्णेन अवकरेण वा, मानवेन अनावश्यकम् इति त्यक्तेन पदार्थेन वा स्वोदरं प्रपूर्य परेद्यवि अमृतसदृशं क्षीरं ददाति गौ: । गोक्षीरं, तदुत्पन्नानि, गोमूत्रं, गोमयम् - एवं गव्यं सर्वमपि समाजपोषकं भवति । ‘गो - उत्पन्नानि’ सम्पद्वृद्धिकराणि । उक्तं च - ‘‘धेनु: सदनं रयीणम् ।’’ (गो: सम्पदां निलय:) इति । प्राचीनकाले समाजस्य सुखसम्पद: स्तरं गणयितुं तत्रत्या: गाव: प्रमाणम् आसन् । धार्मिककार्यक्रमेषु अन्नदानसन्दर्भे सर्वप्रथमं गवे भोजनं दत्त्वा - ‘‘गावो मे मातर: सन्तु पितर: सन्तु गोवृषा: ।गोषु भारतीयगवां स्वभावे किञ्चिद् वैशिष्ट्यमस्ति । भारतीय




पुष्पाणि
Flower


पुष्पाणि अथवा कुसुमानि वृक्षाणां लतानां वा सन्तानसंवर्धकानां बीजानाम् निर्माणस्य मूलानि भवन्ति । लोके कुसुमानि सर्वजनप्रियाणि तेषां क्वचित् सौन्दर्येण क्वचित् सुगन्धेन क्वचित् उभयाभ्यां च । पुष्पाणि सस्यानां बीजोत्पादनस्य प्रक्रियायाः परागस्पर्शः गर्भीकरणस्य मूलस्थानं भवन्ति।पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।पुष्पाणि सपुष्पकाणां पुनरुत्पादनसाधनानि सन्ति।




जलम्
Water


जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते । अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते । जलम् एकं चक्रीयसंसाधनं वर्तते । पौनःपुन्येन जलस्य उपयोगः क्रियते । अस्मिन् जलचक्रे जलं महासागरतः धरातलं, धरातलतः महासागरं प्राप्नोति । इदं चक्रं सततं कार्यरतम् अस्ति । पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते । जलस्य वितरणं पृथिव्याम् असमानम् अस्ति । केषुचित् क्षेत्रेषु जलम् अधिकमात्रायां प्राप्यते ।




महाभारतम् 
Mahabharata


महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्म-अर्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव। प्रथमं महाभारतम् इतिहासः पुराणम् आख्यानकञ्चेति नामभिः आख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम् धर्मार्थकाममोक्षाख्यचतुर्वर्गसाधनम् चामनन्ति । भारतं पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वत्रास्मिन् ग्रन्थे वैष्ण्वसिद्धान्तानां प्रमुखत्वेन प्रतिपादनात् महाभारतं वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य अशीतिप्रतिशतभागोऽनेकविधोपदेशमयः, विंशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता | 

महाभारतस्य संक्षेपेण वर्णिता कथा एवं वर्तते - उत्तरभारतस्य राज्ञो दुष्यन्तस्य पुत्रस्य भरतस्य वंशधरस्य शान्तनोः प्रपौत्रो -धृतराष्टपाण्डवौ आस्ताम्। अग्रजन्मा धृतराष्टः नेत्रहीनः इति हेतोः सर्वैः पाण्डुरेव राजसिंहासनेऽभिषिक्तः। कालान्तरेण पाण्डुः पञ्चत्वं प्राप्तः। तदा पञ्चपाण्डवाः - युधिष्ठिरः - भीमः - अर्जुनः - नकुलः - सहदेवश्च निखिलानि शास्त्राणि वेदाञ्च अधीतवमन्तः । प्रकृतयः युधिष्ठिस्य शौचेन, भीमसेनस्य धृत्या, अर्जुनस्य विक्रमेण, नकुलसहदेवयोः गुरुशुश्रूषया, शान्त्या विनयेन च, समेषां तेषां शौर्यगुणेन च अति सन्तुष्टा अभवन्। पाण्डवानाम् अभ्युदयम् असहमानः दुर्योधनः छलेन तेषां राज्यम् अपहर्तुं बहुकृतप्रयत्नोऽपि विफलोऽभवत्। तदा स्वमातुलशकुनिसाहाय्येन घूतक्रीडायां कपटेन पाण्डवान् पराजित्य द्रौपदीञ्च स्वानुजेन दुःशासनेन सभामानाय्य अपमाननं कर्तुं प्रायतत । श्रीकृष्णेन रक्षिता द्रौपदी। पराजिताः पाण्डवाः कृतसमयानुसारं द्वादशवर्षपर्यन्तं वनवासस्य, एकवर्ष-अज्ञातवासस्य च कठिनाम् अवस्थाम् असहन्। ततोऽरण्यात् निवृत्य स्वराज्यम् अयाचन्त । दौत्यार्थं पाण्डवप्रतिनिधिः भूत्वा स्वयं श्रीकृष्णः गतः। परन्तु स्वार्थपरायणः दुर्योधनस्तु - ’केशव ! युद्धं विना सुच्याग्रपरिमितं भूमिमपि न दास्यामि’ इति दृढचित्तः सन् अवदत् । फलतः कौरव-पाण्डवानां मध्ये भयङ्करं युद्धं सञ्जातम्। कौरवाः पराजिताः, पाण्डवेषु ज्येष्ठः युधिष्ठिरः राजसिंहासनम् आरोहत् । कालक्रमेण अभिमन्योः पुत्रं परीक्षितं हस्तिनापुरस्य अधिपतिनं विधाय सर्वे पाण्डवाः द्रौपदी च हिमालयं प्रति अगच्छन् -तत्रैव कालकवलतां गताश्च।



कालिदास
Kalidas


साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् ।

एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृतीः पठितुम् आरब्धवान् ॥

भिन्नभिन्नपुस्तकपठनतः अहं ज्ञातवान् यत् कालिदासस्य कालं, जन्मस्थानं किमधिकं कृतिः च अधिकृत्य पण्डितानां समानाभिप्रायः नास्तीति । तथापि कालिदासः उज्जयिन्यां षष्टशतके जातः इति सामान्याङ्गीकारः अस्ति च । एतत् सर्वं पठित्वा मम एवमभासत कालिदासः जनिं न प्राप्तवान् इति इतिहासकाराः वदन्ति चेदपि तस्य अस्तित्वं न नश्यति यावत् एकः श्लोकः जीवति । अत एव कालिदासस्य देशकालादिविषये चर्चाकरणसमयेन द्वित्रान् वा श्लोकान् पठति चेत् वरम् । तदानीं विक्रमादित्यसदसि नवरत्नेष्वन्यतमः कालिदासः भोजराजेन सह सल्लापं कुर्वन् प्रत्यक्षीभवति ॥




वाल्मीकि
Maharishi Valmiki 


वाल्मीकिमहर्षिः  श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् । स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः ।




योग
Yog


योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् ।योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि – इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः  । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति ।




आयुर्वेदः
Ayurveda



आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते। अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। विशेषतः क्रिस्तपूर्वचतुर्थशतकादारभ्य क्रिस्तशकस्य ११ शतकपर्यन्तम् आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्। चरकाचार्यविरचिता ’चरकसंहिता’, सुश्रुताचार्यप्रणीता ’सुश्रुतसंहिता’, वाग्भटग्रथितम् ’अष्टाङ्गहृदयम्’, माधवकरस्य ’माधवनिदानम्’, शार्ङ्गधरस्य 'शार्ङ्गधरपद्धति:’ इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः। चरकसंहितायां ३४१ सस्यजन्यद्रव्याणां, १७७ प्राणिजन्यद्रव्याणां, ६४ खनिजद्रव्याणां च उल्लेखः कृतोऽस्ति। ग्रन्थस्यास्य महत्त्वमभिलक्ष्य अस्य नैकानि व्याख्यानानि रचितानि।चरकसंहितायां 8 स्थानानि सन्ति।मूलत: एषा अग्निवेशेन रचिता संहिता।तत्र चरकमहर्षिणा प्रतिसंस्कार: कृत:। तत: दृढबलनाम्ना अपरेण वैद्येन संपूरणं कृतम्। एवम् अद्य उपलब्धायां चरकसंहितायाम् एषां त्रयाणां कर्तृत्वं विद्यते।कृत्स्नोऽपि आयुर्वेदः अष्टधा विभक्तः। शल्य-शालाक्य-कायचिकित्सा-कौमारभृत्य-अगदतन्त्र-रसायनतन्त्र-वाजीकरणानीति। इदानीं प्रत्येकमङ्गं विवेचयामः।



ऋग्वेद
Rigveda


ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्तदेवतासूक्तच्छन्दः सूक्तहोऽर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणां समूहो नामच्छन्दः सूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः (इति प्रथमो भेदः) अष्टौ अष्टकानि, चतुष्षाष्टिरध्यायाः, सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वितीयो भेदमार्गः) ।

मन्त्राश्च सर्वे दशसहस्त्रचतुः शतसप्तषष्ठिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् (१०५८०) मन्त्रान् आह । अत्र भेदे कालभेदेन मन्त्रवृध्दिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या -१५३८२६, अक्षरसंख्या -४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दस्सु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्र्ष्टारो ऋषयः गृत्समदविश्व्वामित्रवामदेवात्रिभद्वाजवसिष्ठादयः सन्ति । ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि सोमविषयकमन्त्राणां सङ्कलनं कृतम् । पवमानः – सोमः । पूर्वोक्ताः सप्तापि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तमण्डलपर्यन्तगताभिः ऋग्भिः सम्बध्दाः, दशमण्डले मन्त्रा नानर्षिसम्बध्दाः । दशमे मण्डले न केवलं देवतास्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते ।

द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीति साम्प्रतिका आलोचकाः कथयन्ति ।

चतुर्षु वेदेषु प्रथमगणनीयः अयम् ऋग्वेदः । ऋचां भूयस्त्वात् ऋग्वेद इति व्यपदेशः । ऋच्यते स्तूयते अनया इति ऋक् । स्तुतिपरकाणां मन्त्राणां समूह एव अत्र वेदे सामान्यतः दृश्यते । सर्ववेदानामिव अस्यापि संहिता –ब्राह्मण –आरण्यक-उपनिषद्भागाः सन्त्येव । तदधिकृत्य अनन्तरं सूच्यते ॥




