मेरी यादगार यात्रा 
मम स्मरणीयं भ्रमणम् 
Meri Yadgar Yatr


नाताल-नगरे अवकाशकाले अहं सहपाठिभिः सह वज्रेश्वरी-भ्रमणार्थं गतः । अस्माभिः सह वर्गशिक्षकाः अपि आसन् ।

चर्चगेट्-स्थानकात् वसाई-स्थानकं यावत् वयं रेलयाने आरुह्य गतवन्तः । ततः ST बसयाने उपविश्य वयं वज्रेश्वरीं प्राप्तवन्तः।

तत्र किञ्चित् प्रातःभोजनं कृत्वा वयं वज्रेश्वरीदेव्याः मन्दिरं गतवन्तः। तत्र प्रसिद्धेषु उष्णजलकुण्डेषु वयं स्नानं कृतवन्तः । वयं अपराह्णे मध्याह्नभोजनं कृतवन्तः।

भोजनानन्तरं तत्र वयं क्रिकेट्-फुटबॉल-पाक-पकडी-क्रीडाः क्रीडन्तः आसन् । अस्माकं केचन मित्राणि ताशं, अन्तक्षरी च क्रीडन् आनन्दं प्राप्नुवन्ति स्म । सायं प्रत्यागच्छन् वयं गणेशपुरी आश्रमं दृष्टवन्तः।

अस्माभिः एतत् भ्रमणं यथार्थतया आनन्दितम्। अहं पुनः पुनः एतत् भ्रमणं स्मरन् अस्मि।