मेरी पाठशाला 
मम विद्यालयः
Meri Pathshala



मम विद्यालयस्य नाम 'शारदा विद्यामन्दिर' अस्ति। मम विद्यालयभवनं त्रिमहलम् अस्ति। अस्मिन् कुलत्रिंशत् कक्ष्याः सन्ति ।

मम विद्यालये बालवाड़ीतः १० कक्षापर्यन्तं शिक्षा भवति। विद्यालयस्य समयः प्रातः एकादशवादनात् सायं पञ्चवादनपर्यन्तं भवति। विद्यालये पुस्तकालयः, प्रयोगशाला, चित्रकलायां पृथक् पृथक् कक्ष्याः च सन्ति । विद्यालये विशालः सभागारः अपि अस्ति ।

श्री मूर्तिजी अस्माकं विद्यालयस्य मुख्याध्यापकः अस्ति। ते अनुशासनस्य विषये बहु बलं ददति। विद्यालयस्य सर्वे शिक्षकाः अस्मान् अतीव प्रेम्णा पाठयन्ति। अस्माकं विद्यालये १५ अगस्त, २६ जनवरी, गान्धी जयन्ती, बालदिवसः च अतीव उत्साहेन आचर्यते।

विद्यालयस्य समीपे क्रीडाङ्गणम् अपि अस्ति । छात्राणां कृते क्रीडायाः कृते पर्याप्तसुविधाः प्रदत्ताः सन्ति। भूमौ वयं क्रिकेट्, हॉकी, फुटबॉल इत्यादीनि क्रीडामः। अहं मम विद्यालयं बहु प्रेम करोमि।