बाणभट्ट
Banabhatta


महाकविः बाणभट्टः गद्यकाव्यजगतः चक्रवर्ती । पद्यं वद्यं गद्यं हृद्यम् इति उक्तिः बाणस्य गद्यप्रबन्धारचनादनन्तरमेव लोकोक्तितामशिश्रियत् इति भाति । कविराजः इति नामा गद्यकविरेकः वदति यत्-सुबन्धुर्बाणभट्टश्चकविराज इति त्रयः इति श्लेषार्थचमत्कारे वयं त्रय एव गद्यकवयः इति साधयति ।शोणानद्याः पश्चिमे तीरे स्थितः प्रीतिकूटम् नाम अग्रहारः (ब्राह्मणानां निवासस्थानम्) बाणस्य जन्मभूमिः आसीत् । वात्स्यायनवंशजः "चिन्तामणिः" बाणस्य पिता । राजदेवी बाणस्य माता । बाणस्य भट्ट इति उपनाम आसीत् ।शैशवे एव बाणस्य मातृवियोगः अभवत् । ततः पिता एव बालस्य रक्षणपोषणभारम् ऊढवान् । समुचिते वयसि विधिवत् उपनयनादिसंस्कारान् विधाय शिक्षणं च प्रादात् । बाणस्य चतुर्दशे वयसि पितापि दिवंगतः । शिक्षको रक्षकश्च पिता यदा मृतः तदा खिन्नः बाणः स्वस्य यौवनारम्भे किंकर्तव्यतामूढः स्वगामं गृहं प्रियान् मित्राणि च त्यक्त्वा एकाकी सन् नाना देशान् बभ्राम । एवं भ्रमता बाणेन शूद्रस्त्रीसञ्जातौ चन्द्रसेनमातृषेणौ, भाषाकविः ईशानः, वारबाणवीसबाणनामानौ विद्वांसौ, वर्णकविः वेणीभारतः जाङ्गलिकः(विषवैद्यः) मयूरः, भिषक्पुत्रः मन्दारकः इत्यादयः बाणस्य नूतनाः सुहृदः समभवन् । एवं च बहुकालं यावत् देशाटनं कृत्वा पुनः स्वग्रामं प्रीतिकूटम् प्रत्याजगाम । इष्टगोष्ठीषु कालयापनं कुर्वन् आसीत् । बाणस्य स्वग्रामागमनं पाण्डित्यं च कर्णाकर्णिकया श्रुत्वा श्रीहर्षसार्वभौमस्य मातुलः चित्रभानोः मित्रं च कृष्णः श्रीहर्षं सम्प्रार्थ्य बाणम् हर्षस्य आस्थानपण्डितमण्डल्यां प्रवेशयामास । ततः किञ्चित्कालानन्तरं बाणः हर्षस्य आप्तमित्रम् अभवत् । बाणः स्वस्य आश्रयदातुः हर्षस्य जीवनचरितम् हर्षचरितम् नामकं ग्रन्थं गद्यरूपेण न्यबध्नात् । भूषणभट्टः बाणभट्टस्य पुत्रः । कादम्बरीतिगद्यकाव्यस्य उत्तरार्धं भूषणभट्टः अलिखदिति जनश्रुतिः अस्ति । तत्रभवता महाकविना गद्यचक्रवर्तिना कादंबरी इति अभूतपूर्वम्‌ गद्यकाव्यम् विरचितम् । संस्कृतकाव्यरसिकः को वा नजानाति बाणभट्टस्य शुभनाम? । ’बाणोच्‍छिष्‍टम्‌ जगत्‌ सर्वम्’ इति प्रशस्तिपरा उक्तिरेव सूचयति बाणकवेः प्रतिभासामग्र्यम् । य: प्रतिभया प्रसिद्ध्या सहृदयप्रियतया च सर्वान् संस्कृतकावीन् अतिशेते, काव्यतत्वस्य विमर्शकैः पण्डितैः औचित्यविचारचर्चासंसदि लब्धयशाः स बाण एव नान्यः । बाणभट्टस्य जन्मभूमिः शोणानद्याः पश्चिमे दिशि विद्यमानः प्रीतिकूटम् नाम अग्रहारः, यस्य पार्श्वे यष्टिगृहं नाम ग्रामः, ततः किञ्चिद्दूरे राज्ञः श्रीहर्षवर्धन(द्वितीयशिलादित्य)स्य राज्यम् ’श्रीकण्ठदेश’ आसीत् । वात्स्यायनवंशचिन्तामणिः चित्रभानुः एतस्य पिता । अस्य मातुः नाम राजदेवी इति । बाणस्य बाल्य् एव मातृवियोगः अजायत । पिता चित्रभानुरेव कुशलमतेः पुत्रस्य रक्षण-पोषणभारम् अवहत् । सत्काले विध्युक्तरीत्या उपनयनादिसंस्कारान्, समुचितां शिक्षां च ददौ । किन्तु अस्य चतुर्दशे वर्षे पिता दिवंगतः ।



आर्यभट
Aryabhat 


आर्यभटः (४७६ - ५५०) एक: महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम् अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत् | ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव। आर्यभटम् 'आर्यभट्टः’ इत्यपि निर्दिशन्ति केचन। आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः 'आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते। एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति। आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति। 'मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ्चाङ्गकर्तारः बहवः एतस्य सिद्धान्तम् एव अनुसरन्ति।आयभटेन् ४९९ तमे वषे एषः ग्रन्थः रचितः। एष ग्रंथः २० आर्या छन्देषु निबध्दः। अस्मिन् ग्रहाणां गणनार्थं कलि संवत् (४९९तमे वर्षे ३६०० कलि संवत्) इति निश्चितम् । अस्मिन् ग्रन्थे अष्टाधिकशतपद्यानि सन्ति। अतः एव एतत् पुस्तकम् आर्यशताष्टकम् इति नाम्नि प्रसिद्धः अस्ति। अस्मिन् चत्वारि खण्डानि सन्ति। भास्करः एतत् पुस्तकम् अश्मकतन्त्रम् इति कथयति। गणितज्योतिषविषययोः लिखित: ग्रन्थ:। तत्र वराहकल्पस्यास्य सप्तमे मन्वन्तरे वर्तमानाष्टाविंशच्चतुर्थुगस्य कल्पादेः खखषट्वर्गमिते (३६००) सौराब्दे गते त्रयोविंशतिवर्षे आचार्यार्याभट: पुरातनानि कालक्रियागोल- लौकिकगणित – प्रतिपादकानि शास्त्राणि कालदैर्घ्यायत्तसम्प्रदायविच्छेदग्रन्थवैकल्यादि जनितेन दृग्गणितविसंवादेनाकिञ्चित्करण्यालोच्य समदृग्गणितं ज्योतिश्शास्त्रं चिकीर्षुः तादृशज्योतिर्ज्ञानबीजलाभाय ज्योतिश्छक्रग्रहादेरादिवक्तारं भगवन्तं स्वयम्भुवम् अमलैस्तपोभिराराधयामास ।




सिन्धुसंस्कृति
Indus Civilization 


सिन्धुखातसंस्कृतिः एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः आविष्कृता । सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि संस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा । अतः एव सिन्धुखातसंस्कृतिः हरप्पासंस्कृतिः इति ख्याता। सिन्धुसंस्कृतेः नगराणि अत्युत्कृष्टाः आसन्। पथाः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिकाभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि स्नानगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः। नगरेषु दुर्गाः अपि अवर्तन्त। तेषु जलनिर्गमः अपि आसीत्। पुरीषु अनेके चित्रकाराः शिलपकाराः कुम्भकाराः वणिजः पुरोहिताः च अवसन्।ते अनेकानि सुन्दराणि शिल्पानि निर्मितवन्तः। ते मुद्राः आभरणानि च अरचयन्। ललनाः नेत्राञ्जनं, सिन्दूरं, कङ्कणानि च धारयन्ति स्म। शिशवः क्रीडनकैः क्रीडिन्ति स्म । ते पशुपतिं शिवलिङ्गानि च अपूजयन्। अनेकासु मुद्रासु स्वस्तिकाः आसन्।सिन्धुसभ्यतायाः कालः मिश्रदेशस्य प्राचीनसभ्यतावत् अनिश्चिताऽस्ति । मिश्रदेशस्य सुमेरप्रदेशीय वा सभ्यतायाः कालनिर्णये तत्र प्राप्ताः लेखनसामग्राद्याः बहुसहायकाः अभवन् । इदनीमवधिः सिन्धुलिपेः आविष्कारं न अभूत् । प्रसिद्ध'मेसोपटेमिया'सभ्यतायाः खननसमये तत्र सिन्धुप्रदेशस्य मुद्राः अलभन् । अर्थ्यात् सिन्धुजनानां वाणिज्यं क्रैस्तपूर्वं २६००-२००० शताब्द्यां मेसोपटेमियापर्यन्तं विस्तृतमासीत् । तस्मात् बुधैः अनुमीयते यत् सिन्धुलिपेः कालः ३५००-३००० क्रैस्तपूर्वमस्ति ।सिन्धुप्रदेशतः प्राप्तेषु निदर्शनेषु एकत्र २६ अधिकसांकेतिकाक्षराणि न लब्धानि । अस्याः लिपेः आविष्कारनिमित्तं बहुशोधकार्याणि अभवन् । परन्तु विद्वत्सु लिपेः आविष्करणविषये मतैक्यताऽभावः एव दृश्यते । १८७३ तमे वर्षे अलेक्जन्डर कानिंहाम् प्रथमवारं सिन्धुलिप्यां उत्कलितमुद्रां प्रकाशितवान् । तदनन्तरं प्रायः ४००० सांकेतिकचिह्नसमन्वितानि वस्तुनि शोधखननात् प्राप्तानि । सिन्धुलिपेः लेखनगतिः वामतः, दक्षिणतः तथा उभयतः  आसीत् । सिन्धुलिपेः प्रायः ४००-६०० मौलिकसांकेतिकचिह्नानि सन्ति । अनेके लिपिविशेषज्ञाः मन्यन्ते यत्- लिपेः स्वरूपम् संश्लेषात्मकभाषां सूचयति इति ।




पतञ्जलि
Patanjali 


भगवान् पतञ्जलिःयोगसूत्रस्य रचनाकारः । माहेश्वरसम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते । त्रिषु मुनिषु अन्यतमः महामुनिः पतञ्जलिः अप्यन्यतमः इति जगतीतले को वा न विजानीते? भगवान् पतञ्जलिः पाणिनीयाष्टके महतीं व्याख्यां व्यलेखीत् । सेयं व्याख्या महाभाष्यम् इत्याख्या जगति प्रसिद्धाऽस्ति । एषः पतञ्जलिः विश्वविश्रुतः भाषाविदासीत् । महाभाष्यं व्याकरणसन्निभं कठिनं दुरूहञ्च विषयं सारल्येन ज्ञापयितुं समर्थः इत्यत्र सर्वेऽपि विद्वांसः एकमतयः । समस्ते वैयाकरणसमुदाये महाभाष्यं महताऽदरेण प्रामाणिकत्वेन च परिगण्यते ।विभिन्नेषु प्राच्यग्रन्थेषु पतञ्जलेः गोर्नदीयः, गोणिकापुत्रः, नागनाथः, अहिपतिः, फणिराट्, शेषराजः, चूर्णिकारः तथा च पदकारः इत्यादीनि नामानि प्रसिद्धिं भजन्ते । एभिर्नामभिः इदं स्पष्टं प्रतीयते यत् पतञ्जलिः शेषनागस्य अवतारः आसीदिति ।एकदा कश्चित् मुनिः कस्मिंश्चित् तडागे स्नानरतः आसीत् । स्नानसमये कश्चित् क्षुद्रः सर्पः तस्य अञ्जलौ अपतत् । किञ्चिद् भीतः मुनिवरः अपृच्छत् “कोડर्भवान् ?” इति । सर्पः उदतरत् - “सपोડहम्” । ततः श्रुत्वा मुनिवरः पुनः अपृच्छत् “रेफःक्वगतः?” इति । सर्पः उक्तवान् - “त्वया अपहृतः” इति । मुनिवरः स्वत्रुटिं ज्ञात्वा लज्जितः अभवत् । सः ज्ञातवान् यत् अवश्यम् अयं कश्चन महापुरुषः विद्वान् च वर्तते । पतञ्जलेः जीवन-वृत्तान्तविषये अन्याः अपि काश्चन किंवदन्त्यः सन्ति ।विशालकाये महाभाष्येऽपि भगवतः पतञ्जलेः इतिवृत्तम् ईषद उपलभ्यते । अतः पतञ्जलेः देशविषये “इदम्-इत्थम्” इत्येवं वक्तुं न शक्यते । तथापि महाभाष्ये “विभाषा साकाङ्क्षा” इति सूत्रव्याख्यावसरे “अभिजानासि देवदत्त ! कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः” इत्युदाहरणबलेन इदं प्रतीयते यत् पतञ्जलेः जन्मभूः कश्मीरदेशः स्यादिति । महाभाष्यस्य उदाहरणैः इदमपि ज्ञायते यत् पतञ्जलिः आधिक्येन पाटलिपत्रनगरे वासञ्चकार । ततश्च सः भारतस्य दक्षिणपूर्वदिग्भागे महाभाष्यस्य प्रचारप्रसाराय मथुरायां, वाराणस्यां, पाटलिपुत्रे, साकेते, कौशम्ब्यां च प्राचरत् इति प्राक्तनभारतीयैतिह्यानुशीलनेन ज्ञायते ।




