पुस्तक मेल 
पुस्तकम्‌ मेला
Pustak Mela


प्रतिवर्षं दिल्लीनगरस्य प्रगति मैदाने पुस्तकमेला भवति । अस्य मेलायाः आयोजनं राष्ट्रियपुस्तकन्यासेन क्रियते । अधुना एषा मेला राष्ट्रियरूपं गृह्णाति। अस्मिन् मेले देशस्य सर्वेभ्यः भागेभ्यः शतशः प्रकाशकाः भागं गृह्णन्ति । ते नूतनपुराणानां सर्वेषां प्रकाराणां पुस्तकानां प्रदर्शनं विपणनं च कुर्वन्ति । लक्षशः पुस्तकप्रेमिणः अस्य मेलादर्शनाय आगच्छन्ति, स्वपसन्दस्य पुस्तकानि क्रीणन्ति च। मेला अनेकखण्डेषु विभज्य आयोजिता भवति, येन इष्टविषये पुस्तकं उपलब्धं कर्तुं शक्यते । अस्य मेलायाः उपयोगिता अपारम् अस्ति । अस्मिन् पाठकाः एकस्य छतस्य अधः सर्वविधं उत्तमपुस्तकानि प्राप्नुवन्ति। बहिः प्रकाशकानां पुस्तकानां प्रचारः उत्तमः भवति, पाठकाः च प्राप्नुवन्ति।