साँच को आँच नहीं 
ढालं न तापयन्तु
Sanch ko Aanch Nahi


सत्यस्य मार्गः अतीव कठिनः अस्ति। कष्टं गच्छेत्तु न भ्रष्टं गच्छति । ये कष्टेन विचलिताः भवन्ति, ते शीघ्रं स्वमार्गं परिवर्तयन्ति। मार्गान्तरं कृत्वा असत्यं प्रति गच्छन्ति इत्यर्थः । एवं भ्रष्टा गच्छन्ति। एतेन जीवनस्यैव प्रयोजनस्य नाशः भवति । एतादृशं जीवनं विफलं भवति। अस्मात् किमधिकं तापं पुरुषस्य स्यात् यत् सः स्वसत्यं मार्गं विस्मरति। सत्यमार्गे गन्तुं स्वयज्ञस्य आवश्यकता वर्तते। ये लोकाकर्षणेषु लुप्ताः भवन्ति, ते संन्यासस्य स्थाने भोगमार्गं प्रति गच्छन्ति। तस्य जीवने तापः अस्ति। ते एव अन्ते रुदन्ति पश्चात्तापं कुर्वन्ति। अतः मनुष्यः सदा सत्यमार्गे गच्छेत् इति चिन्तयेत् ।