वेदान्त
Vedant 


वेदान्तदर्शनम् अथवा उत्तरमीमांसा मुख्यतः उपनिषदां तत्त्वज्ञानं प्रतिपादयति । जगत् प्रतिक्षणं परिवर्तनशीलम् अस्ति । तस्य आधारभूतं यथार्थतत्त्वं ब्रह्मास्ति । ब्रह्म अखण्डम् एकरसम् अद्वैतं च वर्तते । प्रत्येकस्य प्राणिनः अन्तरात्मनि तस्य निवासोऽस्ति तदेव विश्वस्य निमित्तम् उपादानं च कारणं वर्तते । इदं मुख्यं सिद्धान्तम् आधारीकृत्य महर्षिणा बादरायणेन ब्रह्मसूत्रस्य रचना कृता । ब्रह्मसूत्राणि उपनिषदां वाक्यार्थानां संगत्या सह उदात्तदार्शनिकविचारान् प्रस्तुवन्ति । वेदान्तमतानुसारं निःश्रेयस् परं प्रयोजनमस्ति । निःश्रेयसः तात्पर्यं वर्तते संसारात् अविद्यातो वा पृथग्भूय ब्रह्मसामीप्यस्य लाभः । एतत्कृते आत्मज्ञानं परमावश्यकम् अस्ति । अयमेव प्रवृत्तिलक्षणो धर्मः कथितः । यस्य ज्ञानं शुद्धमस्ति स एव निः श्रेयसः सान्निध्यं प्राप्नोति । अनेन सकलपुरुषार्थानां प्राप्तिर्भवति । संसारे यत्किमपि वर्तते तद् ब्रह्म परमात्मावैवास्ति, तदेव चैतन्यरुपे एकमात्रं ज्ञानमस्ति । ब्रह्म निर्गुणमस्ति किन्तु ज्ञानं तस्य स्वरुपं वर्तते । तस्य पूर्णता मायया जायते । माया एव जगदुत्पत्तेः कार्यं करोति । माया न सत् अस्ति, न चासत् एव वर्तते । इयं सदसद्विलक्षणा सत्तात्मिका चास्ति । माया ईश्वरस्य आज्ञया भेदं प्रकटयति परिणामतः नामरुपात्मकताया उदयो भवति । अनेन संसारः उत्पद्यते । माययैव वस्तुनः उपाधिः गृह्यते । यद्यपि ब्रह्म सर्वत्र व्याप्तमस्ति तथापि माययैव सर्वेषु पदार्थेषु ब्रह्मणः पृथक् पृथक् प्रतीतिर्जायते । जीवानाम् अनेकताया अपि इदमेव रहस्यमस्ति । प्रत्येकस्मिन् जीवे ब्रह्मैव सत्यमस्ति, यः भेदोऽस्ति सः मायाया एव परिणामो विद्यते ।




वेद
Ved 


चत्वारः वेदाः भवन्ति । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति  एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतांऋषीणां योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति ।संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते ।प्रधानतया वेदो द्विविधः मन्त्ररूपो ब्राह्मणरूपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूपबोधकतया वैदिकविधिप्रयोगविवरणया च प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।



संस्कृतवाङ्मयम्
Sanskrit's


संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥

संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥

भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥

संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥




रामायणम्
Ramayan


रामस्य अयनं (चरितं) रामायणम् । रामायणमादिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चिदितिहासग्रन्थो भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियश्च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतो अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः(निषादः)आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युद्धमात्रं प्रत्युत सकलालङ्काराणां प्रकृतिसौन्दर्यस्य धर्मस्य च यत्र तत्र वर्णनं दृश्यते । सरलसंस्कृतभाषापठनार्थम् अत्यन्तोपयोगि साधनं च भवत्येतत् ॥ रामायणमादिकाव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः स बहिः आगतः इत्यतः तस्य नाम 'वाल्मीकिः' इति काचित् कथा श्रूयते। तमसानदीं स्नानार्थं गच्छन् वाल्मीकिः व्याधेन मारितं क्रौञ्चं पश्यति। तदा शोकाकुलः सः - 'मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः' इति व्याघ्रं शपति। ततः नारदमुखात् रामस्य कथां श्रुत्वा सः रामायणं रचयति। सीतारामयोः वियोगः रामायणस्य मुख्यं कथावस्तु। महाभारते रामायणस्य कथा वर्णिता दृश्यते। पाणिनेः अष्टाध्याय्याम् अपि कैकेयीकौसल्यादयः शब्दाः दृश्यन्ते। अतः रामायणं महाभारतात् पाणिनेः च पूर्वम् आसीत् इति स्पष्टम्। रामायणं कदा आसीत् इति विषये मतभेदाः बहवः सन्ति। तथापि एतावत्तु वक्तुं शक्यते यत् वाल्मीकिः रामायणं क्रि·पू·पञ्चसहस्रवर्षेभ्यः पूर्वं रचितवान् स्यात् इति। रामायणे २४००० श्लोकाः सन्ति। रामायणस्य प्रतिसहस्रतमस्य श्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम् अक्षरं प्राप्यते। पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात् कविना। रामायणं सर्वासु भारतीयभाषासु बह्वीषु विदेशीयभाषासु च उपलभ्यते। एतस्मात् रामायणस्य जनप्रियता ज्ञाता भवति। वाल्मीकेः शैली ललिता सरला सुन्दरी च। श्रीरामस्य धर्मनिष्ठा, सीतायाः सौशील्यं, भरतस्य भ्रातृवात्सल्यं, लक्ष्मणस्य कर्तव्यनिष्ठा, आञ्जनेयस्य कार्यदक्षता, सुग्रीवस्य सौहार्दभावः इत्यादयः अंशाः अतिरमणीयतया चित्रिताः तेन। संस्कृतसाहित्यनिर्माणे वाल्मिकिः शकपुरुषः इत्यत्र न अतिशयोक्तिः।




वेदव्यास
Vedvyas

निबंध - 01 

वेदव्यासः हिन्दुपरम्परायां कश्चन प्रमुखः । महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । द्वीपे अस्य जन्म अभवत् इत्यतः ‘कृष्णद्वैपायनः’ इत्यपि एतस्य नाम । एतस्य पिता पराशरमुनिः माता च सत्यवती । व्यासस्य शैली अपि वाल्मीकेः इव सरला एव । महाभारतम् अपि आधिक्येन अनुष्टुप्छन्दसा एव उपनिबद्धम् अस्ति । भगवान् वेदव्यासः महर्षेः पराशरस्य पुत्रः । एषः कैवर्तराजस्य पालितपुत्र्याः सत्यवत्याः गर्भे जन्म प्राप्तवान् । एषः कश्चन अलौकिकः शक्तिसम्पन्नः महापुरुषः अपि च महानाकारक पुरुषः आसीत् । एषः जनानां स्मरणशक्तेः क्षीणतां दृष्ट्वा वेदानाम् ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वणवेदः च इति विभजनम् अकरोत् । प्रत्येकां संहिताम् अपि प्रत्येकं शिष्यं बोधितवान् । एकैकस्याःः संहितायाः अपि अन्यान्याः शाखाः, उपशाखाः च अभवन् । एवम् एतस्य यत्नेन वैदिकसाहित्यस्य बहुविस्तारः आसादितः । विस्तारं व्यासः इति वदन्ति । वेदस्य विस्तारः एतेन सम्पादितः इति कारणेन एषः ‘वेदव्यासः’ इति नाम्ना प्रसिद्धः जातः । एतस्य जन्म कस्मिंश्चित् द्वीपे अभवत् । श्यामलवर्णस्य एतं जनाः ‘कृष्णद्वैपायन’ इत्यपि आह्वयन्ति । बदरीवने एषः आसीत् इति कारणेन एतस्य नाम ‘बादरायणः’ इत्यपि आसीत् । अष्टादशपुराणानि, महाभारतस्य रचनाम् एषः एव अकरोत् । संक्षेपेण उपनिषदः तत्त्वान् बोधयितुं ब्रह्मसूत्राणां निर्माणम् अकरोत् । तेषां विषये अन्यान्याः आचार्याः भाष्याणि रचयित्वा स्वेषां विभिन्नान् अभिप्रायान् प्रकटितवन्तः । ‘व्यासस्मृतिः’ एतेन रचितः कश्चन स्मृतिग्रन्थः । एवं भारतीयसाहित्यस्य, हिन्दूसंस्कृतेः विषये व्यासस्य महत् योगदानम् अस्ति । श्रुति-स्मृति-पुराणोक्तस्य सनातनधर्मस्य कश्चन प्रधानः व्याख्यानकारः व्यासः इति उच्यते । हिन्दवः, भारतीयसंस्कृतिः च यावत् पर्यन्तं तिष्ठति तावत् पर्यन्तम् एतस्य नाम अमरम् एव । जगति एव एषः महान् श्रेष्ठः पथप्रदर्शकः, शिक्षकः च इति उच्यते ।


निबंध - 02 

वेद व्यास
Ved Vyas


वेदव्यासः हिन्दुपरम्परायां कश्रच्न प्रमुखः।

महाभारतस्य रचनाकारः भगवान् व्यासः । 

वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । 

द्वीपे अस्य जन्म अभवत् इत्यतः 'कृष्णद्वैपायनः' इत्यपि एतस्य नाम । 

एतस्य पिता पराशरमुनिः माता च सत्यवती। 

व्यासस्य शैली अपि वाल्मीकेः इव सरला एव 

महाभारतम् अपि आधिक्येन अनुष्टुप्छन्दसा 

एव उपनिबद्धम् अस्ति। भगवान् वेदव्यासः 

महर्षेः पराशरस्य पुत्रः। एषः कैवर्तराजस्य 

पालितपुत्र्याः सत्यवत्याः गर्भे जन्म प्राप्तवान्। 

एषः कश्रच्न अलौकिक शक्तिसम्पन्नः महापुरूषः

अपि च महानाकारक पूरुषः आसीत्। एषः




भरद्वाजमहर्षि
Marishi Bhardwaj


सुदीर्घकालं जीवन् अपि मानवः इतोऽपि अधिककालं जीवितुम् इच्छति । एषः मानवस्य स्वभावः । परन्तु तदेव जीवनम् उन्नतध्येयसाधननिमित्तं यदि भवति तर्हि तत् नितरां प्रशस्यते । सप्तर्षिषु अन्यतमस्य भरद्वाजस्य कथा अत्र उत्तमम् उदाहरणम् अस्ति । भरद्वाजः अत्रिमुनेः पुत्रः आदिकाव्यस्य रामायणास्य कर्तुं वाल्मीकिमुनेः शिष्यः च । सः वेदाध्ययने, देवध्याने च निरतः आसीत् । यदा मराकालः सन्निहितः तदा पुनः इन्द्रस्य ध्यानं कृत्वा - ‘मम आयुः वर्धयतु’ इति प्रार्थितवान् भरद्वाजः । प्रत्यक्षीभूतः इन्द्रः भरद्वाजम् आत्मना सह किञ्चिद्दूरं नीतवान । दूरे उन्नताः त्र्यः पर्वताः द्दश्यन्ते स्म । इद्न्रः भरद्वज्स्य अञ्जल्यां मुष्टित्रयपरिमिताः सिकताः स्थापितवान् । भरद्वाजः मौनं स्थितवान् आसीत् ।




बौद्धधर्म
Buddhism


भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं केचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः।'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न। बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः 'त्रिपिटके निरूपिताः सन्ति।अस्य दर्शनस्य आद्यप्रवर्तकः श्रीबुद्धः अस्ति । शुद्धोदनस्य मायादेव्याः च सुतः गौतमगोत्रजः क्षत्रियः सिद्धार्थः एव पश्चात् बोधोदयात् बुद्धः इति प्रथितः अभवत् । बौद्धदर्शनस्य परमसिद्धान्तः ‘दु:ख्स्य मूलम् आशा’ इत्यस्ति । माध्यमिक-योगाचार -सौत्रान्तिक-वैभाषिकभेदात् चतुर्धा विभज्यते ।वेदानां श्रुतपरम्परेव बौद्धधर्मस्यापि ज्ञानोपदेशाय श्रुतपरम्परा प्रचलिता आसीत् । अन्ततः अस्य ज्ञानस्य संरक्षणाय राजगृहे महाकाश्यपस्य अध्यक्षतायामेका बौद्धसंगीतिरायोजिता । तत्र बुद्धशिष्येण आनन्देन सुत्तपिटक-विनयपिटकयोः संग्रहो विहितः । सुत्तपिटकस्यैव कतिपयांशानां विस्तरेण कालान्तरे अभिधम्मपिटकस्य रचना संजाता ।




जैनधर्म
Jain Dharam


जैनधर्मः भारतस्य प्राचीनतमेषु धर्मेषु अन्यतमः वर्तते । यो जयति सः जिनः । अस्माकं देहे कर्मस्वरूपिणः बहवः शत्रवः भवन्ति । किन्तु तेषां शत्रूणां नाशकत्वेन जीवात्मा निवसति । सा जीवात्मा एव जिनः इति कथ्यते । तस्य जिनस्य उपासकाः जैनाः इत्युच्यते । जैनधर्मे चतुर्विंशतितीर्थङ्कराः सन्ति । जैनधर्मस्य बहवः विषयाः सन्ति । यथा – जैनधर्मस्य तत्त्वानि, सिद्धान्ताः, आगमः, साहित्यानि च । ये जैनधर्मस्य पालनं कुर्वन्ति ते सर्वे महावीर-भगवतः अपत्यानि सन्ति । किन्तु तेषां भाषादृष्ट्या, प्रान्तव्यवस्थादृष्ट्या, आचारदृष्ट्या च विभिन्नाः सम्प्रदायाः सन्ति । जैनानां बहूनि सङ्घटनानि अपि सन्ति । जैनधर्मः भारतवर्षस्य प्राचीनधर्मः वर्तते । अनन्तकालादेव जैनधर्मस्य पुरस्कर्तारः तीर्थङ्कराः अभवन् । साम्प्रते काले अपि तीर्थङ्कराणां शासनम् अस्ति । भविष्यत्काले अपि २४ तीर्थङ्कराणां श्रेणी भविष्यति इति उक्तम् अस्ति । चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आदिनाथः ऋषभदेवः भगवान् आसीत् । तेन असी, मसी, कृषिः च एताः कलाः प्रदत्ताः । स्वरक्षणाय खड्गशस्त्रस्य उपयोगः, लेखनार्थं लेखनी-मष्योः उपयोगः, पोषणाय कृषिसाधनानाम् उपयोगः च करणीयः इति भगवता ऋषभदेवेन उक्तम्।





पाणिनि
Panini 


पाणिनिः  संस्कृतभाषायाः महान् वैय्याकरणः । तेन लिखितः अष्टाध्यायीनामकः व्याकरणग्रन्थः विश्वप्रसिद्धः वर्तते ।पाणिनीया शिक्षाग्रन्थे त्रयः श्लोकाः पाणिनेः नमस्कारपराः द्श्यन्ते । पाणिनिः वैयाकरणानां प्रातः स्मरणीयः मुनिः । न केवलं वैयाकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानाम् ऐन्द्-चान्द्र-आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य 'नवं, समग्रं, विश्वजनीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशं परमेश्वरं तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्डवं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत् । तस्याः ढक्कायाः शब्दान् पाणिनिः अशृणोत् ।पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शालातुरग्रामे अभवत् । अतः तस्य 'शालातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । [अतः एव सः दाक्षीपुत्रः इत्यपि संस्कृतज्ञाः तं प्रीत्या आह्वयन्ति । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । पञ्चतन्त्रानुसारेण पाणिनेः मृत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति । मृत्युः इति स्थाने मृत्युः इति भवितव्यम्।



सुभाष चंद्र बोस 
Subhash Chandra Bose

 

विश्वेस्मिन् स्वतंत्रतासेनानी सुभाषस्य नाम को न जानाति। सः क्रांतिकारी नेता आसीत्। अस्य जन्म बंङ्गप्रान्ते 1897 तमे जनवरी मासस्य 23 तारिकायाम् अभवत्। अस्य पिता जानकीनाथ बोसः आसीत्। बाल्यकालादेव बुद्धिमान धीरः साहसयुक्तः च आसीत्। सः कालिकाता नगर्यां शिक्षां प्राप्तवान्। सः असहयोगआंदोलने संलग्नः अभवत्। स्वतंत्र्यार्थं प्रति सदा प्रयासरतः आसीत्। सः शठेशाठ्यं समाचरेत् इति नीतिमनुसरितवान्। 'आजाद हिन्द फ़ौज' इत्याख्यां सेनां संघटितवान्। सः देशे हिन्दू - मुस्लिमयो एकतायाः कृते फारवर्ड ब्लाक इत्यस्य स्थापना कृत्वान्। जर्मनी आकाशवाण्या केन्द्रात् भारतीय जनेभ्यः स्वाधीनतायाः सन्देशं दत्तवान्। सः आह्वानं अकरोत् - यूयं मह्यं रक्तमपर्यत अहम् युष्मभ्यं स्वातन्त्र्यं दास्यामि। भारतमातुः वीर - सपूतः आसीत्। सः भारतीय जनानां प्रेरणा स्रोतः आसीत्।




महात्मा गांधी 
Mahatma Gandhi

 


महात्मा गांधी एकः महापुरुषः आसीत्। सः भारताय अजीवत्। भारताय एव च प्राणान अत्यजत्। अस्य पूर्णं नाम मोहनदास कर्मचंद गांधी अस्ति। अस्य जन्म १८६९ तमे ख्रीस्ताब्दे अक्टूबर - मासस्य द्वितीयायां तिथौ पोरबंदर नाम्नि स्थाने अभवत्। तस्य पितुः नाम कर्मचंद गांधी मातुश्च पुतलीबाई आसीत्। तस्य पत्नी कस्तूरबा धार्मिका पतिव्रतानारी आसीत्। 

 

बाल्यकालादेव एकः सरलः बालकः आसीत्। सः सदा सत्यम् वदति स्म। सः आचार्याणां प्रियः आसीत्। उच्चशिक्षायैः सः आंग्लदेशमगच्छत। स विदेशगमनसमये मातुः आज्ञया सः संकल्पितवान् यत् अहम् मद्यं न सेविष्ये, मांसस्पर्शमपि न करिष्यामि एवं सदा ब्रह्मचर्यं आचरिष्यामि। स्वदेशमागत्य सः देशस्य सेवायाम् संलग्नः अभवत्। अस्य ईश्वरे दृढः विश्वासः आसीत्। सः आंग्लशासकानां विरोधे सत्याग्रहांदोलनम् प्रावर्तयत। तस्य श्रद्धा अहिंसायाम् आसीत्। तस्य सर्वः समयाः, सर्वः शक्तिः, सर्वः धनम् च देशाय एवासीत्। 



चन्द्रशेखर आजाद 
Chandra Shekhar Azad

 

चन्द्रशेखरस्य जन्म उन्नावजनपदे बदरका नामक ग्राम अभवत्। तस्य पितुः नाम श्री बैजनाथः आसीत्। यदा चन्द्रशेखरः एकादशवर्ष देशीयः आसीत् 'जलियांवाला' काण्डस्य नृशंसताम श्रुत्वा सः क्रूरशासनस्य उन्मूलनस्य प्रतिज्ञां अकरोत्। चतुर्दशवं  सः अध्ययन त्यक्त्वा स्वतंत्रता आन्दोलने प्रवेश अकरोत्। प्राप्तये अयं बहुवारं कारागारं अगच्छत्। वाराणस्यां क्वींसकॉलेज प्रसिद्धस्य संस्कृतमहाविद्यालये अयं बहिष्कारान्दोलनं समचालयत्। 1931 तमे वर्षे फरवरी मासस्य सप्तविंशे दिनांके स्वमित्रेण सुखदेवराजेन सह उपविशन् नाटबावरेण अन्ये च राजपुरुषाः तं सर्वतः सहसा आक्राम्यन्। घंटैकं उभयतः गुलिकावृष्टिः सञ्जाताः। एकतः एकाकी आज़ादः अन्यतः वः बहवः शत्रवः। यदा गुटिकाः समाप्तप्रायाः अभवन् तदा अंतिमया गुलिकया आत्मानं हत्या स्वकीयम् 'आजाद' इति नाम सार्थकम् अकरोत्।




पर्यावरण 
Paryavaran

 

निबंध संख्या :-1

वयं वायुजलमृदाभिः आवृत्ते वातावरणे निवसामः। एतदेव वातावरणं पर्यावरण कथ्यते। पर्यावरणेनैव वयं जीवनोपयोगिवस्तुनि प्राप्नुमः। जलं वायुः च जीवने महत्वपूर्णो स्तः। साम्प्रतं शुद्ध - पेय - जलस्य समस्या वर्तते। अधुना वायुरपि शुद्धं नास्ति। एवमेव प्रदूषित-पर्यावरणेन विविधाः रोगाः जायन्ते। पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते। प्रदूषणस्य अनेकानि कारणानि सन्ति। औद्यौगिकापशिष्ट - पदार्थ - उच्च - ध्वनि - यानधूम्रादयः प्रमुखानि कारणानि सन्ति। पर्यावरणरक्षायै वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम्। तैल रहित वाहनानां प्रयोगः करणीयः। जनाः तरुणां रोपणम् अभिरक्षणं च कुर्युः। 


निबंध संख्या :-2  

पर्यावरण 
Paryavaran


अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । पर्यावरणम् भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।




पर्यावरण प्रदूषण 
Paryavaran Pradushan

 

साम्प्रतिके काले निखिलेस्मिन् जगति मानवसभ्यतायाः समक्षमनेके समस्यात्मका दुष्प्रभावाः समुज्जृम्भते। पर्यावरणस्य प्रदूषणमपि तथैव मुख्या समस्या  मानवसभ्यतायै परिदृश्यते। अधुना औद्योगिकप्रसारेण न केवलं जलं, वायुः, फलमन्नादिकं च प्रदूषितमपितु  समग्रमपि भूमण्डलं दूषितं भवति। प्रतिदिनं परमाणुयंत्राणां रेडियोधर्मिता सर्वत्र प्रसरति, विषाक्तगैसीयतत्वानां प्रसारेण, बृहदाकारौद्यौगिक यंत्राणामपशेषितैः पदार्थैः,विविधानां यानादीनां धूमपुञ्जैश्च तथैवान्यैः संयंत्रादिभिः सर्वत्रवातावरणं भूलोकस्य वायुमण्डलं प्रदूषितं भवतीति वृत्तं दृग्गोचरी भवति। अस्मिन् वैज्ञानिके युगेSपि यदि पर्यावरणप्रदूषणस्य निरोधोपायः समुचितो न स्यात्तदा कस्मिन् युगे भविष्यति।

 

पर्यावरणप्रदूषणस्य प्रभावाद् जगति रोगदीनां वृद्धिः सञ्जाता, अन्नपानादिषु रेडियोधर्मिपदार्थानां सम्मिश्रणात् सर्वत्र वायुमण्डलम तु दूषितं भवत्येव, तस्माद् आनुवंशिकप्रभावोंSपि भवति। अनेन भविष्यत्काले मानवसभ्यताया विनाशोSवश्यम्भावीति निश्चप्रचम्। विश्व स्वास्थ्य संघटनेन पर्यावरणसन्तुलनार्थमनेके उपायाः प्रतिपादिताः। अस्माकं देशेSपि पर्यावरणप्रदूषणस्य निवारणार्थं सर्वकारद्वारा व्यवस्था क्रियते, तदनुसारं, गंगानद्याः स्वच्छताभियानं, अशुद्धजलमलादीनां, विशुद्धयर्थं संयन्त्राणि स्थाप्यन्ते जनजागरणमपि प्रचलति प्रदूषणनिवारणस्योपायाः, विधयश्चापि निर्दिश्यन्ते। एवञ्च विविधोपायैरेव पर्यावरणस्य संरक्षणं भवितुमर्हति। 




वसंत ऋतु 
Basant Ritu


भारतवर्षे षड्ऋतवः भवन्ति। तेषां वसन्तः प्रथमः अस्ति। वसंतकालः मनोरमः वर्तते। एतस्मिन् समये न अति ऊष्मा न वा अति शीतलता। वसंत्काले सुखदायकः अनिलः प्रवहति। वृक्षेषु लताषु सुन्दराणि विविधवर्णानि कुसुमानि शोभन्ते। पलाशपुष्पैः वनस्थली आरक्ता जायते। अस्मिन् काले क्षेत्राणि सस्यपूर्णानि दृश्यन्ते। जनाः नवान्नदर्शनेन प्रमुदिताः भवन्ति। ते फाल्गुनमासे होलिकोत्सव मन्यन्ते। ते सोल्लासपूर्वं परस्परं मिलन्ति रागैः क्रीडन्ति च। एतस्मिन् ऋतौ प्रातः भ्रमणेन स्वास्थ्यं पुष्टं जायते वसंतकालः आनंदोल्लासस्य कालः। 




वर्षा ऋतू 
Varsha Ritu


ऋतुषु तृतीयः ऋतुः वर्षा-ऋतुः भवति। ग्रीष्मानन्तरं वर्षा-ऋतुः आगच्छति। वर्षा-ऋतौ अधिकतया वृष्टिः भवति। अत एव  अयं ऋतुः वर्षा-ऋतुः कथ्यते। वर्षा-ऋतौ प्रायेण  सर्वत्र वृष्टिः भवति। आकाशमण्डलं निरन्तरं मेघैः आच्छन्नं तिष्ठति। कदाचित् जलबिन्दवः पतन्ति। 

 

वर्षा-ऋतौ दृश्यम् अतीव रमणीयं भवति। वनेषु उपवनेषु, वाटिकासु, वृक्षेषु च सर्वत्र हरीतिमा दृष्टिगोचरीभवति। वर्षा-ऋतौ प्रकृतिनटी विविधानि रूपाणि धारयति। कदाचित् मेघाः गर्जन्ति। कदचित् विद्युतः विस्फुरन्ति। कदाचित् झंझावातः वाति। कदाचित् प्रकाशः भवति। कदाचित् अन्धकारः भवति। कदाचित् च इंद्रधनुषः प्रकाशते। 

 

वर्षा-ऋतौ सर्वेषां महान् आनन्दः भवति। वनेषु मयूरः नृत्यन्ति। जलाशयेषु मण्डूकः रटन्ति। बिलेषु झिल्लिकाः नदन्ति। वृक्षेषु चातकाः कूजन्ति तथा वीथिषु बालकाः खेलती। 

 

वर्षाणां समयः कृष्यै अपि बहु लाभदायकः भवति। अस्मिन् समये कृषकाः भूमि कर्षन्ति। क्षेत्रेषु बीजानि वपन्ति।




उद्यान 
Uddiyan 


एतद् उद्यानम् अस्ति। अत्र अनेकाः वृक्षाः सन्ति। वृक्षाः पर्णैः पुष्पैः च शोभन्ते। पक्वानि फलानि अपि वृक्षाणां भूषणानि। जनाः वृक्षाणां फलानि भक्ष्यन्ति। उपवने लताः अपि रोहन्ति। उपवन विविधानि वर्णानि पुष्पाणि अपि सन्ति। पुष्पेषु भ्रमराः गुञ्जन्ति मधुपानं च कुर्वन्ति। उद्याने बालका: कन्दुकेन क्रीडन्ति प्रभाते सायंकाले च। जनाः उद्याने शान्तिम् अनुभवन्ति। अनेकाः जनाः अपि उद्याने भ्रमन्ति। उद्यानस्य मध्ये एकम् सरोवरम् अपि अस्ति।




एकता 
Ekta


मतभेदस्य विरोधस्य वा अभावः एकता इति उच्यते। एकतायाः अपरं नाम "ऐक्यं सङ्घटनं" वा इत्यपि वर्तते। मनुष्याणां सांसारिकजीवनस्य कृते एकता महान् लाभकारी गुणः अस्ति। यदि संसारे मनुष्येषु एकता न स्यात् तर्हि तेषां एकदिनस्यापि जीवनं कठिनं सम्पद्येत। एकतायां महती शक्तिः भवति। यत् कार्यं एकेन न कर्तुं शक्यते तद् बहूनां सम्मिलितेन समुदायेन सुगमतया एव भवति। 

 

वर्तमानसमये एकतायाः महान् अभावः अस्ति। परिवारे समाजे देशे तथा सम्पूर्णे संसारे सर्वत्रैव अनेकतायाः, मतभेदस्य च भयंकरः झंझावातः प्रवाहमानः दृश्यते। एतस्य प्रधानं कारणं तु स्वार्थपरता एव अस्ति। सर्वे स्वकीयमेव हितं पश्यन्ति न अन्येषाम्। अतः एकतायाः स्थापनाय परस्परं स्नेह-सौहार्द-वर्धनाय च स्वार्थसाधनेन सहैव परेषामपि स्वार्थ-रक्षणाय उपरि ध्यानदानं परमावश्याकं वर्तते। 



विद्या 
Education

 


विद्या धनं सर्वधनं प्रधानम् इति सर्वैः स्वीक्रियते, यतोहि विद्यया एव सर्वे जनाः सर्वाणि कार्याणि साधयितुं समर्थाः भवन्ति। विद्यां प्राप्य उन्नतिं, कीर्तिं, सुखसमृद्धिं च लभन्ते विद्वांसः। यदुक्तं केनचित् - 

मातेव रक्षति पितेव हिते नियुक्ते 

कान्तेव चाभिरमयत्यपनीयखेदम्। 

लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं  

किं किं न साधयति कल्पलतेव विद्या।। 

विद्याधनं व्ये कृते वर्धते, संचायत् च क्षयम् आप्नोति, एतस्माद् इदं अपूर्वम् एव धनं। अत एवोक्तम् - 

अपूर्वः कोअपि कोषो Sयं  विद्यते तव भारति। 

व्यतो वृद्धिमायाति क्षयमायाति संचयात्।। 

नृपाः, राष्ट्र-पतयः, मुख्यमंत्रिणः, प्रधानमंत्रिणो अपि विविधविषयविशेषज्ञानां, कवीनां, वैज्ञानिकानां मतिमतां विदुषां समादरं कुर्वाणाः तेषां उत्साहवर्धनं कुवन्ति पुरस्कारैः। अत अस्माभिरपि विद्या पूर्णमनोयोगेन पठनीया, ग्रहणीया विद्याविहीना पशु इति निर्विवादेन सिध्यति। 

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्

विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।

विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम् 

विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ 

विद्या अधुना युगे अत्यावश्यकं अस्ति। विद्याविहीन: पशुभि: समान:। विद्यया एव मनुष्या: संसारस्य सर्वश्रेष्ठा: प्राणिन: भवन्ति। विद्या अध्ययनेन मनुष्यस्य बुद्धि: तीव्रा भवति। विद्या विनयं ददाति। विद्या परं दैवतं,परं मित्रं च अस्ति। विदेशेषु अपि विद्या एव बन्धु: अस्ति। विद्यया पात्रतां याति। विद्यया मनुष्य: धनं आप्नोति। धनात् सर्वाणि सुखानि लभते।




सदाचार
Sadachar 

 

सज्जनाः यानि-यानि सत्कार्याणि कुर्वन्ति, स सदाचारः उच्यते। सदाचारी नरः कीर्ति भूतिं च लभते। प्रातः काले उत्थाय मातापितरौ, वृद्धान्, गुरून् च प्रणमेत्। तेषां आज्ञाम् पालयेत्, तान् सेवेत च। सदाचारिणः सर्वेषां प्राणिनामुपकारं करोति। सदाचारेण मानवजीवनस्य सर्वविधा उन्नतिः भवति। अतएव सदाचारः उन्नत्याः द्वारमस्ति। सदाचारेणैव जनाः हितं मधुरं च वदन्ति। सदाचार-युक्तो जनः सर्वत्र आदरं लभते। सदाचारेण हीनो जनः सर्वत्र पशुतुल्यः भवति। सदाचारपालनेन एव श्रीरामः मर्यादा पुरुषोत्तमोSभवत्। सदाचारेण एव महर्षिः दधीचिः गान्धि महोदयश्च यशः शरीरेण अद्यापि जीवितः। सदाचारिणः सर्वत्र आदरं लभन्ते। सदाचारस्य महिमानं वर्णयितुं कोSपि न शक्नोति। अतोSस्माभिः सर्वतोभावेन सदाचारः पालनीयः।





समय का महत्व
Samay ka Mahatva

 


समयस्य समुचिते रूपे उपयोगः एव समयस्य सदुपयोगः कथ्यते। समयस्य सदुपयोगः मानवसमाजस्य हितसाधकेषु साधनेषु साधनं वर्तते।संसारे बहूनि वस्तूनि बहुमूल्यानि सन्ति परं तेषु सर्वापेक्षया बहुमूल्य वस्तु समयः एव वर्तते। यतः अन्यानि वस्तूनि विनष्टानि अपि पुनः लब्धुं शक्यन्ते परन्तु व्यतीतः समयः केनापि उपायेन पुनः लब्धुं न शक्यते। विद्या विनष्टा पुनः अभ्यासेन लब्धुं शक्यते, धनं विनष्टं पुनः उपार्जनेन लब्धुं शक्यते, यशः विनष्टं पुनः सत्कर्मणा उपार्जयितुं शक्यते परं विनष्ट: समयः सहस्त्रैअपि प्रयत्नैः दुर्लभः एव।

अतएव समयः सर्वाधिकं बहुमूल्यं वस्तु मन्यते।

 

अस्माकं भारतीयानां कृते अयं राष्ट्रनिर्माणस्य कालः वर्तते। अस्माकं स्कन्धेषु राष्ट्रनिर्माणस्य महान् भारः वर्तते। अस्मिन् समये तु विशेषरूपेण अस्माभिः समयस्य सदुपयोगे ध्यानं दातव्यं येन शीघ्रतया राष्ट्रस्य समुन्नतिः स्यात्। अस्मिन् विषये छात्रैः विशेषरूपेण ध्यानं देयम्। यतः ते एव भारतस्य भाविनः कर्णधाराः तथा भाग्यविधातारः सन्ति। 




कालिदास 
Kalidas


कविकुलगुरोः महाकवेः कालिदासस्य जन्म कुत्र कदा चाभूत् इति विषये न किमपि निश्चिततया वक्तुं शक्रुमः। अस्य जन्म विषये जन्मस्थानविषये च विचारकविदुषां वैमत्यं विद्यते। तथाप्यस्य जन्मविषये प्रायः भारतीयाः विद्वांसो वदन्ति यद् विक्रमादित्यस्य विक्रमसंवत्सरसंस्थापकस्य राज्यात् पूर्वं प्रथम शताब्द्यां महाकवेः कालिदासस्य संस्थिति रासीत्। पाश्चात्याश्च प्रायः सर्वेSस्य कवेः स्थितिम् ईसवीये चतुर्थं शतके गुप्तसाम्राज्ये स्वीकुर्वन्ति। महाकवेः कालिदासस्य प्राधान्येन सप्तैव रचनाः सन्ति, इति स्वीकुर्वन्ति विद्वांसः। रचनानां नामानि - कुमारसंभवमहाकाव्यं, रघुवंशमहाकाव्यञ्चेति द्वे महाकाव्ये, ऋतुसंहारम् मेघदूतञ्चेति द्वे खण्डकाव्ये अभिज्ञानशाकुन्तलम् विक्रमोवर्शीयं मालविकाग्रिमित्रञ्चेति त्रीणि नाटकानि एवं सत्व काव्यग्रन्थानेष महाकविः रचयामास। महाकविः नाट्यलेखनकलाकुशलो बभूव। अस्य नाटकेषु घटनासौष्टवं, स्वाभाविकविषयवर्णनं,चरित्रानुसारिपात्रचयनं, स्वभावोपस्थिताभिनयं, काव्ये रसपारिकम् सुतरां विलोकयामः। 




पुस्तकालय 
Library

 

यत्र सामान्यरूपेण सर्वेषां जनानां पठनाय पुस्तकानां संग्रहः विधीयते सः पुस्तकालयः कथ्यते। पुस्तकालयेषु प्रायेण बहूनां पुस्तकानां संग्रहः विधीयते। तस्य संचालनाय एका समितिः भवति। एकः पुस्तकालयाध्यक्षः निर्वाच्यते यः प्रतिदिनं सुनिश्चिते समये आगत्य पुस्तकालयस्य उद्घाटनं करोति तथा पुस्तकानां आदानप्रदानयोः अपि व्यवस्थां करोति। पुस्तकालये बहूनि समाचारपत्राणि अपि आगच्छंति। पुस्तकालयानां स्थापनेन प्रचारेण च समाजस्य महान् लाभः वर्तते। शिक्षाप्रचारस्य साधनेषु पुस्तकालयानां महत्वपूर्ण स्थानं वर्तते। येषां जनानां सविधे पुस्तकानां क्रयणाय धनं न भवति ते अपि पुस्तकालयं गत्वा इच्छानुसारं पुस्तकानि पठन्ति। 




मम गृहम 
My Home 


मम कुटुम्बे चत्वारः सभ्याः विद्यन्ते - मम पिता, मम माता, मम अनुजा च इति त्रयः सभ्याः माम् विहाय। मम पिता श्रीविनय-पाटणकरः निवृत्तः प्राध्यापकः। जननी मे श्रीमती विनीता अपि निवृत्ता प्राध्यापिका, परम् सा अधुना सम्पूर्णम् गृहकार्यम् अनुतिष्ठति। अहम् दशम्याम् कक्ष्यायाम् अध्ययनम् करोमि। मम अनुजा पल्ल्वी अष्टम्याम् कक्ष्यायाम् पठति। आवयोः जनकः गृहे एव नौ पाठयति। आवयोः पितरौ आवाम् आरक्षतः। तौ आवाभ्याम् स्वास्थ्यप्रदम् भोजनम्, सुन्दराणि वस्त्राणि, सुशिक्षाम् च प्रयच्छतः। वयं सर्वे सहिताः एव रात्रिभोजनम्कुर्मः। अस्माकं कुटुम्बकम् सुखमयम्। 




मम पाठशाला 
My School


मम विद्यालयस्य नाम विद्या निकेतन अस्ति। एषः विद्यालयः नगरस्य एकस्मिन सुरम्ये स्थले स्थितमस्ति। अत्र सप्ततिः शिक्षकः-शिक्षिकाः च पाठयन्ति। अत्र सहस्त्रद्वयं छात्राः पठन्ति। विद्यालये एकं सुन्दरं उद्यानं अस्ति। यत्र मनोहाणि पुष्पाणि विकसन्ति। मम विद्यालये एकः पुस्तकालयः अपि अस्ति। यत्र छात्राः पुस्तकानि पठन्ति। मम विद्यालये एका विज्ञान प्रयोगशाला, एका गणित प्रयोगशाला च अस्ति। विद्यालये एकः संगणककक्षः अपि अस्ति। शिक्षायाः क्षेत्रे मम विद्यालयः सम्पूर्ण नगरे प्रसिद्धः अस्ति। मम विद्यालयस्य सर्वे अध्यापकाः शिक्षायाम् अतीव निपुणाः, योग्यः च सन्ति। विद्यालये प्रतिसप्ताहे बालसभा अपि आयोज्यते। प्रतिवर्षे वार्षिकोत्सवः अपि आयोज्यते। क्रीड़ायाः क्षेत्रे अपि मम विद्यालयस्य प्रमुखं स्थानं अस्ति। अहम् आत्मनं गर्वितः, भाग्यशाली च अनुभवामि यः अस्मिन अत्युत्तमे विद्यालये पठामि।




मम दिनचर्या 
My Daily Routine


प्रातः काले षड्वादनसमये अहम् शयनत्यागम् करोमि। ततः अहम् दन्तधावनम् मुखप्रक्षालनम् च करोमि। तत्पश्चात् स्नानम् कृत्वा अहम् ईशस्मरणम् करोमि। ततः प्रातराशम् कृत्वा अहम् द्विधटीपर्यन्तम् स्वाध्यायम् अनुतिष्ठामि। ततः भोजनानन्तरम् पाठशालाम् प्रतिष्ठे। पाठशालायाः प्रारम्भः मध्यान्हे द्वादशवादने भवति, संध्याकाले षड्वादनसमये च समापनम् भवति। विद्यालये विविधान् विषयान् पठामि। ततः अहम् गेहम् प्रतिनिवर्ते, किञ्चित भक्षयामि च। तदंतरम् धटिकापर्यन्तम् क्रीडाङ्गणे खेलामि। अष्टवादनसमये च अहम् रात्रि भोजनं करोमि। तत्पश्चात् अहम् स्वाध्यायम् कृत्वा दशवादनसमये निद्राधीनः भवामि। 




मम माता
My Mother

 

अस्मिन् संसारे माता एव परम दैवतमस्ति। मातु: स्थान गृहणा तु कोऽपि न समर्थः। सर्वोत्कृष्ट स्थानं मातुरेव। सा तु स्वर्गादपि गरीयसी वर्तते। मातरधिक किमपि पूज्यं नास्ति। वेदेषु पुराणग्रंथेषु अपि मातुः महात्म्य वर्णितम्। पितुः आचार्यादपि माता श्रेष्ठा अस्ति। अत: सर्वप्रथमो अयमुपदेशः ‘मातृदेवो भव’ इति। पितदेवो भव, आचार्य देवो भव इत्यादिकाः उपदेशाः पश्चादागच्छन्ति।

सन्ततिपालने माता किं किं न करोति। सा अनेकानि कष्टानि सहते। शैशवे पुत्रस्य कारणे रात्रौ अपि जागरणं करोति। स्वयं दु:खं सहते, किन्तु पुत्राय सर्वं सुखं यच्छति। माता अतीव पुत्रवत्सला अस्ति। सा एव बालकस्य प्रथम: गुरु: अपि भवति। विद्यालयगमनात् प्रागेव सा बालकं स्नेहेन शिक्षयति। महाभारते महर्षिणा व्यासेनापि उक्तं, 'नास्ति मातृसमो गुरुः।‘

स्नेहपरायणा, साधुस्वभावा माता बहूनापि मूल्येन लब्धुं न शक्यते। 'दीवार' नाम हिन्दी चित्रपटे अपि मातु: महत्त्वं दर्शितम्। तत्र अयं संवाद: लोकप्रियः अभवत, मम् समीपे धनमस्ति, वाहनमस्ति, गृहमस्ति, त्वत् समीपे किमस्ति? तदा नायक: वदति, ‘मम समीपे माता अस्ति।‘

एवं मातुः महत्त्वं सर्वेः स्वीकृतम्। सुप्रसिद्ध मातृभक्तं श्रवणकुमारं को न जानाति। स्वमातृभक्त्या सः अमरः जातः।

भगवतः शंकराचार्यस्य मातृभक्तिः सर्वविदिता एव। अस्य मातभक्ति, अलौकिकी आसीत्। आधुनिके काले अपि अनेके मातृभक्ताः सन्ति।

एतत् कथितं यत् पुत्र: कुपुत्रः भवति, परन्तु माता कदापि कुमाता न भवति। यथा- ‘कुपुत्रो जायते क्वचिदपि कुमाता न भवति' इति। 

मातुः माहात्म्यं सर्वाधिकं वर्तते। सा परमकल्याणी अस्ति। प्रभुरामचन्द्रेणापि कथितं,’ जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।‘ अतः एतद् अस्माकं परम् कर्तव्यम् यत् अस्माभिः मातृभक्तिः अवश्यमेव विधेया।



हिमालय 
Himalaya

 

हिमालयः एकः पर्वतः अस्ति। अयं पर्वतेषु महान् पर्वतः अस्ति। अत एव अयं पर्वतराज उच्यते। अस्मिन् पर्वते हिमस्य अधिकता अस्ति। तेन अस्य हिमालय इति नाम अस्ति। अयं पर्वतः उत्तरदिशायाम् अस्ति। अस्य अनेकानि शिखराणि अतीव उच्चतमानि सन्ति। अस्य गौरीशंकरनामाकं शिखरं संसारस्य सर्वेषु शिखरेषु उच्चतमं  मन्यते। अयं पर्वतः भारतस्य उत्तर्दिशाया: महाबलवान् प्रहरी अस्ति। अत्र नानाविधा वनस्पतयः विविधानि फलानि तथा नानाप्रकारणि खाद्यवस्तूनि च उपलभ्यते। अस्मिन् पर्वते अनेकानि तीर्थस्थानानि च सन्ति। बहूनां मुनीनां तपोवनानि विद्यन्ते। अत एव संस्कृतग्रंथेषु हिमालयस्य अतीव महत्वपूर्ण वर्णनं मिलति।




भारतवर्ष 
Bharatvarsh 

भारतदेशः अस्माकं देशः अस्ति। अयम् विश्वस्य प्राचीनतमः देशः अस्ति। अयम् आर्याणां देशोSस्ति। अयं ज्ञानस्य धर्मस्य आदिजन्म्भूमि अस्ति। अयं पृथिव्याः स्वर्गः, देवानां पुण्यभूमिः, विश्वस्य शिरोमणि अपि कथ्यते। प्राचीनकाले दुष्यन्तः नामकः सुप्रतापी नृपः आसीत्। तस्य पुत्रः भरतनाम्ना अस्य देशस्य नाम भारतः आसीत्। पर्वतराजहिमालयः अस्य उत्तरस्यां दिशि वर्तते। गंगा-यमुना सदृश्यो नद्यः स्वपावनेन जलेन अस्य देशस्य धरायाः सिञ्चन्ति। अस्य पूर्वेदक्षिणे भागे सागरः भारतस्य चरणौ क्षालयति। अस्माकं देशे अनेके धर्माः, विविधाः सम्प्रदायाः, अनेके उत्सवाः, अनेके भाषाः च सन्ति। अस्यामनेक तायामपि एकतायाः सुमधुरा धारा वहति। यतो वयं सर्वे भारतीयाः स्मः। 



भारत देश 
Bharat Desh


अस्माकं देशस्य प्राचीनं नाम "भारतं" वर्तते। सम्प्रति अस्य हिन्दुस्तान, हिन्द, इण्डिया इत्यपि नामानि सन्ति। अस्य पूर्वदिशायां बर्मा देशः अस्ति। दक्षिणदिशायां लंका अस्ति। पश्चिमदिशायां अफगानिस्तानं वर्तते। उत्तरदिशायां च हिमालयः अस्ति। अस्य खण्डितः भागः पाकिस्तान इति कथ्यते। 

 

अस्माकं देशः संसारस्य देशेषु अति पुरातनः देशः अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अयं देशः ज्ञानस्य धर्मस्य च आदिजन्मभूमिः अस्ति। अत्रैव वेदानां प्रादुर्भावः बभूव। अत्रैव मानवसभ्यता सर्वप्रथमं जन्म लेभे। इतः एव संसारे सर्वत्र सभ्यतायाः प्रचारः बभूव। अस्य महिमा अवर्णनीयः अस्ति। अस्य गौरवम् अतुलनीयम् अस्ति।  

 

सम्प्रति अस्माकं देशः यत् भारतं विद्यते तस्य भागद्वयम् अस्ति। एकं दक्षिणभारतम्, द्वितीयं उत्तरभारतञ्च दक्षिणभारते आन्ध्रप्रदेशः, केरलः, कर्नाटकः, तमिलनाडुः च इति इमे चत्वारः प्रदेशाः सन्ति। उत्तरभारते निम्नलिखितानि राज्यानि सन्ति। यथा अरुणाचल प्रदेशः, आसामः, महाराष्ट्रम्, मणिपुरम्, मिज़ोरमः, मेघालयः, नागालैंडः,त्रिपुरा, उड़ीसा, पंजाबः, राजस्थानम्, सिक्किमः, उत्तरप्रदेशः,पश्चिम बंगालः, मध्यप्रदेशः, जम्मू-काश्मीरश्च।  




वृक्ष
Tree


वृक्षाः जनाः स्वच्छम् वायुः ददाति। वृक्षाः पर्णैः पुष्पैः च शोभन्ते। अस्य वर्णः हरितः भवति। वृक्षः CO2 ग्रहति O2 वमति। वृक्षाः प्राणरहिताः जडपदार्थाः न। तेषामपि प्राणोऽस्ति। तेऽपि रोगग्रस्ता भवन्ति। वृक्षाः पादैः पातालं स्पृश्यन्ति। वृक्षाः पादैः(मूलैः) जलं पिबन्ति। वृक्षे काकः, चटकः शयेन च तिष्ठन्ति। वृक्षेषु भ्रमराः भ्रमन्ति मधुपानं च कुर्वन्ति। वानराः वृक्षेषु कूर्दन्ति। वृक्षेण फलानि विकसन्ति। जनाः वृक्षाणां फलानि भक्षयन्ति। वृक्षाः परोपकाराय फलन्ति। 





वृक्षारोपण
Tree Plantation 

 

भारतस्य एका भयावहा समस्या अस्ति ‘प्रदूषणम्’। प्रदूषणनिवारणाय वृक्षारोपणम् अत्यावश्यकमस्ति। प्राचीन काले, पुराणेषु अपि वृक्षाणां महत्त्वं प्रतिपादितम्। यः पञ्चानाम् आम्रवृक्षाणाम् आरोपणं करोति स कदापि नरकं न गच्छति इति कथ्यते। पुराणे एतदेव कथितं ‘पंचाम्रवापी नरकं न याति इति।

वृक्षाः अस्माकं कृते किं करोति एतत् अस्मिन् सुभाषिते कथितम्- 

 

धत्ते धारं कुसुमपत्रफलावलीनां धर्मव्यथां वहति शीतभवां रुजं च।

यो सर्वमर्पयति चान्यसुखस्य हेतोः, तस्मै वदान्यगुरवे तरवे नमोऽस्तु।

 

वृक्षाः स्वयं कुसुमपत्रफलानां भारं रहत, तथा सर्वं अन्येभ्यः गच्छन्ति। स्वयम् आतपे तिष्ठन्ति,  अन्यस्य छायां कुवन्ति। वृक्षाणां मूलं, वल्कलं, पत्रं, पुष्पं, फलं सर्वमेव परेभ्यः अस्ति।

एतादृशाः परोपकारिण: वृक्षा: जनेभ्य: किमपि न वाञ्छन्ति। किन्तु आधुनिके युगे जनाः स्वार्थिनः अभवत्। स्वसुखाय, गृहनिर्माणाय ते वृक्षान् छिन्दन्ति। ते किं न जानन्ति, यत् वृक्षाः सृष्टे: आधाराः सन्ति। वृक्षाभावे सृष्टि: असंभवा खलु।

वृक्षाः जनानां शरीरस्वास्थ्याय अपि सन्ति। ते ‘कार्बन डायऑक्साइड' वायुं गृहणन्ति, ऑक्सीजन वायुं च विसृजन्ति। नूनम् एषां जीवनं समस्त प्राणिभ्यः उपयोगिन:मस्ति। येभ्यः अर्थिनः कदापि निराशां न यान्ति। यात्रां कुर्वन्त: नरा: यदा श्रान्ताः भवन्ति, तदा मार्गे स्थितानां वृक्षाणां छायायां विश्रामं कुर्वन्ति।

एवं परोपकारिणां वृक्षाणां छेदनं कदापि न कर्तव्यम्। प्राचीनकाले तु वृक्षभेदनं दण्डनीयः अपराध: मन्यते। अस्माकं संस्कृत्यां वृक्षभेदनं पापं मन्यते।

अत: प्रत्येक नागरिकस्य एतत् कर्त्तव्यं यत् तेन वृक्षारोपणम् अवश्यं कर्तव्यम्। अधुना विद्यालयेषु अपि वृक्षारोपणं क्रियते। शासनः अपि अस्यां दिशायां प्रयासं करोति। अनेके नेतारः वृक्षारोपणं कुर्वन्ति। यदि वृक्षारोपणस्य कार्यं निरन्तरं भवेत्। तहिं प्रदूषण समस्यायाः समाधानं भवेत्।



आम वृक्ष
Mango Tree

 

अस्माकं देशे बहुविधानि फलानि भवन्ति। तेषु फलेषु आम्रं सर्वोत्तमं फलम् अस्ति। अत एव इदं फलानां राजा मन्यते। आम्रं प्रायः सर्वेषु देशेषु फलति। परन्तु भारतवर्षस्य आम्राणि विशेषरूपेण प्रसिद्धानि सन्ति।

 

उत्पत्तिभेदेन आम्रं द्विविधं भवति। एकं “बीजू” (कथ्यते) अपरं च “कलमी” इति। बीजू आम्रस्य रोहिनिया सेनुरिया इत्यादयः शताधिकाः भेदाः भवन्ति। कलमी आम्रस्य च मालदह, बम्बैया, लंगड़ा इत्यादयः बहवः भेदाः सन्ति।

 

सर्वाणि आम्राणि प्रायः वसंत-ऋतौ एव फलन्ति। आम्र फलानि प्रायेण मधुराणि एव भवन्ति। केषान्चित् मधुरता तु अवर्णनीया भवति। कानिचित् अम्लानि तथा नीरसानि अपि भवन्ति। परन्तु एतादृशानि आम्राणि अल्पानी भवन्ति।


आम्रवृक्ष 
Aamravriksh


एषः आम्रवृक्षः। एषः वृक्षः उन्नतः विस्तीर्णः च अस्ति। न केवलं तस्य पक्वानि फलानि अस्मभ्यं रोचन्ते अपितु अपक्वानि अपि। वसन्ते ऋतौ अपक्वानि आम्रफलानि भवन्ति तानि एव ग्रीष्मे पक्वानि मधुराणि च जायन्ते।  वसन्ते ऋतौ एतस्मिन् नूतनाः पल्ल्वाः विलसन्ति। अनन्तरं मञ्जर्यः विराजन्ते। मञ्जरीणां सुगन्धेन सर्वपरिसरः सुगंधितः भवति। तदा आम्रवृक्षस्य शोभा अवर्णनीया भवति। आम्रवृक्षस्य छाया निबिडा शीतला च भवति। आतपेन तप्ताः जनाः तस्य छायाम् आश्रयन्ते आनन्दिताः च भवति। सर्वफलेषु आम्रफलं श्रेष्ठम् इति जनाः मन्यन्ते। जनाः आम्रवृक्षं मंगलकरमपि मन्यन्ते। अतः जनाः तोरणेषु एतस्य पर्णानां उपयोगं कुर्वन्ति।



हाथी 
Elephant

 

हस्ती एकः महान् पशुः अस्ति। अस्य शरीरम् अति विशालं भवति। हस्तिनः एकं विशिष्टं अंगम भवति। तस्य नाम शुण्डा अस्ति। शुण्डया सः बहूनि कार्याणि करोति। शुण्डया वृक्षाणां  शाखाः त्रोटयति। शुण्डया सः खाद्यवस्तूनि मुखे निक्षिपति। शुण्डया जलं पिबति। हस्ती हस्तस्य सर्वं कार्यं शुण्डया करोति। 

 

हस्ती स्वभावेन अतीव धीरः तथा गम्भीरः भवति। सः चंचलः न भवति। सः महाबलवान् अपि अस्ति परन्तु बलस्य अभिमानं न करोति। हस्तिनः दन्ताःअपि द्विविधाः भवन्ति। अनेके दन्ताः मुखस्य आभ्यन्तरे एव तिष्ठन्ति। परं द्वौ दन्तौ मुखाद् बहिः तिष्ठतः।

 

हस्ती एकः अतीव दर्शनीयः पशुः अस्ति। अनेके हस्तिनः बहूनि कौतुकानी अपि कुर्वन्ति। हस्तिनां विशालं शरीरं, गम्भीरं स्वभावं, मंदम्-मंदम् गमनम्, अनुशासन-पालनं च दृष्ट्वा मनसी महती प्रसन्नता भवति।      



मोर 
Peacock


भारतस्य राष्ट्रखगः मयूरः अस्ति। मयूरः सर्वखगेषु सुन्दरः अस्ति। एतस्य केका प्रसिद्धा। आकाशे मेघाः गर्जन्ति। तदा एषः मयूरः आनंदति नृत्यति च। तस्य नृत्यं अतीव नयनमनोहरम्। नर्तनसमये कलापः विस्तृतः भवति। एतस्य पिच्छस्य विविधाः वर्णाः। एतस्य पिच्छे नीलवर्णस्य आधिक्यं भवति। हरितः, पीतः, नीलः अपि वर्णाः मयूरस्य पिच्छे सन्ति। एते वर्णाः आकर्षकाः। अतः मयूरः सर्वेषां चित्तानि आकर्षति। 

 

एतस्य चञ्चूः किञ्चित् दीर्धा। मस्तके शिखा भवति। नृपस्य मस्तके मुकुटं भवति, तथा मयूरस्य मस्तके शिखा विराजते। अतः शिखी इति अपि जनाः तं वदन्ति। एतस्य सम्पूर्णं शरीरं सुन्दरं परन्तु चरणौ असुन्दरौ। नृत्यसमये एतस्य चरणौ अपि सुन्दरौ भवतः। एतस्य कण्ठः नीलः। अतः नीलकंठः इति एनम् अपि, सर्वे वदन्ति। 

 

मयूरः वने वसति। वृक्षेषु आरोहति। सः भूमौ चलति, धावति आकाशे उड्डयते च। सः सर्पान् अपि भक्षयति। सः मानवान् सर्पेभ्यः रक्षति। 

 

शंकरस्य वाहनं वृषभः। विष्णोः वाहनं गरुड़ः। गणेशस्य वाहनं मूषकः तथा सरस्वत्याः वाहनं मयूरः।  





गाय 
Cow


अस्माकं देशस्य सर्वश्रेष्ठः पशुः गौ: अस्ति। अस्माकं देशे गौ: मातृवत् पूज्या अस्ति। गौ: अस्मभ्यं मधुरं दुग्धं ददाति। गौदुग्धेभ्यः दधिः, घृतम् च जायते। गोघृतं अतीव पवित्रं मन्यते। गौ: अस्माकं बहुउपकारं करोति। गोवत्साः एव वृषभाः भवन्ति। वृषभाः हलेन क्षेत्राणि कर्षन्ति। गोमयेन उपलानि निर्मीयन्ते। गोमयेन उर्वराशक्तिः वर्धते। उपलानां प्रयोग इंधने अपि भवति। गौ: घासं-तृणं च खादति। गौ: अस्मभ्यं अतीव उपयोगी अस्ति। अतः वयं गाम् गोमाता अपि कथयामः।  





धेनु 
Dhenu 


गौ: एकः चतुष्पात पशु: अस्ति। अस्या: एकं पुच्छम् भवति। द्वे श्रंगे भवतः। चत्वारः पादाः भवन्ति। अस्या: गले एकं गल्कम्ब्लम् भवति। इदं गल्कम्ब्लम् अन्यापशुनाम न भवति। गौ: तृणचारी पशु: अस्ति। इयं वनेषु भ्रमति घासम तृणं च चरति। अस्याः स्वभाव अतीव सरलः भवति। गौ: महान उपकारी पशु: अस्ति। इयं दुग्धं ददाति। दुग्धेन दधि भवति। अस्या: दधि दुग्धं घृतं च अतीव पवित्रं हितकारकं च भवति। गौ: गोमयं ददाति। गोमयेन गृहे लिप्यते। पूजाकार्ये अपि गोमयस्य उपयोगो भवति। गौमूत्रेण च अनेके रोगाः नृश्यन्ति। गौ पशु नास्ति। सा माता अस्ति, पिता अस्ति, देवता अस्ति।






बसंत पंचमी 
Basant Panchami


माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ ऋतुराजवसन्तस्य आगमनसूचना भवति। वसंतपंचमी श्रीपञ्चमी नाम्ना अपि ज्ञायते। अस्मिन् समये प्रकृतेः सौन्दर्यं चरमोत्कर्षम प्राप्नोति। सर्वत्र रमणीयतायाः दर्शनम् भवति। वृक्षेषु नूतनकिसलयरागः राजते। क्षेत्रेषु सर्षपपुष्पाणां सुषमा पीतिमा च मनोहारिणी दृश्यते। आम्रेषु मञ्जरीं परितः भ्रमंतः भ्रमराः दृश्यन्ते। कोकिलानां मधुरस्वरः चित्तम् आकर्षति। वसंतोत्सवे शीतकालस्य अनन्तरं परम्परया सौन्दरस्य पूजनं क्रियते। विविधैः पुष्पैः, नवान्नैः, फलैः च ऋतुराजस्य वसन्तस्य स्वागतं भवति। एषः उत्सवः सौन्दर्यस्य रमणीयतायाः पुष्पाणां, किसलयनां मधुरागमनस्य च उत्सवः अस्ति।




सरस्वती वन्दना 
Saraswati Vandana

 

सरस्वती अस्माकं एका देवी अस्ति। इयं ज्ञानस्य देवी अस्ति। सरस्वत्याः चत्वारः हस्ताः भवन्ति। तेषु एकस्मिन् हस्ते पुस्तकं धारयति, एकस्मिन् हस्ते मालां धारयति, एकस्मिन् हस्ते वीणां धारयति तथा एकेन हस्तेन वीणां वादयति। 

 

सरस्वत्याः वाहनं हंसः अस्ति। इयं पद्मासने तिष्ठति। इयं शुक्लानि वस्त्राणि धारयति। अस्याः मूर्तिः अतीव मनोहरा गम्भीरा शान्तिमयी प्रसन्नकारा च भवति। 

 

सरस्वती ज्ञानस्य अधिष्ठात्री देवी अस्ति। इयं ज्ञानमयी अस्ति। इयं ज्ञानं ददाति, अज्ञानं च निवारयति। इयं विवेकं ददाति, अविवेकं च निवारयति। इयं विद्याम ददाति अविद्यां च नाशयति। 

 

अतएव सर्वे विद्योपासकाः सरस्वतीं सेवन्ते, सरस्वतीं प्रणमन्ती, सरस्वतीं पूज्यन्ति, सरस्वतीं स्तुवन्ति तथा सरस्वतीं एव उपासते। 

 

सरस्वती एव विदुषां विद्यार्थिनां च महामान्या देवी अस्ति। अत एव वसन्तपञ्चम्यां भारतस्य सर्वेषु अपि विद्यालयेषु महता समारोहेण सरस्वत्याः पूजा भवति। 




नया साल 
Happy New Year

 


नवीनं वर्षं नववर्षमिति। नूतनवर्षस्य समारम्भो अस्माकं भारतीयानां कदा भवति इति प्रायो ये सुपठिताः जनाः सन्ति तेSपि न जानन्ति। प्रायो हि समग्रे संसारे नववर्षारम्भः जनवरीमासस्य प्रथमतारिकायां भावतीति स्वीकुर्वन्ति मन्वतेअपि च जनाः। किन्तु भारतीयपरम्परायां नववर्षस्य समारम्भः विक्रमसम्वत्सरस्य प्रथमेSहनि भवति, इति स्वीक्रियते। विक्रमादित्यः सम्वत्सरस्य प्रवर्तनञ्चकार। अतोSस्माकं भारतीयानां नववर्षारम्भः चैत्रशुक्लप्रतिपदि भवति। एवमेव क्रिश्चियन धर्मावलम्बिनः नववर्षाराम्भं जनवरीमासस्य प्रथमेSहनि स्वीकुर्वन्ति एवमेव मुस्लिम धर्मावलम्बिनो 'हिजरी सन्' समारम्भस्य प्रथमं दिनं नववर्षारंभदिनं वदन्ति। अस्माभिरस्माकं मान्यतानुरोधेन नववर्षमहोत्सवः एव चैत्रशुक्लप्रतिपदि समायोजनीयः। 




विद्यार्थी जीवन 
Vidyarthi Jeevan 


एतत् कथ्यते मनुष्यः यावज्जीवं विद्यार्थी अस्ति। सत्यं खलु इदं वचनम्। यदि मनुष्यः विद्याम् अर्जितुं तत्परः भवति तर्हि सः जीवने साफल्यं सुखं च प्राप्नोति। वस्तुतः प्रत्येकः मनुष्यः पञ्चविंशतिवर्षः पर्यन्तं विद्यार्जनं करोति।

विद्यार्थीजीवनस्य प्रारंभ: शिशुविद्यालयात् भवति। तत: विद्यालयात्, तत्पश्चात् च महाविद्यालयात् शिक्षा प्राप्नोति। 

प्राचीन काले छात्रा: गुरुकुलं गच्छन्ति स्म। तत्रैव ब्रह्मचर्य पालयन् विद्याप्राप्त कुर्वन्ति स्म। अधुना शिक्षानीतिः परिवर्तिता। अधुना कतिपयाः छात्रा: प्राथमिकिं शिक्षां गृहित्वा उच्चशिक्षार्थं परदेशगमनं कुर्वन्ति। विश्वविद्यालयेषु पठन छात्रावासेषु वसन्ति। अधुना विद्यार्थिनां जीवनस्तर उच्चतरः अभवत्।  

विद्याथीजीवनं मानवजीवनस्य मुख्य आधारः। विद्यार्थीजीवने यादृशी शिक्षां प्राप्यते, यान् संस्कारान् लभते, तेषाम् उपयोगः समस्तजीवने भवति। अतः विद्यार्थिन: प्रथमं कर्तव्यं यत् विद्यापठने कदापि आलस्यं न कुर्युः। विद्यार्थी जीवनं सदा अनुशासनपूर्णं भवेत्। यदि छात्रः अनुशासितः भवति, तदा तस्मे किमपि दुष्करं न भवति।

छात्रेण सदैव प्रातः सूर्योदयात् पूर्व उत्तिष्ठनीयम्। प्रात:काले कृतं स्मरण चिरकालं तिष्ठति। छात्रस्य पठने रुचिः स्वाभाविकी भवेत्। यदि प्रसन्नमनसा पठति, तर्हि परीक्षायां श्रेष्ठान् अङ्कान् आप्नोति।

विद्यार्थीजीवने पठनेन् सह क्रीडनमपि आवश्यकम्। शुद्धवातावरणे क्रीड़नेन शरीरं स्वस्यं भवति तथा मनः अपि पठने एकाग्रं भवति।

यदि विद्यार्थी दिनचर्यानुसारं स्वकार्यं समये करोति, तर्हि सः जीवने साफल्यं प्राप्नोति।

विद्यार्थिनः देशस्य भावी नागरिकाः सन्ति। आदर्श: छात्रः देशस्य आदर्श: नागरिकः खलु।




ग्रामीण जीवन 
Grameen Jeevan

 


भारतवर्षः ग्रामप्रधानः देशः अस्ति। 

अधिकाः जनाः ग्रामे एव निवसन्ति। 

ग्राम्यजीवनं सुव्यवस्थितं भवति। 

ग्रामाणां जलवायुः स्वास्थ्यप्रदः भवति। 

ग्राम प्रायेण सर्वे स्वस्थाः भवन्ति। 

ग्राम प्रायेण कृषीवलाः भवन्ति। 

ग्रामान् परितः शस्यश्यामला धरित्री राजते। 

परिश्रमशीलाः ग्रामीणाः धान्यादिकम् उत्पादयन्ति। 

ग्राम शुक-हंस-मयूर-कोकिलादय पक्षिणः कूजन्ति। 

हरिण-हो-महिष-मेषादयः पशवः च चरन्ति। 

ग्राम्य-जीवनं सदाचार सम्पन्नं धार्मिकं च भवति। 

ग्राम्य-जीवनं सुकरं सुखकरं च भवति।




संस्कृत भाषायाः महत्वम् 
Sanskrit Bhasha ka Mahatva



सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते। अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिक साहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः, अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति। 




नर्मदा नदी 
Narmada River

पावनसलिलानर्मदा मध्यप्रदेशस्य जीवनदायिनी सरिता अस्ति। एषा एव रेवा-मेकलसुतादिभिः अनेकनामभिः प्रसिद्धा। अस्याः उभयोः तटय़ोः अनेकानि तीर्थस्थानानि, तपस्विनाम् आश्रमाश्च सन्ति। प्राचीनकालादेव अस्याः पावनतटय़ोः तपस्विनां सिद्धस्थलानि सन्ति। अतः जनाः नर्मदायाः परिक्रमणं कृत्वा आत्मानं धन्यं पवित्रं च मन्यते। 

अनूपपुरमंडले अमरकंटकं नाम पर्वतः अस्ति। तत एव नर्मदा प्रादुर्भावति। ततः जाबालिपुरम् आगच्छति। श्वेतशिलाखंडानां कृते अतिप्रसिद्धे भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तद् अवलोकनार्थं बहवः पर्यटकाः अत्र आगच्छन्ति। नर्मदानद्यामेव बरगी-इंदिरासागर-सरदारसरोवरादयः बहवः बन्धाः निर्मिताः सन्ति। यावन्तः बन्धाः नर्मदानद्यां सन्ति तावन्तः अन्यासु नदीषु न सन्ति। एभिः बंधै: विद्युदुत्पादनं, भूमिसेचनम्, जलपरिवहनं, पर्यटनस्थलनिर्माणम् इत्यादयो विविधलाभाः भवन्ति।